| YouTube Channel

पानीयशालिका (pAnIyazAlikA)

 
शब्दसागरः
English
पानीयशालिका
f.
(-का) A place where water, &c. is distributed.
E.
पानीय water, शाला a place,
aff.
स्वार्थे-क, कापि अत इत्त्वम्
Yates
English
पानीय-शालिका (का) 1.
f.
A place
where water is distributed.
Wilson
English
पानीयशालिका
f.
(-का) A place where water, &c. is distributed.
E.
पानीय water, शाला a place,
aff.
कन्.
Monier Williams Cologne
English
पानीय—शाला or पानीय—शालिका,
f.
a place (esp. a shed on the road-side) where water is distributed,
L.
Apte Hindi
Hindi
पानीयशालिका
स्त्री*
पानीयम्-शालिका -
"प्याऊ, जहाँ यात्रियों को पानी पिलाया जाय"
Shabdartha Kaustubha
Kannada
पानीयशालिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮದ್ಯ ಕುಡಿಯುವ ಮನೆ
निष्पत्तिः - > स्वार्थे - "कः"
व्युत्पत्तिः - > पानीया शाला
L R Vaidya
English
pAnIya-SAlikA {% f. %} a place where water is distributed.
शब्दकल्पद्रुमः
Sanskrit
पानीयशालिका,
स्त्री,
(पानीयस्य जलस्य वित-रणार्थं शालिका शालागृहमित्यर्थः ।) जला-वस्थानगृहम् पानिशाला इति जलछत्र इतिच भाषा तत्पर्य्यायः प्रपा इत्यमरः
तत्कर्त्तृफलं यथा, --“कूपारामप्रपाकारी तथा वृक्षादिरोपकः ।कन्याप्रदः सेतुकारी स्वर्गमाप्नोत्यसंशयम्
”इत्युद्वाहतत्त्वे यमः
वाचस्पत्यम्
Sanskrit
पानीयशालिका स्त्री पीयतेऽस्याम् आधारे अनीयर् ता-दृशी शाला पानीथवितरक्षार्थं वा शाला ततः स्वार्थेक कापि अतैत्त्वम् प्रपायाम् (जलसत्रगृहे) अमरः ।तद्दानविधिः हेमाद्रि० दा० भविष्यपु० उक्तो यथा“अतीते फाल्गुने मासि प्राप्ते चैव महोत्सवे पुण्ये-ऽह्नि विप्रकथिते ग्रहचन्द्रबलान्विते मण्डपं कार-येद्विद्वान् घनच्छायं सनोरमम् पुरस्य मध्ये पथि वाचैत्यवृक्षतलेऽथ वा सुशीतलतलं रम्य विचित्रासनसं-युतम् तन्मध्ये स्थापयेद्भव्यान् मणिकुम्भांश्च शोभ-नान् आकल्पयुक्तान् करकान् वस्त्रैरावेष्टितानमान् ।ब्राह्मणे शीलसम्पन्ने भृतिं दत्त्वा यथोदिताम् प्रपा-पालः प्रकर्त्तव्यो बहुपुत्रपरिच्छदः पानोयपानादश्रा-न्तान् यः कारयति मानवान् एवंविधां प्रषां कृत्वाशुभेऽह्नि विधिपूर्वकम् यथाशक्त्या नरश्रेष्ठ! प्रारम्भेभोजयेद्द्विजान् ततश्चोत्सर्जयेद्विद्वान्मन्त्रेणानेन मा-नवः प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता अस्याःप्रदानात् पितरस्तृष्वन्तु प्रितामहाः अनिवारितंतती देयं जलं मासचतुष्टयम् त्रिपक्षं वा महाराज!जीवानां जीवनं परम् गन्धाद्यं सुरसं शीतं शोभनेराजते स्थितम् प्रदद्यादप्रतिहतं मुखञ्चानवलोकयन् ।प्रत्यहं कारयेतस्यां भोजनं शक्तितो द्विजान् अनेनविधिना यस्तु ग्रीष्मे तापप्रणाशनम् पानीयमुत्तमंदद्यात्तस्य पुण्यफलं शृणु कपिलाशतदानस्य सम्यग-दत्तस्य यत् फलम् तत्पुण्यफलमाप्नोति सर्वदेवैःसुपूजितः पूर्ण्णचन्द्रप्रतीकाशं विमानमधिरुह्य सः ।याति देवेन्द्रनगरं पूज्यमानोऽप्सरोगणैः त्रिंशत्-कोट्यो हि वर्षाणां यक्षगन्धर्वसेवितम् पुण्यक्षयादिहागत्य चतुर्वेदो द्विजो भवेत् ततःपरं पदं याति पुनरावृत्तिदुर्लभम्”