| YouTube Channel

पारमहंस्यं (pAramahaMsyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पारमहंस्यं, त्रि, (परमहंसैर्गन्तव्यं परमहंसस्यभावः परमहंसेन ज्ञेयं यत् प्राप्यमिति वा ।परमहंस + ष्यञ् ।) परमहंससम्बन्धि यथा, “श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियंयस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्म्यमाविष्कृतंतच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमु-च्येन्नरः
”इति श्रीमद्भागवते १२ १३ १८
“पारमहंस्यं परमहंस्यैः प्राप्यम् ।” इति तट्टी-कायां श्रीधरस्वामी
(परब्रह्मधाम यथा, भागवते १८ २२ ।“यत्रानुरक्ताः सहसैव धीराव्यपोह्य देहादिषु सङ्गमूढम् ।व्रजन्ति तत्पारमहंस्यमन्त्यंयस्मिन्नहिंसोपशमः स्वधर्म्मः
”प्रत्यङ्निष्ठारूपम् यथा, तत्रैव १२ ।“पुंसां पुनः पारमहंस्य आश्रमे
व्यवस्थितानामनुमृग्यदाशुषे
”ज्ञानस्वरूपम् यथा तत्रैव २१ ४१ ।“न वै तथा चेतनया बहिष्कृतेहुताशने पारमहंस्यपर्य्यगुः
”)