| YouTube Channel

पारलौलिकः (pAralaulikaH)

 
शब्दकल्पद्रुमः
Sanskrit
पारलौलिकः, त्रि, (परलोके भवः परलोकायहित इति वा परलोक + ठञ् “अनु-शतीकादीनाञ्च ।” २० इति ञित्त्वादुभय-पदस्यैव वृद्धिः ।) परलोकसम्बन्धी यथा, --“दानपात्रमधमर्णमिहैक-ग्राहि कोटिगुणितं दिवि दायि ।साधुरेति सुकृतैर्यदि कर्त्तुंपारलौकिककुसीदमसीदत्
”इति नैषधे ९२
(तथा महाभारते १३ १११ १६ ।“तस्मान्न्यायागतैरर्थैर्धर्म्मं सेवेत पण्डितः ।धर्म्म एको मनुष्याणां सहायः पारलौकिकः
”)