पारणा (pAraNA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaपारणा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭೋಜನ /ಊಟ
निष्पत्तिः - > स्त्रियां "युच्" (३-३-१०७)
प्रयोगाः - > "बभूव तस्याः किल पारणावधिः न वृक्षवृत्तिव्यतिरिक्तसाधनः"
उल्लेखाः - > कुमा० ५-२२
L R Vaidya
EnglishWordnet
Sanskrit पारणम्, पारणा
उपवासाव्रतानन्तरदिवसकर्तव्यं प्राथमिकभोजनम्।
"पारणं पावनं पुंसां सर्वपापप्रणाशनम् । उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम्।।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritपारणा, (पार + युच् + टाप् ।) उपवासव्रता-नन्तरदिवसकर्त्तव्यप्राथमिकभोजनम् । यथा, --“पारणं पावनं पुंसां सर्व्वपापप्रणाशनम् ।उपवासाङ्गभूतञ्च फलदं शुद्धिकारणम् ॥
सर्व्वेष्वेवोपवासेषु दिवापारणमिष्यते ।अन्यथा फलहानिः स्यादृते धारणपारणम् ॥
न रात्रौ पारणं कुर्य्यादृते वै रोहिणीव्रतात् ।निशायां पारणं कुर्य्याद्वर्ज्जयित्वा महानिशाम् ॥
पूर्व्वाह्ने पारणं शस्तं कृत्वा विप्र ! सुरार्च्चनम् ।सर्व्वेषां सम्मतं कुर्य्यादृते वै रोहिणीव्रतम् ॥
”इति ब्रह्मवैवत्त श्रीकृष्णजन्मखण्डे ८ अध्यायः ॥
अथ श्रीकृष्णजन्माष्टमीव्रतपारणकालः ।“अष्टम्यामथ रोहिण्यां न कुर्य्यात्पारणं क्वचित् ।हन्यात् पुराकृतं कर्म्म उपवासार्जितं फलम् ॥
तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् ।तस्मात् प्रयत्नतः कुर्य्यात्तिथिभान्ते च पारणम् ॥
”अत्रोभयवियोगे पारणमुक्तम् । “यदा सार्द्ध-प्रहरनिशाभ्यन्तरे एकस्यैव वियोगस्तदैकतर-वियोगेऽपि पारणम् ॥
तथा च नारदीये ।“तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् ।पारणन्तु न कर्त्तव्यं यावन्नैकस्य संक्षयः ॥
सांयोगिके व्रते प्राप्ते यद्यप्येको वियुज्यते ।तत्रैव पारणं कुर्य्यादेवं वेदविदो विदुः ॥
यद्यैकस्यापि सार्द्धप्रहरनिशाभ्यन्तरे न वियोग-स्तदा तयोरवियोगेऽपि प्रातरुत्सवान्ते पार-णम् । तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्व्वीतपारणम् । इत्युक्तत्वात् ॥
* ॥
महाष्टम्युपवास-पारणं मत्स्यमांसोपहारेण कर्त्तव्यम् । यथा, --“अष्टम्यां समुपोष्यैव नवम्यामपरेऽहनि ।मत्स्यमांसोपहारेण दद्यान्नैवेद्यमुत्तमम् ॥
तेनैव विधिनान्नन्तु स्वयं भुञ्जीत नान्यथा ॥
”स्त्रियास्तु पशुमांसभक्षणनिन्दया न तेन पारणंकिन्तु मत्स्येन । अष्टम्युपवासपारणे रविवारादौमांसनिषेधः । एवं मांसाशनत्यागकृतनियमेननियोगादिष्वपि मांसं वर्ज्जनीयम् ॥
* ॥
अथ श्रीरामनवमीव्रतपारणकालः ।“नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः ।उपोषणं नवम्यां वै दशम्यामेव पारणम् ॥
