| YouTube Channel

पानात्यय (pAnAtyaya)

 
शब्दसागरः
English
पानात्यय
m.
(-यः) Morbid state after intoxication.
E.
पान, and अत्यय end.
Yates
English
पाना_त्यय (यः) 1.
m.
Surfeit.
Wilson
English
पानात्यय
m.
(-यः) Morbid state after intoxication.
E.
पान, and अत्यय end.
Monier Williams Cologne
English
पानात्यय
m.
‘end of d°’ id.,
Suśr.
L R Vaidya
English
pAna-atyaya {% m. %} hard-drinking.
शब्दकल्पद्रुमः
Sanskrit
पानात्ययः,
पुं,
(पानाद्धेतोः जातो योऽत्ययः रोग-विशेषः ।) मदात्ययरोगः इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
पानात्यय
पु०
सुश्रुतोक्ते मद्यपानजे रोगभेदे मद्यख पा-नदोषादिकनिरूपणेन तल्लक्षणादिकं तत्रोक्तं यथा“मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव रूक्ष-माशुकरञ्चैव व्यवायि विकाशि औष्ण्याच्छीतो-पचारं तत्तैष्ण्याद्धन्ति मनोगतिम् विशत्यवयवान्सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् मारुतं कीपयेद्रौक्ष्या-दाशुत्वादाशुकर्मकृत् हर्षदञ्च व्यवायित्वाद्विकाशित्वाद्वि-सर्पति तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम् ।केचिञ्चवणवर्जांस्तु रसानत्रादिशन्ति हि स्निग्धै-स्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम् भवेदायुःप्रकर्षायबलायोपचयाय काम्यता मनसस्तुष्टिर्द्धैर्य्यं तेजो-ऽतिविक्रमः विधिवत्सेव्यमाने तु मद्ये सन्निहितागुणाः तदेवानन्नमज्ञेन सेव्यमानममात्रया काया-ग्निनाह्यग्निशमं समेत्य कुरुते मदम् मदेन करणा-नान्तु भावान्यत्वे कृते सति निगूढमपि भावं स्वम्प्र-काशी कुरुतेऽवशः त्र्यवस्थश्च मदो ज्ञेयः पूर्वो भध्यो-ऽथ पश्चिमः पूर्वे वीर्य्यरतिप्रीतिहर्षभाष्यादिवर्द्ध-नम् प्रकापो मध्यमे हर्षो युक्तायुक्तक्रियान्तथां ।विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः श्लैष्मिकान-ल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः पानं बाधतेऽत्यर्थंविपरीतांस्तु वाधते निर्भक्तमेकान्तत एव मद्यं निषे-व्यमाणं मनुजेन नित्यम् उत्पादयेत् कष्टतमान्विका-रानासादयेच्चापि शरीरभेदम् क्रुद्धेन भीतेन पिपा-सितेन शोकाभितप्तेन बुभुक्षितेन व्यायामभाराध्वपरि-क्षतेन वेगावरोधाभिहतेन चापि अत्यम्लभक्ष्यावततो-दरेण साजीर्णभुक्तेन तथा बलेन उष्णाभितप्तेन चसेव्यमानं करोति मद्यं विविधान्विकारान् पानात्ययंपरमदम्पानाजीर्णमथापि वा पानविभ्रममुग्रञ्च तेषांवक्ष्यामि लक्षणम् स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाःपानात्ययेऽनिलकृते शिरसो रुजश्च स्वेदप्रलापमुख-शोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता श्ले-षात्मके वमथुशीतकफपसेकाः सर्वात्मके भवति सर्वविका-रसम्बत् ऊष्मा शरीरगुरुता विरसाननत्वं श्लेष्माधि-कत्वमरुचिर्मलमूत्रभङ्गः लिङ्गं परस्य तु मदस्य व-दन्ति तज्ज्ञास्तृष्णारुजा शिरसि सन्धिषु चापि भेदः ।आध्मानमद्गिरणमम्लरसो विदाहोऽजीर्ण्णस्य पानजनि-तस्य वदन्ति लिङ्गम् ज्ञेयानि तत्र भिषजा सुविनि-श्चितानि पित्तप्रकोपजनितानि कारणानि हृद्गात्र-तोदवमथुज्वरकण्टधूममूर्च्छाकफस्रवणमूर्द्धरुजो विदाहः ।द्वेषः सुरान्नविकृतेषु तेषु तेषु तं पानविभ्रममुशन्त्य-खिलेन धीराः हीनोत्तरौष्ठमतिशीतममन्ददाहं तैल-प्रभास्यमतिमानहतं विजह्यात् जिह्वौष्ठदन्तमसितंत्वथवापि नीलं पीते यस्य नयने रुधिरप्रभे ।हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि चपानहतं मजन्ते” परममदपानाजीणेपानविभ्रमाअपि तत्रोक्ते मद्यपानजे रोगमेदे तल्लक्षणमत्रैवोक्तम्