| YouTube Channel

पारिजातः (pArijAtaH)

 
Apte
English
पारिजातः [pārijātḥ] पारिजातकः [pārijātakḥ], पारिजातकः [पारमस्यास्तीति पारी समुद्रस्तत्र जातः, तस्य समुद्रोत्पन्नत्वात्]
N.
of one of the five trees of Paradise, Nictanthus arbor-tristis (said to have been produced at the churning of the ocean and come into the possession of Indra, from whom it was wrested by Kṛiṣṇa and planted in the garden of his beloved Satyabhāmā), कल्पद्रुमाणामिव पारिजातः
R.*
6.6
1.11
17.7
पञ्चैते देवतरवो मन्दारः पारिजातकः Ak.
The coral tree.
Fragrance.
Comp.
-पुष्पकः A variety of gems. Kau.
A.
2.11.29.
Apte 1890
English
पारिजातः, पारिजातकः [ पारमस्यास्तीतिपारी समुद्रस्तत्र जातः, तस्य समुद्रेत्पन्नत्कत्] 1 N. of one of the five trees of Paradise (said to have been produced at the churning of the ocean and come into the possession of Indra, from whom it was wrested by Kṛṣṇa and planted in the garden of his beloved Satyabhāmā), कल्पद्रुमाणामिव पारिजातः R. 6. 6, 10. 11
17. 7.
2 The coral tree.
3 Fragrance.
Apte Hindi
Hindi
पारिजातः
पुं*
- पारमस्य अस्ति इतिपारी समुद्रः तस्माज्जातः- पारिजात + कन्
स्वर्ग के पाँच वृक्षों में से एक
पारिजातः
पुं*
- पारमस्य अस्ति इतिपारी समुद्रः तस्माज्जातः- पारिजात + कन्
मूंगे का पेड़
पारिजातः
पुं*
- पारमस्य अस्ति इतिपारी समुद्रः तस्माज्जातः- पारिजात + कन्
सुगन्ध
Wordnet
Sanskrit
Synonyms:
पारिजातः
noun
शुभ्रं पुष्पं यस्य काण्डं नारङ्गवर्णीयम् अस्ति।
"बालकाः मालार्थे पारिजातं चिन्वन्ति।"
Synonyms:
पारिजातः
noun
मध्यमोन्नतः एकः वृक्षः यस्य पुष्पाणि लघूनि सुगन्धितानि सन्ति।
"पारिजातस्य पुष्पाणि यदा विकसन्ति तदा तस्मिन् एव समये पतन्ति।"
Synonyms:
प्रवालः, प्रबालः, विद्रुमः, प्रवालम्, रत्नवृक्षः, मन्दटः, मन्दारः, रक्तकन्दः, रक्तकन्दलः, हेमकन्दलः, रत्नकन्दलः, लतामणिः, अङ्गारकमणिः, माहेयः, पारिजातः, पारिभद्रः, क्रिमिशत्रुः, भौमरत्नम्, भोमीराः, सुपुष्पः, रक्तपुष्पकः
noun
रत्नविशेषः, माङ्गल्यार्थे परिधीयमाणः रक्तवर्णवर्तुलाकारघनगोलविशेषः
"गौरं रङ्गजलाक्रान्तं वक्रसुक्ष्मं सकोटरं रूक्षकृष्णं लघुश्वेतं प्रवालम् अशुभं त्यजेत्"
Tamil
Tamil
பாரிஜாத: : பாரிஜதாக: = பாரிஜாத மலர்.
शब्दकल्पद्रुमः
Sanskrit
पारिजातः,
पुं,
(पारमस्यास्तीति पारी समुद्रस्तस्मात्जातः समुद्रमन्थनकाले तद्गर्भजातत्वात् तथा-त्वम् पारिणोऽद्रेर्जातः इति कश्चित् ।) पारि-भद्रवृक्षः सुरतरुः इति मेदिनी ते, २११
(समुद्रमन्थनकालेऽस्योत्पत्तिकथा यथा, भागवते ।“ततोऽभवत् पारिजातः सुरलोकविभूषणम् ।पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान्
”)अस्योत्पत्तिहरणे यथा, --“अदित्यानुकृतानुज्ञो देवराजो जनार्द्दनम् ।यथावत् पूजयामास बहुमानपुरःसरम्
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।देवोद्यानानि सर्व्वाणि नन्दनादीनि सत्तम !
