| YouTube Channel

पापी (pApI)

 
Wordnet
Sanskrit
Synonyms:
पापी, पातकी, पातकर्मी, म्लेच्छः, एनस्वी, पापकर्ता, पापाचारी, पापात्मा, पापिनी, पातकिनी, पातकर्मिणी, म्लेच्छा, एनस्विनी, पापकर्त्री, पापाचारिणी, पापात्मनी
noun
यः पापं करोति अथवा यः पापं कृतवान्।
"पापिनां जीवने अशांतिः वर्तते।"
Synonyms:
अपराद्धः, अपराद्धा, अपराधी, पातकी, पापी, अपराधी, दोषी, कृतागाः, अन्यायी, एनस्वी
noun
यः अपराधं करोति।
"द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला। "
शब्दकल्पद्रुमः
Sanskrit
पापी, [न्]
पुं,
(पापमस्त्यस्येति इनिः ।)पापयुक्तः यथा, --“रुधिरौघप्लुताः केचित् केचित् कर्द्दमभूषिताः ।केचित् केचित् कृशाङ्गाश्च पथि गच्छन्ति-पापिनः
क्रन्दन्तो व्यथया केचित् स्रवद्वास्पाकुलेक्षणाः ।शोचन्तः स्वानि कर्म्माणि केचिद्गच्छन्ति पापिनः
कस्यचिच्चर्म्मपाशस्य बन्धनं पापिनो गले ।कङ्काले कस्यचिद्बन्धः कस्यचिच्च भुजद्वये
कस्यचिन्नासिकारन्ध्रे निर्द्दयैर्यमकिङ्करैः ।अङ्कुशाग्रं विनिक्षिप्य क्रोधेनाकृष्यते द्बिज
घ्राणे सूचिसमुत्कीर्णे पाशं दत्त्वा दृढं रुषा ।आकृष्यते यमप्रेष्यैः केषाञ्चित् सञ्चितैनसाम्
शिक्यस्थान् गुरुपाषाणान् वहन्तः कर्णरन्ध्रकैः ।आयोभारांश्च शिश्नाग्रैर्व्रजन्ति पथि पापिनः
कांश्चिद्गृहीत्वा केशेषु कांश्चित् कर्णेषु पापिनः ।कांश्चिद्गुदेषु पादेषु नयन्ति यमकिङ्कराः
ग्रीवासु पापिनः कांश्चित् करप्रहरणैर्दृढैः ।क्षिप्त्वा क्षिप्त्वा यमप्रेष्या नयन्ति यममन्दिरम्
यान्त्यधःशिरसः केचिदूर्द्ध्वपादास्तथा परे ।गच्छन्ति वायुभिः केचिदेकपादाश्च केचन
इत्येवं विकृताकारा आर्त्तरावविराविणः ।यमदूतैस्ताड्यमानाः पापिनोऽपि तत्पथि
”इति पाद्मे क्रियायोगसारे २२ अध्यायः