| YouTube Channel

पारम्पर्य्यं (pAramparyyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पारम्पर्य्यं,
क्ली,
(परम्पराया आगतम् ततआगत इत्यण् चतुर्वर्णादित्वात् ष्यञ् पर-म्परा + स्वार्थे ष्यञ् वा ।) आम्नायः कुल-क्रमः इति हेमचन्द्रः
तथा ।“यस्मिन् देशे आचारः पारम्पर्य्यक्रमागतः ।तत्र तं नावमन्येत धर्म्मस्तत्रैव तादृशः
”इति विवादभङ्गार्णवः
परम्पराया भावश्च
(यथा, महाभारते ।६ ११७ २७ ।“निवृत्तेषु सैन्येषु पारम्पर्य्येण सर्व्वशः ।विमुक्तकवचाः सर्व्वे भीष्ममीयुर्नराधिपाः
”)