पारायण (pArAyaNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishपारायण (-णं)
1. Totality, entireness, completeness.
2. Going over,
reading or doing any thing completely.
3. Going across.
4. Reading
a Purāna, or causing it to be read.
(-णी)
1. The goddess SARA-
SWATĪ.
2. Action, act.
3. Considering, meditating.
4. Light.
पार
the boundary or limit, and अयन going to, extending: when used
attributively it remains always neuter.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishपारायण - pArAyaNa - - reading a purANa or causing it to be read
पारायण - pArAyaNa - - complete collection of
पारायण - pArAyaNa - - studying
पारायण - pArAyaNa - - complete text
पारायण - pArAyaNa - - totality
पारायण - pArAyaNa - - going over
पारायण - pArAyaNa - - whole
पारायण - pArAyaNa - - perusing
पारायण - pArAyaNa - - reading through [ perusing , studying ]
पारायण pArAyaNa perusing
Wilson
Englishपारायण
(-णं)
1 Totality, entireness, completeness.
2 Going over, reading or doing any thing completely.
3 Going across.
4 Reading a Purāṇa, or causing it to be read.
(-णी)
1 The goddess SARASVATĪ.
2 Action, act.
3 Considering, meditating.
4 Light.
पार the boundary or limit, and अयन going to, extending: when used
attributively it remains always neuter.
Monier Williams Cologne
EnglishBenfey
EnglishApte Hindi
Hindiपारायणम्
पारः-अयणम् -
पार जाना
पारायणम्
पारः-अयणम् -
"पूरा पढ़ना, अनुशीलन, आद्योपान्त अध्ययन"
पारायणम्
पारः-अयणम् -
"समग्रता, सम्पूर्णता, या किसी वस्तु की समष्टि"
Shabdartha Kaustubha
Kannadaपारायण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆದಿಯಿಂದ ಕೊನೆಯವರೆಗೂ ಗ್ರಂಥವನ್ನು ಓದುವುದು /ಸಂಪೂರ್ಣ ಗ್ರಂಥವನ್ನು ಓದುವುದು
निष्पत्तिः - > अय (गतौ) - "ल्युट्" (३-३-११७)
व्युत्पत्तिः - > पारं समाप्तिमयते अनेन
प्रयोगाः - > "बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं शब्दपारायणं जगौ । नान्तं जगाम"
उल्लेखाः - > महाभा०
पारायण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪುರಾಣ ಪಾಠ /ಪುರಾಣವನ್ನು ಓದುವುದು
प्रयोगाः - > "वरयेद्बाह्मणं शान्तं पारायणकृते तदा"
उल्लेखाः - > देवीभा०
पारायण
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ವೇದದ ಪಠನ
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
EnglishEdgerton Buddhist Hybrid
EnglishAbhyankara Grammar
Englishपारायण oral recital of a sacred work. See पारण.
अभिधानचिन्तामणिः
Sanskritसाकल्यवचनं पारायणं कल्पे विधिक्रमौ ॥ ८३९ ॥
साकल्यवचन (क्ली), पारायण (क्ली), कल्प (पुं), विधि (पुं), क्रम (पुं)
अभिधानरत्नमाला
Sanskritसाकल्यवचन
साकल्यवचन, पारायण
साकल्यवचनं प्राज्ञैः पारायणमुदाहृतम् ॥ ४०१ ॥
verse 2.1.1.401
page 0047
