| YouTube Channel

पारक्यं (pArakyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पारक्यं,
क्ली,
(परस्मै लोकाय हितम् पर +ष्यञ् कुक् ।) परलोकहितकर्म्म यथा, --“पादेन तस्य पारक्यं कुर्य्यात् सञ्चयमात्मवान् ।अर्द्धेन चात्मभरणं नित्यनैमित्तिकन्तथा
पादस्यार्द्धार्द्धमर्थस्य मूलभूतं विवर्द्धयेत् ।एवमाचरतः पुंसो ह्यर्थः साफल्यमृच्छति
”इति मार्कण्डेयपुराणम्
(परस्य इदमिति परकीये, त्रि यथा, मनुः १० ९७ ।“वरं स्वधर्म्मो विगुणो पारक्यः स्वनुष्ठितः ।परधर्म्मेण जीवन् हि सद्यः पतति जातितः
”)