| YouTube Channel

पापं (pApaM)

 
Hindi
Hindi
पाप
शब्दकल्पद्रुमः
Sanskrit
पापं,
क्ली,
(पाति रक्षति अस्मादात्मानमिति ।पा + “पानीविषिभ्यः पः ।” उणां २३ ।इति पः ।) अधर्म्मम् दुरदृष्टम् तत्पर्य्यायः ।पङ्कम् पाप्मा पापम् किल्विषम् ४कल्मषम् कलुषम् वृजिनम् एनः ८अघम् अहः १० दुरितम् ११ दुष्कृतम् १२ ।इत्यमरः
पातकम् १३ तूस्तम् १४ कण्वम् १५शल्यम् १६ पापकम् १७ इति शब्दरत्नावली(निषिद्धकर्म्मानुष्ठानविहितकर्म्माननुष्ठानाभ्यांपापोत्पत्तिं सविशेषमाह श्रीसंदाशिवः ।“अनुष्ठानं निषिद्धस्य त्यागो विहितकर्म्मणः ।नृणां जनयतः पापं क्लेशशोकामयप्रदम्
स्वानिष्टमात्रजननात् परानिष्टोपपादनात् ।तदेव पापं द्विविधं जानीहि कुलनायिके !
परानिष्टकरात् पापान् मुच्यते राजशासनात् ।अन्यस्मान्मुच्यते मर्त्त्यः प्रायश्चित्त्या समाधिना
प्रायश्चित्त्याथवा दण्डैर्न पूता ये कृतांहसः ।नरकान् निवर्त्तन्ते इहामुत्र निगर्हिताः
”इति श्रीमहानिर्व्वाणतन्त्रे
)तद्दशविधं यथा, --“प्राणाभिपातनं स्तैन्यं परदारमथापि ।त्रीणि पापानि कायेन सर्व्वतः परिवर्ज्जयेत्
असत्प्रलापं पारुष्यं पैशुन्यमनृतन्तथा ।चत्वारि वाचा राजेन्द्र ! जल्पेत चिन्तयेत्
अनभिध्या परस्वेषु सर्व्वसत्त्वेषु सौहृदम् ।कर्म्मणां फलमस्तीति त्रिविधं मनसा चरेत्
”इति शान्तिपर्व्वणि दानधर्म्मः
स्मृत्युक्तान्येतानि पातकशब्दे लिखितानि
*
पापस्य पुरुषत्रयानुवर्त्तित्वं यथा, --“नाधर्म्मश्चरितो राजन् ! सद्यः फलति गौरिव ।शनैरावर्त्तमानस्तु मूलान्यपि निकृन्तति
यदि नात्मनि मित्रेषु चेत् पुत्रेषु नप्तृषु ।पापमाचरितं कर्म्म त्रिवर्गमनुवर्त्तते
फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे
”इति मात्स्ये २८ अध्यायः
*
तीर्थस्य पापनाशकत्वं तत्र कृतपापस्य वज्र-लेपत्वञ्च यथा, --“अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ।तीर्थे तु यत् कृतं पापं वज्रलेपो भविष्यति
मथुरायां कृतं पापं तत्रैव विनश्यति ।एषा पुरी महापुण्या यस्यां पापं विद्यते
”इति वाराहे मथुरामाहात्म्यम्
*
शेषपापलक्षणं यथा, --“अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् ।ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः
पितॄणाञ्च द्विजश्रेष्ठ ! सर्व्ववर्णेषु चैकतः ।ओँकारादिनिवृत्तिश्च पापकार्य्यकृतिश्च या
हत्यादिकं महापापं त्वगम्यागमनं तथा ।घृतादिविक्रयं घोरं चाण्डालादिप्रतिग्रहम्
स्वदोषगोपनं पापं परदोषप्रकाशनम् ।ईर्षाविद्धं वाक्यदुष्टं निष्ठुरत्वं षडम्बरम्
ढाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्म्मजः ।मारणत्वमधार्म्मिक्यं नरकावहमुच्यते
एतैः पापैस्तु संयुक्तः पच्यते यदि शङ्करः
”इति वामने ५८ अध्यायः
साङ्कर्य्यनामकपापानि यथा, --“एकशय्याशनं पंक्तिभाण्डपक्वान्नमिश्रणम् ।याजनाध्यापने योनिस्तथैव सहभोजनम्
