| YouTube Channel

पाफलकः-लिका (pAphalakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“फल निष्पत्तौ”@} 2 ‘निष्पत्तिः = सिद्धिः।’ इति क्षीरस्वामी।
‘फलेर्विशरणे फुल्लं फलितं फलति त्रयम्।।
आदितो, ऽनादितस्त्वन्त्ये रूपे निष्पत्तिवाचिनः।’ 3 इति देवः।
फालकः-लिका, फालकः-लिका, पिफलिषकः-षिका, पाफलकः-लिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककलतिवत् 4 ज्ञेयानि।
फलितम्, 5 फलम्, 6 त्रिफला, 7 संफला-भस्त्रफला-अजिनफला-शणफला-पिण्डफला, 8 9 फालः, 10 दासीफली इति रूपाण्यस्य भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१०८९)
02
=>
(१-भ्वादिः-५३०। अक। सेट्। पर।)
03
=>
(श्लो। १५८-१५९)
04
=>
(१७४)
05
=>
[[४। फलतीति फलम्, कर्तरि पचादित्वादच्। लोकप्रयोगात् क्लीबत्वम्।]]
06
=>
[[५। अजादिषु (४-१-४) दर्शनात् स्त्रियां टाप् भवति। ङीषपवादः।]]
07
=>
[[६। ‘पाककर्णपर्णपुष्पफल--’ (४-१-६४) इति प्राप्तं ङीषे बाधित्वा, ‘संभस्त्राजिनशण- पिण्डेभ्यः फलात्’ (ग। सू। ४-१-४) इति टाप्। भस्त्रफला इत्यत्र ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (६-३-६३) इति ह्रस्वः।]]
08
=>
[पृष्ठम्०९१३+ २८]
09
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। फल्यते = निष्पाद्यतेऽनेन धान्यादिकमिति फालः = हलः।]]
10
=>
[[२। ‘पाककर्णपर्णपुष्पफलमूल--’ (४-१-६४) इति जातिवाचिनः फलोत्तरपदादस्मात् स्त्रियां ङीष्।]]