शब्दकल्पद्रुमः
Sanskritपारायणं, साकल्यवचनम् । इत्यमरः । ३ ।२ । २ ॥
“पारं समाप्तिं अयते गच्छति प्राप्नोतिपारायणं नन्द्यादित्वादनः । आविष्टलिङ्गत्वा-द्भिन्नलिङ्गेन सामानाधिकरण्येऽपि क्लीवमवपारायणम् । यथा धातुपारायणम् । रत्न-पारायणं नाम लङ्केति मम मैथिलीति भट्टिः ।”इति भरतः ॥
(पारमयन्ते समाप्तिं प्राप्नुवन्तियेनेति । अय + ल्युट् करणे इत्येके ।) पुराण-पाठः । (यथा, देवीभागवते । ३ । २६ । १७ ।“वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा ॥
”)तत्र श्रीभागवतपाठानुक्रमो यथा, --श्रीपार्व्वत्युवाच ।“स्कन्धैर्द्वादशभिः प्रोक्तं श्रीमद्भागवतं प्रभो ! ।शुकस्तच्छ्रावयामास महाराजं परीक्षितम् ॥
सप्ताहेनेति भगवन् ! श्रूयते तत्र तत्र ह ।तस्यानुक्रममिच्छामि श्रोतुं तत्फलमेव च ॥
सदाशिव उवाच ।साधु पृष्ठम्महाभागे ! लोके यत् प्रचरिष्यति ।पारायणमिति ख्यातं सद्यो मुक्तिप्रदं नृणाम् ॥
शुकस्योक्तिक्रमेणैव पठेद्भागवतन्तु यः ।श्रावयेच्छृणुयाद्बापि तस्यानन्तं फलं भवेत् ॥
कृतनित्यक्रियः प्रातः कुशहस्तः कृतासनः ।देवद्विजगुरून्नत्वा ध्यात्वा विष्णुं सनातनम् ॥
द्वैपायनं नमस्कृत्य शुकदेवञ्च भक्तितः ।हिरण्याक्षवधं यावत् प्रथमेऽहनि कीर्त्तयेत् ॥
चरितं भरतस्यापि द्वितीयेऽथ तृतीयके ।मथनञ्चामृतस्यापि यत्र कूर्म्मः स्वयं हरिः ॥
चतुर्थदिवसे चैव दशमे हरिजन्म च ।पश्चमे तु पठेद्विद्वान् रुक्मिण्या हरणावधि ॥
षष्ठे चोद्धवसंवादं सप्तमे तु समापयेत् ।अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन ॥
कृते विरामे मध्ये तु अध्यायादिं पठेत् पुनः ।पठेदर्थं बुध्यमानः श्रावयेद्वैष्णवोत्तमे ! ॥
श्रोता तु प्राङ्मुखो भूत्वा शृणुयाद्भक्तितत्परः ।अध्याये स्वर्णमाषैकं तथा दद्याच्च दक्षिणाम् ॥
समाप्तौ च ततो धेनुं स्वर्णशृङ्गीं निवेदयेत् ।कुर्य्याच्च वैष्णवं होमं सात्वतान् भोजयेत्ततः ॥
एवं यः कुरुते देवि ! पाठं भागवतस्य तु ।श्रवणं श्रावणां वापि स इष्टां गतिमाप्नुयात् ।एतत् पारायणं नाम सर्व्वकामफलप्रदम् ॥
पाठकाले तु त्रिदशा मुनयश्च तपोधनाः ।पार्श्वदाश्च तथा विष्णोः सान्निर्ध्यं तत्र कुर्व्वते ॥
एतत्ते कथितं देवि ! पारायणविधानकम् ।विष्णुप्रीतिकरं पुण्यं किम्भूयः श्रोतुमिच्छसि ॥
”इति पाद्मे पातालखण्डे पारायणमाहात्म्ये ७१अध्याय ॥
* ॥
अपिच ।कुमारा ऊचुः ।“अथ ते संप्रवक्ष्यामः सप्ताहग्रहणे विधिम् ।सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥
दैवज्ञन्तु समाहूय मुहूर्त्तं पृच्छ यत्नतः ।विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥
नभस्य आश्विनोर्ज्जौ च मार्गशीर्षः शुचिर्नभाः ।एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः ॥
मासानां निर्णये यानि तानि त्याज्यानि सर्व्वथा ।सहायाश्च त एवात्र कर्त्तव्याः सोद्यमाश्च ये ॥
देशे देशे तथा चेयं वार्त्ता प्रेष्या प्रयत्नतः ।भविष्यति कथा चात्र आगन्तव्यं कुटम्बिभिः ॥
दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्त्तनाः ।स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥
देशे देशे विरक्ता ये वैष्णवाः कीर्त्तनोत्सुकाः ।तेष्वेव पत्रं प्रेष्यञ्च तल्लेखनमितीरितम् ॥
सतां समाजो भविता सप्तरात्रं सुदुर्लभः ।अपूर्व्वरसरूपैव कथा चात्र भविष्यति ॥
श्रीभागवतपीयूषकथासु रसलम्पटाः ।भवन्तश्च तदा शीघ्रमायान्तु प्रेमतत्पराः ॥
नावकाशः कदाचिद्वा दिनमात्रं तथापि वा ।सर्व्वथा गमनं कार्य्यं क्षणोऽत्रैव सुदुर्लभः ॥
एवमाकारणं तेषां कर्त्तव्यं विनयेन च ।आगन्तुकानां सर्व्वेषां वासस्थानानि कल्पयेत् ॥
तीर्थे चैव वने चापि गृहे वा श्रवणं स्मृतम् ।विशाला वसुधा यत्र कर्त्तव्यं तत्कथास्थलम् ॥
शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ।गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ॥
अर्व्वाक् पञ्चाहतो यत्नादास्तीर्णानि प्रलेपयेत् ।कर्त्तव्यं मण्डपं प्रोच्चैः कदलीषण्डमण्डितम् ॥
फलपुष्पदलैर्षिश्वक् विताने च विराजितम् ।चतुर्द्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥
ऊर्द्ध्वं सप्तैव लोकाश्च कल्पनीयाः सुविस्तरम् ।तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबुध्य च ॥
पूर्व्वं तेषामासनानि कर्त्तव्याणि यथोत्तरम् ।वक्तुश्चापि तथा दिव्यमासनं परिकल्पयेत् ॥
उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा ।प्राङ्मुखोऽथ भवेद्वक्ता श्रोता चोदङ्मुखस्तदा ॥
अथवा पूर्व्वदिक् ज्ञेया पूज्यपूजकमध्यतः ।श्रोतॄणामागमः प्रोक्तो देशकालादिकोविदैः ॥
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिमान् ।दृष्टान्तकुशलो धीरो वक्ता कार्य्येऽतिनिस्पृहः ॥
अनेककर्म्मविभ्रान्ताः स्त्रैणाः पाषण्डवादिनः ।शुकशास्त्रकथोच्चारे त्याज्यास्ते येऽप्यपण्डिताः ।वक्तुः पार्श्वे समर्थार्थमन्यः स्थाप्यस्तथाविधः ॥
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥
वक्त्रा क्षौरं प्रकर्त्तव्यं दिनादर्व्वाक् व्रताप्तये ।अरुणोदयेऽसौ निर्व्वत्य शौचं स्नानं समाचरेत् ॥
मण्डलञ्च प्रकर्त्तव्यं तत्र स्थाप्यो हरिस्तथा ।कृष्णमुद्दिश्य मन्त्रेण चरेत् पूजाविधिं क्रमात् ।प्रदक्षिणनमस्कारान् पूजान्ते स्तुतिमाचरेत् ॥
संसारसागरे मग्नं दीनं मां करुणानिधे ! ।कर्म्मग्राहगृहीताङ्गं मामुद्धर भवार्णवात् ॥
श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः ।कर्त्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।स्तुतिः प्रसन्नचित्तेन कर्त्तव्या केवलं तदा ॥
श्रीमद्भागवताख्यस्त्वं प्रत्यक्षः कृष्ण एव हि ।स्वीकृतोऽसि मया नाथ ! मुक्त्यर्थं भवसागरे ॥
मनोरथो मदीयोऽयं सफलः सर्व्वथा त्वया ।निर्विघ्नेनैव कर्त्तव्यो दासोऽहं तव केशव ! ॥
एवं दीनं वचः प्रोक्त्वा वक्तारञ्चाथ पूजयेत् ।संभूष्य वस्त्रभूषाभिः पूजान्ते तञ्च संस्तवेत् ॥
शुकरूपप्रबोधज्ञः सर्व्वशास्त्रविशारदः ।एततकथाप्रकाशेन मदज्ञानं विनाशय ॥
तदग्रे नियमः पश्चात् कर्त्तव्यः श्रेयसे मुदा ।सप्तरात्रं यथाशक्त्या धारणीयः स एव हि ॥
