| YouTube Channel

पायन्-न्ती (pAyan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पै शोषणे”@} 2 ‘पाने पिबति, रक्षायां पाति, पायति शोषणे।।’ 3 इति देवः।
4 पायकः-यिका, 5 पायकः-यिका, पिपासकः-सिका, 6 पापायकः-यिका
पाता-पात्री, पाययिता-त्री, पिपासिता-त्री, पापायिता-त्री
7 पायन्-न्ती, पाययन्-न्ती, पिपासन्-न्ती
-- पास्यन्-न्ती-ती, पाययिष्यन्-न्ती-ती, पिपासिष्यन्-न्ती-ती
-- 8 व्यतिपायमानः, पाययमानः, व्यतिपिपासमानः, पापायमानः
व्यतिपास्यमानः, पाययिष्यमाणः, व्यतिपिपासिष्यमाणः, पापायिष्यमाणः, पाः-पौ-पः
-- -- -- 9 10 पातम्-तः, पायितः, पिपासितः, पापायितः-तवान्
11 पायः, 12 सुपः, पायः, पिपासुः, पापः
पातव्यम्, पाययितव्यम्, पिपासितव्यम्, पापायितव्यम्
पानीयम्, पायनीयम्, पिपासनीयम्, पापायनीयम्
पेयम्, पाय्यम्, पिपास्यम्, पापाय्यम्
13 ईषत्पानःदुष्पानः-सुपानः
-- -- पायमानः, पाय्यमानः, पिपास्यमानः, पापाय्यमानः
पायः, पायः, पिपासः, पापायः
पातुम्, पाययितुम्, पिपासितुम्, पापायितुम्
पातिः, 14 सुपा, पायना, पिपासा, पापाया
पानम्, पायनम्, पिपासनम्, पापायनम्
पात्वा, पाययित्वा, पिपासित्वा, पापायित्वा
प्रपाय, प्रपाय्य, प्रपिपास्य, प्रपापाय्य
पायम् २, पात्वा २, पायम् २, पाययित्वा २, पिपासम् २, पिपासित्वा २, पापायम्
पापायित्वा २।
प्रासङ्गिक्यः
01
=>
(१०६२)
02
=>
(१-भ्वादिः-९२०। अक। अनि। पर।)
03
=>
(श्लो। ५)
04
=>
[[१। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्प्रत्यये, णमुलि युगागमो ज्ञेयः।]]
05
=>
[[२। ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति ण्यन्ते सर्वत्र युगागमः। आदन्त- लक्षणपुगागमस्यापवादः। सूत्रेऽत्र लाक्षणिकस्यापि पाधातोरस्य ग्रहणम् इति व्याख्यातारः।]]
06
=>
[[३। ‘गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम्’ (वा। २-४-७७) इति वचनात् ईत्वबिधायके सूत्रे यङन्ते, नास्य ग्रहणमिति क्तप्रत्ययादिषु ईत्वमस्य धातोर्नेति ज्ञेयम्। तेनैवं रूपम्।]]
07
=>
[[४। ‘-- अशिति’ (६-१-४५) इत्युक्तत्वादात्त्वं न। तेन शतरि आयादेशे रूपमेवम्।]]
08
=>
[[५। कर्मव्यतीहारे शानच्। एवं सन्नन्तेऽपि प्रकृतेरात्मनेपदनिमित्तमेव शानज्निमित्तमिति ज्ञेयम्।]]
09
=>
[पृष्ठम्०८९६+ २५]
10
=>
[[आ। ‘अपातमाल्यं शयितं सुवानकाशत्विषि स्ताततनौ फणीन्द्रे।।’ धा। का। २-३२।]]
11
=>
[[१। आदन्तलक्षणे णप्रत्यये युगागमे रूपमेवम्।]]
12
=>
[[२। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
13
=>
[[३। ईषदाद्युपपदेषु, ‘आतो युच्’ (३-३-१२८) इति खलपवादो युच्। अनादेशः।]]
14
=>
[[४। स्त्रियां भावादौ, ‘आतश्चोपसर्गे’ (३-३-१०६) इत्यङ्।]]