| YouTube Channel

पापान्तं (pApAntaM)

 
शब्दकल्पद्रुमः
Sanskrit
पापान्तं,
क्ली,
(पापं अन्तयतीति अन्त + “कर्म्म-ण्यण् ।” इत्यण् ।) तीर्थघिशेषः तस्यनामान्तरंम् पृथूदकं अनुकीर्णञ्च यथा, --“पृथूदके महातीर्थे त्वनुकीर्णेति नामतः ।जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः
हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्म्मणि ।अक्षीयत ततो राष्ट्र नृपतेर्दष्कतेन वै
ततः चिन्तयामास ब्राह्मणस्य विचेष्टितम् ।पुरोहितेन संयुक्तो रत्नान्यादाय सर्व्वशः
प्रसादनार्थं विप्रस्य अनुकीर्णं ययौ तदा ।प्रसादितः राज्ञा तुष्टः प्रोवाच तं नृपम्
ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता ।ब्राह्मणश्चेदवज्ञातो नश्येत्त्रिपुरुषं कुलम्
एवमुक्त्रा नृपतिमाज्येन पयसा पुनः ।उत्थापयामास मृतांस्तस्य राज्ञो हिते स्थितः
तस्मिंस्तीर्थे तु यः स्नाति श्रद्दधानो जितेन्द्रियः ।स प्राप्नोति नरो नित्यं मनसा चिन्ततं फलम्
तत्तु तीर्थं सुविख्यातं पापान्तं नाम नामतः ।यस्येह यज्ञतृप्तस्य मधु सुस्राव वै नदी
तस्मिन् स्नातोऽथ भक्त्या मुच्यते सर्व्वपातकैः ।फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः
पापान्तमिति विख्यातं तीर्थं पुण्यतमं द्विजाः
”इति वामनपुराणे ३८ अध्यायः