ददर्श सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।शैत्याह्लादकरं दिव्यं बालपल्लवशोभितम्
मथ्यमानेऽमृते जातं जातरूपमयत्वचम् ।पारिजातं जगन्नाथः केशवः केशिसूदनः
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ! ।कस्मान्न द्वारकामेष नीयते कृष्ण ! पादपः
इत्युक्तः प्रहस्यैनं पारिजातं गरुत्मति ।आरोपयामास हरिस्तमूचुर्व्वनचारिणः
भोः शची देवराजस्य महिषी तत्परिग्रहम् ।पारिजातं गोविन्द ! हर्त्तुमर्हसि पादपम् ।शचीविभूषणार्थाय देवैरमृतमन्थने ।उत्पादितोऽयं क्षेमी गृहीत्वैनं गमिष्यसि
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण ! यास्यति ।वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ! ।विपाककटु यत् कर्म्म तच्छंसन्ति पण्डिताः
इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी ।का शची पारिजातस्य कोऽयं शक्रः सुरा-धिपः
सामान्यः सर्व्वलोकानां यद्येषोऽमृतमन्थने ।समुत्पन्नः सुराः कस्मादेको गृह्णाति वासवः
यथा सुधा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ! ।सामान्यः सर्व्वलोकस्य पारिजातस्तथा तरुः
भर्तृबाहुमहागर्व्वा रुणद्ध्यैनं यथा शची ।तत् कथ्यतामलं क्षान्त्या सत्याहारयति द्रुमम्
कथ्यतां वै द्रुतं गत्वा पौलम्यां वचनं मम ।सत्यभामा वदत्यैतदिति गर्व्वोद्धताक्षरम्
यदि त्वं दयिता भर्त्तुर्यदि वश्यः पतिस्तव ।मद्भर्त्तुर्हरतो वृक्षं तत् कारय निवारणम्
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।पारिजातं तथाप्येनं मानुषी हारयामि ते
श्रीपराशर उवाच ।इत्युक्ता रक्षिणो गत्वा शच्या ऊचुर्यथोदितम् ।शची चोत्साहयामास श्रुतार्था त्रिदशाधिपम्
ततः समस्तदेवानां सैन्यैः परिवृतो हरिः ।प्रययौ पारिजातार्थमिन्द्रो योधयितुं द्विज !
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते
ततो निरीक्ष्य गोविन्दो नागराजोपरिस्थितम् ।शक्रं देवपरीवारं युद्धाय समुपस्थितम्
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।मुमोच शरव्रातं सहस्रायुतसम्मितम्
छिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् ।जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम्
ततो हाहाकृतं सर्व्वं त्रैलोक्यं द्बिजसत्तम ! ।वज्रचक्रधरौ दृष्ट्वा देवराजजनार्द्दनौ
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान् हरिः ।न मुमोच तथा चक्रं शक्र ! तिष्ठेति चाब्रवीत् ।प्रनष्टवज्रं देवेशं गरुडक्षतवाहनम् ।सत्यभामाब्रवीद्वीरं पलायनपरायणम्
त्रैलोक्येश्वर ! नो युक्तं शचीभर्त्तुः पलायनम् ।पारिजातस्रगाभोगा त्वामुपस्थास्यते शची
श्रीपराशर उवाच ।इत्युक्तो वै निववृते देवराजस्तया द्विज ! ।प्राह चैनामलं चण्डि ! सख्युः खेदातिविस्तरैः
चापि सर्गसंहारस्थितिकर्त्ताखिलस्य यः ।जितस्य तेन मे व्रीडा जायते विश्वरूपिणा
यस्मिन् जगत् सकलमेतदनादिमध्येयस्माद्यतश्च भविष्यति सर्व्वभूतात् ।तेनोद्भवप्रलयपालनकारणेनव्रीडा कथं भवति देवि ! निराकृतस्य
संस्तुतो भगवानित्थं देवराजेन केशवः ।प्रहस्य भावगम्भीरमुवाचेन्द्रं द्बिजोत्तम !
देवराजो भवानिन्द्रो वयं मर्त्त्या जगत्पते ! ।क्षन्तव्यं भवतैवैतदपराधं कृतं मया
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।गृहीतोऽयं मया शक्र ! सत्या वचनकारणात्
श्रीशक्र उवाच ।विमोहयसि मांमीश ! मर्त्योऽहमिति किं वदन् ।जानीमस्त्वां भगवतो तु सूक्ष्मविदो वयम्
नीयतां पारिजातोऽयं कृष्ण ! द्वारवतीं पुरीम् ।मर्त्यलोके त्वया मुक्ते नायं वै स्थास्यते भुवि
तथेत्युक्त्वा देवेन्द्रमाजगाम भुवं हरिः ।हर्षमुत्पादयामास द्वारकावासिनां द्विज !
अवतीर्य्याथ गरुडात् सत्यभामासहायवान् ।निष्कुटे स्थापयामास पारिजातं महातरुम्
यमभ्येत्य जनः सर्व्वो जातिं स्मरति पौर्ब्बिकीम् ।वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजना
ततस्ते यादवाः सर्व्वे देहबन्धानमानुषान् ।ददृशुः पादपे तस्मिन् कुर्व्वन्तो मुखदर्शनम्
”इति विष्णुपुराणे पञ्चमेऽंशे पारिजातहरणे३० ३१ अध्यायौ
(ऐरावतकुलजातनाग-विशेषः यथा, महाभारते ५७ ११ ।“पारावतः पारिजातः पाण्डरो हरिणः कृशः
”ऋषिविशेषः यथा तत्रैव ११ ।“पारिजातेन राजेन्द्र ! रैवतेन धीमता ।सुमुखेन सौम्येन देवर्षिरमितद्युतिः
”तन्त्रशास्त्रविशेषः यथा, आगमतत्त्वविलासे ।“भुवनेश्वरीं पारिजातं प्रयोगसारमुत्तमम्
”)