वरणं पञ्चविप्राणां कथाभागनिवृत्तये ।कर्त्तव्यं तैर्हरेर्जप्यं द्वादशाक्षरविद्यया ॥
ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्त्तन-कारिणः ।नत्वा संपूज्य दत्त्वार्घ्यं स्वयमासनमाविशेत् ॥
लोकचित्नाधनागारपुत्त्रचिन्ताच्युतश्च यः ।कथाचिन्ताशुद्धमतिः स लभेत् फलमुत्तमम् ॥
आसूर्य्योदयमारभ्य सार्द्धं त्रिप्रहरान्तकम् ।वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता ॥
कथाविरामः कर्त्तव्यो मध्याह्ने घटिकाद्बयम् ।तत्कथामनुकार्य्यं वै कीर्त्तनं वैष्णवैस्तदा ॥
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।हविष्यान्नेन कर्त्तव्यो ह्येकवारं कथार्थिना ॥
उपोष्य सप्तरात्रं वा शक्तिश्चेत् शृणुयात्तदा ।घृतपानं पयःपानं कृत्वा वा शृणुयात् सुखम् ॥
फलाहारेण वा श्राव्यमेकभक्तेन वा पुनः ।सुखसाध्यं भवेद्यत्तु कर्त्तव्यं श्रवणाय तत् ॥
भोजनन्तु वरं मन्ये कथाश्रवणकारकम् ।नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥
सप्ताहव्रतिनां पुंसां नियमान् शृणु नारद ! ।विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ॥
ब्रह्मचर्य्यमधःसुप्तिः पत्रावल्याञ्च भोजनम् ।कथासमाप्तौ भक्तिञ्च कुर्य्यान्नित्यं कथाव्रती ॥
द्बिदलं मधु तैलञ्च गरिष्ठान्नन्तथैव च ।भावदुष्टं पर्य्युषितं जह्यान्नित्यं कथाव्रती ॥
वृन्ताकञ्च कलिङ्गञ्च दग्धमन्नं मसूरिकाम् ।निष्पावमामिषाद्यञ्च वर्ज्जयेत्तु कथाव्रती ॥
पलाण्डुं लशुनं हिङ्गुं मूलकं गृञ्जनन्तथा ।लालिकामूलकुष्माण्डं नैवाद्याच्च कथाव्रती ॥
देववैष्णवविप्राणां गुरुमोवतिनान्तथा ।स्त्रीराजमहतां निन्दां वज्जयेच्च कथाव्रती ॥
कामं क्रोधं मदं दानं मत्सरं लोभमेव च ।दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ॥
रजस्वलान्त्यजम्लेच्छपतितव्रातकैस्तथा ।द्बिजद्बिड्वेदवाह्यैश्च न वदेद्य कथाव्रती ॥
सत्यं शौचं दयां मौनं मार्ज्जनं विनयन्तथा ।उदारं मानसं तद्वत् कुर्य्यादेवं कथाव्रती ॥
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्म्मवान् ।अनपत्यो मोक्षकामः शृणुयात् स कथामिमाम् ॥
अपुष्पा काकबन्ध्या च बन्ध्या या च मृतार्भका ।स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः ॥
एतेन विधिना दत्तं तदक्षयतरं भवेत् ।अत्युत्तमादिना सप्तकोटियज्ञफलप्रदा ॥
एवं कृत्वा व्रतविधिमुद्यापनमथाचरेत् ।तज्जन्माष्टमीव्रतवत् कर्त्तव्यं फलकाङ्क्षिभिः ॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥
एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।पुस्तकस्य च वक्तुश्च पूजा कार्य्यातिभक्तितः ॥
प्रसादस्तुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।मृदङ्गतालललितं कीर्त्तनं कीर्त्त्यतां ततः ॥
जयशब्दो नमःशब्दः शङ्खशब्दश्च गीयताम् ।विप्रेभ्यो याचकेभ्यश्च वित्तमन्नञ्च दीयताम् ॥
विरक्तश्चेद्भवेत् श्रोता गीता वाच्या परेऽहनि ।मृहस्थश्चेत्तदा होमः कर्त्तव्यः कर्म्मशान्तये ॥
प्रतिश्लोकञ्च जुहुयाद्बिधिना दशमस्य च ।पायसं दधि सर्पिश्च तिलादिमधुसंयुतम् ॥