”अथैकादशीव्रतपारणकालः ।“मन्त्रं जपित्वा हरये निवेद्योपोषणं व्रती ।द्वादश्यां पारणं कुर्य्याद्वर्ज्जयित्वा ह्युपोदकीम् ॥
”द्वादशीलङ्घने दोषमाह नारदीयम् ।“महाहानिकरी ह्येषा द्वादशी लङ्घितानृणाम् ॥
विष्णुधर्म्मोत्तरे ।“द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः ।तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥
”अथ श्रवणद्वादश्युपवासपारणकालः ।“तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् ।तावदेव न भोक्तव्यं यावन्नैकस्य संक्षयः ॥
विशेषेण महीपाल श्रवणं वर्द्धते यदि ।तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत् ॥
”तिथिक्षयेण एकादशीक्षयेण भोक्तव्यं द्वादश्यांपारयेदित्यर्थः ॥
* ॥
अथ शिवरात्र्युपवास-पारणकालः ।“जयन्ती शिवरात्रिश्च कार्य्ये भद्रजयान्विते ।कृतोपवासं तिथ्यन्ते तदा कुर्य्याच्च पारणम् ॥
”तिथ्यन्ते पारणन्तु जयन्तीमात्रपरम् । अत्रचतुर्द्दश्यामेव तत् ।“ब्रह्माण्डोदरमध्ये तु यानि तीर्थानि सन्ति वै ।पूजितानि भवन्तीह भूताहे पारणे कृते ॥
” * ॥
पारणदिने वर्ज्यानि यथा, ब्रह्माण्डपुराणम् ।“कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् ।व्यायामञ्च व्यवायञ्च दिवास्वप्नं तथाञ्जनम् ॥
शिलापिष्टं मसूरांश्च द्वादशैतानि वैष्णवः ।द्वादश्यां वर्ज्जयेन्नित्यं सर्व्वपापैः प्रमुच्यते ॥
”सूरिसन्तोषे ।“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् ।शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥
”अत्रोपवसन्निति तद्दिने भोजनासम्भवात्सामीप्यात् पूर्व्वापरयोर्ग्रहणम् । इति तिथ्यादि-तत्त्वम् ॥
कृदन्तरूपमाला
Sanskrit1 {@“पृ पालनपूरणयोः”@} 2 3 “ह्रस्वान्तोऽयं धातुरिति-वर्धमान-काश्यप-आभरण-पुरुषकाराः।
4 स्वामी तु दीर्घान्तं पठित्वा, ‘ह्रस्वान्तोऽयम्’ इति नन्दी।’ इति।
आत्रेय- मैत्रेयौ तु ह्रस्वान्तं पठित्वा, ‘दीर्घान्तमेके’ इति।
…वृत्तिकारस्य तु दीर्घान्त एवेष्टः।
यदाह-- ‘शॄदॄप्रां ह्रस्वो वा’ 5 इत्यत्र “केचित् एतत् सूत्रं प्रत्याचक्षते।
‘श्रा पाके, द्रा कुत्सायां गतौ, प्रा पूरणे’ इत्येषाम्, ‘बह्वर्था अपि धातवः’ 6 इति श्रॄदॄप्राम् अर्थे वर्तमानानां ‘विशश्रतुः’ इत्यादीनि रूपाणि साधयन्ति।
तथा सति, ‘विशुश्रुवान्’ इति क्वसौ एतद्रूपं न स्यात्।” इति।
यदि ह्रस्वान्तः स्यात् प्रातिना प्रत्याख्यानम्, ‘पिपृवान्’ इति प्रयोजनकथनं चानुपपन्नं स्यात्।
तथा वृत्ति-न्यास पदमञ्जरी- प्रदीपकारादयोऽपि।
किञ्च, अपाणिनीयश्च ह्रस्वान्तः।
यदि हि स्यात्
किं ह्रस्वविकल्पेन? यत् क्रैयादिकाद् दीर्घान्तरूपाणि, अस्माच्च ह्रस्वान्तरूपाणि भविष्यन्ति।
