| YouTube Channel

पापञ्चकः-ञ्चिका (pApaJcakaH-JcikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पचि व्यक्तीकरणे”@} 2 3 ‘पच व्यक्तीकरणे’ इति दुर्गः।
‘तिङो गोत्रादीनि--’ 4 इत्यत्र काशिकायां न्यासे ‘पचति 5 गोत्रम्’ इत्युक्तत्वात् तन्मतेऽपि ‘पच’ इत्येव पाठ इति गम्यते।
पच इत्यदन्तपाठेऽपि धातोरस्या- निट्त्वम्, अनिट्कारिकासु पाठात्--इति ज्ञेयम्।]] ‘णौ पञ्चयति विस्तारे व्यक्तौ तु शपि पञ्चते।’ 6 इति देवः।
पञ्चकः-ञ्चिका, पञ्चकः-ञ्चिका, पिपञ्चिषकः-षिका, पापञ्चकः-ञ्चिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककञ्चतिवत् 7 ज्ञेयानि।
8 पङ्कः, 9 पङ्क्तिः, 10 पञ्चालाः
इति अस्य धातो रूपाणीति विशेषः।
11 पञ्चितः।
प्रासङ्गिक्यः
01
=>
(९५८)
02
=>
(१-भ्वादिः-१७४। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(८-१-२७)
05
=>
[= व्यक्तीकरोति]
06
=>
(श्लो। १८)
07
=>
(१४५)
08
=>
[[५। घञि, न्यङ्क्वादिपाठात् कुत्वम्।]]
09
=>
[[६। बाहुलकात् ‘क्तिन्नपि इष्यते’ (वा। ३-३-९४) इति क्तिन्, कुत्वं च।]]
10
=>
[[७। ‘तमिविडि--’ (द। उ। ८-११५) इति कालच्प्रत्यये रूपम्। पञ्चते पञ्चयति वा पञ्चालाः = विषयः, पर्वतेश्वरयक्षश्च।]]
11
=>
[[आ। ‘अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः।’ धा। का। १। २४।]]
1 {@“पचि विस्तारवचने”@} 2 ‘विस्तारमात्रे च’ इति द्रुमे।
‘वचने’ इत्यविवक्षितमित्यर्थः।
3 ‘णौ पञ्चयति विस्तारे, व्यक्तौ तु शपि पञ्चते।’ 4 इति देवः।
पञ्चकः-पञ्चिका, पिपञ्चयिषकः-षिका, पञ्चकः-ञ्चिका, पिपञ्चिषकः-षिका, पापञ्चकः-ञ्चिका
इत्यादीनि सर्वाणि रूपाणि चौरादिकचम्पयतिवत् 5 ऊह्यानि।
घञि- 6 प्रपञ्चः।
प्रासङ्गिक्यः
01
=>
(९५९)
02
=>
(१०-चुरादिः-१६५२। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०८३५+ ३१]
04
=>
(श्लो। १८)
05
=>
(४९९)
06
=>
[[आ। ‘कृष्णः प्रपञ्चरहितां धृततेजितास्त्रैः वीरैः स्तुतां गिरमकीर्तदरातिवर्धी।।’ धा। का। ३। २८।]]