अथवा हवनं कुर्य्याद्गायत्त्र्या सुसमाहितः ।तन्मयत्वात् पुराणस्य परमस्यास्य तत्त्वतः ॥
होमाशक्तौ बुधो हौम्यं दद्यात्तत्फलसिद्धये ।नानाच्छिद्रनिरोधार्थं न्यूनताधिक्यताख्ययोः ॥
दोषयोः प्रशमार्थन्तु पठेन्नामसहस्रकम् ।तेन स्यात् सफलं सर्व्वं नास्त्यस्मादधिकं यतः ॥
द्बादश ब्राह्मणान् पश्चाद्भोजयेन्मधुपायसैः ।दद्यात् सुवर्णं धेनुञ्च व्रतपूर्णत्वसिद्धये ॥
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।तत्रास्य पुस्तकं स्थाप्य लिखितं ललिताक्षरम् ॥
संपूज्यावाहनाद्यैस्तदुपचारैः सदक्षिणम् ।वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने ॥
आचार्य्याय सुधीर्द्दत्त्वा मुक्तः स्याद्भवबन्धनैः ।एवं कृते विधाने च सर्व्वपापनिवारणे ।फलदं स्यात् पुराणन्तु श्रीमद्भागवतं शुभम् ॥
धर्म्मार्थकाममोक्षाणां साधनं नात्रसंशयः ।इति ते कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥
श्रीमद्भागवतेनैव भक्तिभुक्तिः प्रकाशिता ॥
”इति पाद्मोत्तरखण्डे श्रीभागवतमाहात्म्ये६ अध्यायः ॥
वाचस्पत्यम्
Sanskritपारायण पारं समाप्तिमयतेऽनेन अय--ल्युट् । १ सा-कल्ये अमरः २ ग्रन्थादीनामाद्यन्तपाठे च । तत्र वेदपारा-यणं चतुष्प्रकारम् ऋग्वेदशब्दे १४१२ पृ० दृश्यम् । पुरा-णसम्पूर्णग्रन्थापाठेऽपि पारायणव्यवहारः । तत्र भाय-वतपारायणे कश्चिद्विशेषः पद्म० पाता० ७१ अ० उक्तो यथा“कृत्यनित्यक्रियः प्रातः कुशहस्तः कृतासनः । देवद्विज-गुरून्नत्वा ध्यात्वा विष्णुं सनातनम् । द्वैपायनं नमस्कृत्यशुकदेवञ्च भक्तितः । हिरण्याक्षबधं यावत् प्रथमेऽहनिकीर्त्तयेत् । चरितं भरतस्यापि द्वितीयेऽथ तृतीयके ।मथनञ्चामृतस्यापि, यत्र कूर्मः स्वयं हरिः । चतुर्थदिवसे, चैव दशमे हरिजन्म च । पञ्चमे तु पठे द्विद्वान् रुक्मिण्याहरणावधि । षष्ठे चोद्धवसंवादं सप्तमे तु समापयेत् ।अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन । कुते बिरामेमध्ये तु अध्यायादिं पठेत् पुनः । पठेदर्थं बुध्यमानःश्रावयेद्वैष्णवोत्तमैः । श्रोता तु प्राङुमुखो भूत्वा शृणु-पाद्भक्तितत्परः । अध्याये स्वर्णमाषैकं तथा दद्याच्चदक्षिणाम् । समाप्तौ च ततो धेनुं स्वर्णशृङ्गीं निवे-दयेत् । कुर्य्याच्च वैष्णवं होमं सात्वतान् भोजयेत्ततः ।एवं यः कुरुते देवि! पाठं भागवतस्य तु । श्रवणंश्रावणं वापि स इष्टां गतिमाप्नुयात् । एतत् पारायणंनाम सर्वकामफलप्रदम्” तत्र मासभेदाः पाद्मोत्तरख०६ अ० उक्ता यथा “अथ ते संप्रवक्ष्यामि सप्ताहश्रवणेविधिम् । सहायैर्बन्धुभिश्चैव प्रायः साध्यो विधिः स्मृतः ।दैवज्ञन्तु समाहूय मुहूर्त्तं पृच्छ्य यत्नतः । विवाहे यादृशंवित्तं तादृशं परिकल्पयेत् । नभस्य आश्विनोर्जौ चमार्गशीर्षः शुचिर्नभाः । एते मासाः कथारम्भे श्रोतॄणांमोक्षसूचकाः” । “कृच्छ्रो देव्ययुतञ्चैव प्राणायाम-शतद्वयम् । तिलहोमसहस्रन्तु वेदपारायणं भवेत्”इति मिता० धृतषट्त्रिंशन्मतम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