एवञ्च, “तं पिपृतं रोदसी--” 7 ‘पाहि माऽग्ने पिपृहि--’ 8 इत्यादयश्छान्दसा द्रष्टव्याः।।” इति मा।
धा।
वृत्तौ सुदूरं विचार्य ह्रस्वान्तपाठाभावः समर्थितः।
तथापि, सिद्धान्त- कौमुद्यादिषु, पूर्वेषां ग्रन्थेषु ह्रस्वान्तस्याप्युपलम्भात्तेषां मतानुरोधेनात्र ह्रस्वान्तस्य रूपाणि प्रदर्शितानि।]] 9 ‘पृणाति पूरणे, श्लौ तु पिपर्ति, णिचि पारयेत्।।’ 10 इति देवः।
पारकः-रिका, पारकः-रिका, 11 पुपूर्षकः-र्षिका, 12 पेप्रीयकः-यिका
पर्ता-पर्त्री, पारयिता-त्री, पुपूर्षिता-त्री, पेप्रीयिता-त्री
13 पिप्रत्-पिप्रतौ-पिप्रतः, पिप्रती, पारयन्-न्ती, पुपूर्षन्-न्ती
-- 14 परिष्यन्-न्ती-ती, पारयिष्यन्-न्ती-ती, पुपूर्षिष्यन्-न्ती-ती
-- व्यतिपिप्राणः, पारयमाणः, व्यतिपुपूर्षमाणः, पेप्रीयमाणः
व्यतिपरिष्यमाणः, पारयिष्यमाणः, व्यतिपुपूर्षिष्यमाणः, पेप्रीयिष्यमाणः
व्यापृत्-व्यापृतौ-व्यापृतः
-- -- -- व्यापृतम्-तः-तवान्, पारितः, पुपूर्षितः, पेप्रीयितः-तवान्
परः, व्यापारी, पारः, पुपूर्षुः, 15 पिपारयिषुः, पेप्रियः
16 पर्तव्यम्, पारयितव्यम्, पुपूर्षितव्यम्, पेप्रीयितव्यम्
परणीयम्, पारणीयम्, पुपूर्षणीयम्, पेप्रीयणीयम्
17 पार्यम्, पार्यम्, पुपूर्ष्यम्, पेप्रीय्यम्
ईषत्परः-दुष्परः-सुपरः
-- -- -- 18 व्याप्रियमाणः, पार्यमाणः, पुपूर्ष्यमाणः, पेप्रीय्यमाणः
व्यापारः, पारः, पुपूर्षः, पेप्रीयः
पर्तुम्, पारयितुम्, पुपूर्षितुम्, पेप्रीयितुम्
व्यापृतिः, पारणा, पुपूर्षा-पिपारयिषा, पेप्रीया
परणम्, पारणम्, पुपूंर्षणम्, पेप्रीयणम्
पृत्वा, पारयित्वा, पुपूर्षित्वा, पेप्रीयित्वा
व्यापृत्य, व्यापार्य, व्यापुपूर्ष्य, प्रपेप्रीय्य
पारम् २, पृत्वा २, पारम् २, पारयित्वा २, पुपूर्षम् २, पुपूर्षित्वा २, पेप्रीयम् २
पेप्रीयित्वा २।
01 (१०४४)
02 (३-जुहोत्यादिः-१०८६। सक। अनि। पर।)
03 [[[अ]
04 [क्षीर]
05 (७-४-१२)
06 (भाष्यम् १-३-१)
07 (तै। ब्रा। २। ८। ४। ८।)
08 (तै। सं। १। ३। ३। १।)
09 [पृष्ठम्०८८५+ १८]
10 (श्लो। ३६)
11 [[१। सन्नन्ते सर्वत्र, ‘अज्झनगमां सनि, (६-४-१६) इति दीर्घे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे ‘उद् ओष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्त्वे रपरत्वे ‘हलि च’ (८-२-७७) इति दीर्घः। ‘इट् सनि वा’ (७-२-४१) इत्यत्रोपदेशाधिकारादत्र सनि इड्विधिर्न।]]
12 [[२। यङन्ते सर्वत्र ‘रीङ् ऋतः’ (७-४-२७) इति रीङागमः। अभ्यासे गुणः।]]
