| YouTube Channel

पारमार्थिकः (pAramArthikaH)

 
शब्दकल्पद्रुमः
Sanskrit
पारमार्थिकः, त्रि, (परमार्थाय परमपुरुषार्थायहित इति ठक् ।) परमार्थयुक्तः यथा, --“गतानुगतिको लोको लोकः पारमार्थिकः
”इति पुराणम्
मुख्यम् यथा, --“त्रिचतुःपञ्चसप्ताष्टनवद्वादश एव ।क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम्
”इति तिथ्यादितत्त्वम्
(यथाथः यथा, मनौ ६२ श्लोकटीकायांकुल्लूकभट्टः “तेषां प्रकाशाप्रकाशतस्कराणांस्वकर्म्मणि चौर्य्यादौ ये पारमार्थिका दोषाइति ।” परस्परविभक्तः यथा, भागवते ।३ २९ ।“लक्षणं महदादीनां प्रकृतेः पुरुषस्य ।स्वरूपं लक्ष्यतेऽमीषां येन तत् पारमार्थिकम्
”“पारमार्थिकं परस्परविभक्तमित्यर्थः ।” इतितट्टीकायां श्रीधरस्वामी
)