| YouTube Channel

पानभाजनं (pAnabhAjanaM)

 
शब्दकल्पद्रुमः
Sanskrit
पानभाजनं,
क्ली,
(पानाय पानस्य वा भाजनंपात्रम् ।) पानपात्रम् तत्पर्य्यायः कंसः ।इत्यमरः ३२
“काम्यतेऽसौ कंसःकमुक्ङ्स्पृहि नाम्नीति सः दन्त्यान्तः स्वार्थेष्ण्ये कांस्यञ्च स्वर्णरजतादिनिर्म्मिते पात्रमात्रे-ऽपि कंसः ‘कंसः स्यात् तैजसे द्रव्ये पान-पात्रेऽपि कांस्यवंत् ।’ इति शाश्वतः
‘पात्रान्तरे पानपात्रे कांस्यं कंसे त्त तैजसे ।’इति रभसः
पीयते पानं मद्यादि तस्य भाजनं पानभीज-नम् ।” इति भरतः