13 [[३। शतरि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लुः विकरणप्रत्ययः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘अर्तिपिपर्त्योश्च’ (७-४-७७) इति अभ्यासस्ये- त्वम्। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः।]]
14 [[४। ‘ऋद्धनोः स्ये’ (७-२-७०) इति स्यप्रत्ययस्येडागमः।]]
15 [[५। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्येकारः।]]
16 [पृष्ठम्०८८६+ २५]
17 [[१। ‘ऋहलोः--’ (३-१-१२४) इति भावकर्मणोर्ण्यत्प्रत्ययः।]]
18 [[२। यकि, ‘रिङ् शयग्लिङ्क्षु’ (७-४-२८) इति रिङादेशः।]]
1 {@“पॄ पालनपूरणयोः”@} 2 ‘पृणाति पूरणे, श्लौ तु पिपर्ति, णिचि पारयेत्।।’ 3 इति देवः।
4 5 पारकः-रिका, पारकः-रिका, 6 पुपूर्षकः-पिपरिषकः-पिपरीषकः-षिका, 7 पोपुरकः-रिका
परिता-परीता-त्री, पारयिता-त्री, पुपूर्षिता-पिपरिषिता-पिपरीषिता-त्री, पोपुरिता-त्री
8 पिपुरत्-पिपुरतौ-पिपुरतः, पारयन्-न्ती, पुपूर्षन्-पिपरिषन्-पिपरीषन्-न्ती
-- परिष्यन्-परीष्यन्-न्ती-ती, पारयिष्यन्-न्ती-ती, पुपूर्षिष्यन्-पिपरिषिष्यन्- पिपरीषिष्यन्-न्ती-ती
-- -- पारयमाणः, -- पोपूर्यमाणः
-- पारयिष्यमाणः, -- पोपुरिष्यमाणः
पूः-पुरौ-पुरः
-- -- -- 9 पूर्तम्-पूर्तवान्, पारितः, पुपूर्षितः-पिपरिषितः-पिपरीषितः, पोपुरितः-तवान्
परः- 10 पूः 11 12 पारयः, 13 पारयिष्णुः, पुपूर्षुः-पिपरिषुः-पिपरीषुः, पोपुरः
14 परितव्यम्-परीतव्यम्, पारयितव्यम्, पुपूर्षितव्यम्-पिपरिषितव्यम्-पिपरीषितव्यम्, पोपुरितव्यम्
परणीयम्, पारणीयम्, पुपूर्षणीयम्, पिपरिषणीयम्-पिपरीषणीयम्, पोपुरणीयम्
पार्यम्, पार्यम्, पुपूर्ष्यम्-पिपरिष्यम्-पिपरीष्यम्, पोपूर्यम्
ईषत्परः-दुष्परः-सुपरः
-- -- 15 पूर्यमाणः, पार्यमाणः, पुपूर्ष्यमाणः-पिपरिष्यमाणः-पिपरीष्यमाणः, पोपूर्यमाणः
परः, पारः, पुपूर्षः-पिपरिषः-पिपरीषः, पोपुरः
परितुम्-परीतुम्, पारयितुम्, पुपूर्षितुम्-पिपरिषितुम्-पिपरीषितुम्, पोपुरितुम्
पूर्तिः- 16 पूर्णिः, पारणा, पुपूर्षा-पिपरिषा-पिपरीषा, पोपुरा
परणम्, पारणम्, पुपूर्षणम्-पिपरिषणम्-पिपरीषणम्, पोपुरणम्
पूर्त्वा, पारयित्वा, पुपूर्षित्वा-पिपरिषित्वा-पिपरीषित्वा, पोपुरित्वा
प्रपूर्य, प्रपार्य, प्रपुपूर्ष्य-प्रपिपरिष्य प्रपिपरीष्य, प्रपोपूर्य
पारम् २, पूर्त्वा २, पारम् २, पारयित्वा २, पुपूर्षम् २ -पिपरिषम् २ -पिपरीषम् २, पुपूर्षित्वा २ -पिपरिषित्वा २ -पिपरीषित्वा २, पोपुरम् २
पोपुरित्वा २
17 पुरुः, 18 पर्व, 19 पुरीषम्, 20 पुरुषः, 21 परुषः, 22 परुः।
23
01 (१०५५)
02 (३-जुहोत्यादिः-१०८६। सक। सेट्। पर।)
03 (श्लो। ३६)
04 [पृष्ठम्०८९१+ २८]
05 [[१। ‘इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन’ (वा। ७-१-१०२) इति वचनेन वृद्धिरत्र ज्ञेया। एवं तव्यदादिषु गुणोऽपि ज्ञेयः।]]