सहाध्यायस्तु दशमः सहयाजनमेव ।एकादश समुद्दिष्टा दोषाः साङ्कर्य्यसंज्ञिताः
समीपे चाप्यवस्थानात् पापं संक्रमते नृणाम् ।तस्मात् सर्व्वप्रयत्नेन साङ्कर्य्यं परिवर्ज्जयेत्
”इति कौर्म्मे उपविभागे १५ अध्यायः
“आलापाद्गात्रसंस्पर्शात् संवासात्सहभोज-नात् ।आसनाच्छयनाद्यानात् पापं संक्रमते नृणाम्
आसनादेकशय्याया भोजनात् पंक्तिसङ्करात् ।ततः संक्रमते पापं घटाद्घट इवोदकम्
”इति गारुडे नीतिसारे ११२ अध्यायः
राष्ट्रादिकृतपापेन राजादीनां परस्परं पापित्वंयथा, --“राजा राष्ट्रकृतात् पापात् पापी भवति वैहरे ! ।तथैव राज्ञः पापेन तद्राज्यस्थास्तु ये जनाः
वर्णाश्रमादयः सर्व्वे पापिनो नात्र संशयः ।भार्य्यांहोदुष्कृती स्वामी वृजिनात् स्वामिनो-ऽबला
तथा देशिकपापात्तु शिष्यः स्यात् पातकी सदा ।शिष्याद्धि पापिनो नित्यं गुरुर्भवति दुष्कृती
पातकी यजमानः स्यात् पापिनोऽङ्ग ! पुरोधसः ।पुरोहितस्तथा पापी यजमानांहसो ध्रुवम्
”अदत्तपुण्यपापभागित्वं यथा, --“अदत्तानि पुण्यानि पापानि यथा प्रिये ! ।प्राप्याणि कर्म्मणा येन तद्यथावन्निशामय
देशग्रामकुलानि स्युर्भागभाञ्जि कृतादिषु ।कलौ तु केवलं कर्त्तां फलभुक् पुण्यपापयोः
अकृतेऽपि संसर्गे व्यवस्थेयमुदाहृता ।संसर्गात् पुण्यापापानि यथा यान्ति निबोध तत्
एकत्र मैथुनाद्यानादेकपात्रस्थभोजनात् ।फलार्द्धं प्राप्नुयान्मर्त्त्यो यथावत् पुण्यपापयोः
स्पर्शनाद्भाषणाद्वापि परस्य स्तवनादपि ।दशांशं पुण्यपाषानां नित्यं प्राप्नोति मानवः
दर्शनश्रवणाभ्याञ्च मनोध्यानात्तथैव ।परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः
परस्य निन्दापैशुन्यं धिक्कारञ्च करोति यः ।तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः
कुर्व्वतः पुण्यकर्म्माणि सेवां यः कुरुते परः ।पत्नी भृत्योऽथ शिष्यो वा सजातीयोऽपि मानवः ।तस्य सेवानुरूपेण तस्य तत्पुण्यभाग्भवेत्
एकपंक्तेस्ततो यस्तु लङ्घयन् परिवेशयेत् ।तस्य पापशतांशन्तु लभते परिवेशकः
स्नानसन्ध्यादिकं कुर्व्वन् संस्पृशेद्वा प्रभाषते ।स पुण्यकर्म्मषष्ठांशं दद्यात्तस्मै सुनिश्चितम्
धर्म्मोद्देशेन यो द्रव्यं परं याचयते नरः ।तत् पुण्यं कर्म्मजं तस्य धनं दत्त्वाप्नुयात् फलम्
अपहृत्य परद्रव्यं पुण्यकर्म्म करोति यः ।कर्म्मकृत् पापभोक्तात्र धनिनस्तद्भवेत् फलम्
नापनुद्य ऋणं यस्तु परस्य म्रियते नरः ।धनी तत् पुण्यमाप्नोति स्वधनस्यानुरूपतः
बुद्धिदस्त्वनुमन्ता यश्चोपकरणप्रदः ।बलकृच्चापि षष्ठांशं प्राप्नु यात् पुण्यपापयोः
प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ।शिष्याद्गुरुः स्त्रिया भर्त्ता पिता पुत्त्रात्तथैव ।स्वपतेरपि पुण्यस्य भार्य्यार्द्धं समवाप्नुयात्
परहस्तेन दानादि कुर्व्वतः पुण्यकर्म्मणः ।विना भृतकशिष्याभ्यां कर्त्ता षष्ठांशमाहरेत् ।आत्मनो वा परस्यापि यदि सेवां कारयेत्