06 [[२। सन्नन्ते सर्वत्र, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘श्र्युकः क्किति’ (७-२-११) इति प्राप्तमिण्निषेधं बाधित्वा, ‘इट् सनि वा’ (७-२-४१) इतीड्विकल्पः। इट्पक्षे ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्त्वे रपरत्वे, ‘हलि च’ (८-२-७७) इति दीर्घे च रूपमेवम्। इडभावपक्षे ‘वॄतो वा’ (७-२-३८) इति इटो दीर्घविकल्पे रूपद्वयम्। तत्र सनः कित्त्वाभावाद् गुणः, अभ्यासे इकारश्चेति ज्ञेयम्। आहत्य रूपत्रयमिति बोध्यम्।]]
07 [[३। यङन्ते सर्वत्र, उत्वरपरत्वाल्लोपयलोपेषु अभ्यासे, ‘गुणो यङ्लुकोः’ (७-४-८२) इति गुणो ज्ञेयः।]]
08 [[४। शतरि, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति शपः श्लौ, ‘श्लौ’ (६-१-१०) इति द्विर्वचने, श्लोः शित्त्वेन सार्वधातुकत्वात् धातोरुत्वे रपरत्वे, ‘अर्ति- पिपर्त्योश्च’ (७-४-७७) इत्यभ्यासेकारः।]]
09 [[५। ‘श्र्युकः क्किति’ (७-२-११) इति इण्निषेधे, उत्वादिकम्।]]
10 [[६। तच्छीलादिषु कर्तृषु ‘भ्राजभासधुर्विद्युतोर्जिपॄ--’ (३-२-१७७) इति क्विपि उत्वादिषु प्रवृत्तेषु रेफस्य विसर्गे रूपम्।]]
11 [[आ। ‘रथस्य तस्यां पुरि दत्तचक्षुः विद्वान् विदामास शनैर्न यातम्।।’ शि। व। ३। ३२।]]
12 [[७। ण्यन्तादस्मात् ‘अनुपसर्गाल्लिम्पविन्दधारिपारि--’ (३-१-१३८) इति कर्तरि शप्रत्यये तस्य शित्त्वेन सार्वधातुकत्वात् शपि, पररूपे, अयादेशे च रूपम्।]]
13 [[८। ‘णेश्छन्दसि’ (३-२-१३७) इति इष्णुच्प्रत्यये, ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ (६-४-५५) इति णेरयादेशः।]]
14 [पृष्ठम्०८९२+ २४]
15 [[१। यकः कित्त्वेन उत्वरपरत्वादिकं ज्ञेयम्।]]
16 [[२। ‘ॠल्वादिभ्यः क्तिन् निष्ठावद् वाच्यः’ (वा। ८-२-४४) इति नकारे, णत्वम्। एतच्च पाक्षिकमिति केचित्।]]
17 [[३। ‘पॄभि--’ (द। उ। १-१०८) इति कुप्रत्ययः। पृणाति, पूर्यते वा इति पुरुः = विस्तीर्णः, लोकश्च।]]
18 [[४। ‘स्नामदिपद्यर्तिपॄ--’ (द। उ। ६-६८) इति वनिप्प्रत्ययः। पृणाति, पिपर्ति पूर्यते वा इति पर्व = अङ्गुल्यग्रम्, पुण्यतिथिश्च।]]
19 [[५। ‘शॄपॄभ्यां कित्’ (द। उ। ९-१०) इतीषन्प्रत्ययः, तस्य कित्त्वं च। पृणाति, पूर्यते वा तेनोदरमिति पुरीषम्।]]
20 [[६। ‘पुरः कुषन्’ (द। उ। ९-१४) इत्यनेन कुषन्प्रत्यये, उत्वादिकम्।]]
21 [[७। ‘पॄकलिभ्यामुषच्’ (द। उ। ९-१५) इत्युषच्प्रत्ययः। पृणाति, पिपर्ति इति वा परुषः = अमृदुः।]]
22 [[८। ‘अर्तिपॄवपि--’ (द। उ। ९-३९) इत्युसिप्रत्ययः। परुः = समुद्रः, राजा च।]]
23 [पृष्ठम्०८९३+ २९]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