श्रीकृष्ण उवाच ।इत्थं ह्यदत्तान्यपि पुण्यपापा-न्यायान्ति नित्यं परसञ्चितानि ।शृणुष्व चास्मिन्नितिहासमग्र्यंपुराभवं पुण्यमतिप्रियञ्च
”इति पाद्मोत्तरखण्डे ७१ १५७ अध्यायः
क्षुद्रजन्तुप्रभृतीनां वधे पापं तत्प्रायश्चित्तञ्चयथा, --“वधे क्षुद्रजन्तूनां हिंसकानाञ्च पण्डितः ।कार्षापणं समुत्सृज्य मृत्युकाले प्रमुच्यते
अहिंसकानां क्षुद्राणां वधे शतगुणं ध्रुवम् ।प्रायश्चित्तं मृत्युकाले कथितं पद्मयोनिना
वधे विशिष्टजन्तूनां पश्वादीनाञ्च कामतः ।ततः शतगुणं पापं निश्चितं मनुरब्रवीत्
नराणां म्लेच्छजातीनां वधे शतगुणं ततः
म्लेच्छानाञ्च शतानाञ्च यत् पापं लभते वधे ।सच्छूद्रैकस्य वधे तत् पापं लभते पुमान्
सच्छूद्राणां शतानाञ्च यत् पापं लभते वधे ।तत् पापं लभते नूनं गोवधेनैव निश्चितम्
गवां दशगुणं पापं ब्राह्मणस्य वधे भवेत् ।विप्रहत्यासमं पापं स्त्रीवधे लभते नरः
*
पापिदर्शनजन्यपापं यथा, --“पापं यद्दर्शने तात ! कथयामि निशामय ।दुःस्वप्नं पापबीजञ्च केवलं विघ्नकारणम्
गोघ्नञ्च ब्रह्मघ्नं वापि कृतघ्नं कुटिलं तथा ।देवघ्नं पितृमातृघ्नं पापं विश्वासघातिनम्
मिथ्यासाक्ष्यप्रदातारं पञ्चातिथ्यविवञ्चकम् ।ग्रामयाजिनमेवेति देवविप्रस्वहारिणम्
अश्वत्थघातिनं दुष्टं शिवविष्णुविनिन्दकम् ।अदीक्षितमनाचारं सन्ध्याहीनं द्विजन्तथा
देवलं वृषवाहञ्च शूद्राणां सूपकारकम् ।शवदाही शूद्राणां शूद्रश्राद्धान्नभोजिनम्
अवीरां छिन्ननासाञ्च देवब्राह्मणनिन्दकम् ।पतिभक्तिविहीनाञ्च विष्णुभक्तिविहीनकम्
शूद्राणां विधवाञ्चैव चण्डालं व्यभिचारिणीम् ।शश्वत् कोपयुतं दुष्टमृणग्रस्तञ्च जारजम्
चौरं मिथ्यावादिनञ्च शरणागतघातिनम् ।मांसापहारिणञ्चैव ब्राह्मणं वृषलीपतिम्
ब्राह्मणीगामिनं शूद्रं द्विजं वार्द्धुषिकन्तथा ।अगम्यागामिनं दुष्टं चतुर्व्वर्णं नराधमम्
मातासपत्नी माता श्वश्रूश्च भगिनी सुता ।गुरुपत्नी पुत्त्रपत्नी सोदरस्य प्रिया सती
मातृष्वसा पितृष्वसा भागिनेयप्रिया तथा ।मातुलानी नवोढा पितृव्यस्त्री रजस्वला
पितृमातृप्रसूश्चैव चागम्याष्टादश स्मृताः ।कीर्त्तिताः सामवेदे परिपाल्याः सतां व्रज !
एतान् दृष्ट्वा स्पृष्ट्वा ब्रह्महत्यां लभेन्नरः ।तस्माद्दैवादिमान् दृष्ट्वा सूर्य्यं दृष्ट्वा हरिं स्मरेत्
कामतो यदि पश्यन्ति तत्तुल्यास्ते भवन्ति वै ।तस्मात् सन्तो पश्यन्ति पापभीता व्रजेश्वर !
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७८ अध्यायः
(अनिष्टम् वधः इति राजानुजः
यथा, रामायणे ३२ ।“तस्मात् लक्ष्मणे रामः पापं किञ्चित् करि-ष्यति ।रामस्तु भरते पापं कुर्य्यादेव संशयः
”तद्वति, त्रि इत्यमरः
यथा, महाभारते ।१ ९० १९ ।“पुण्यां योनिं पुण्यकृतो व्रजन्तिपापां योनिं पापकृतो व्रजन्ति ।कीटाः पतङ्गाश्च भवन्ति पापान मे विवक्षास्ति महानुभाव !
”)