| YouTube Channel

पानपात्रं (pAnapAtraM)

 
शब्दकल्पद्रुमः
Sanskrit
पानपात्रं,
क्ली,
(पानस्य पेयमद्यादेः पात्रम् ।)मद्यपानपात्रम् मद्यपानस्य भाजनम् तत्-पर्य्यायः चषकः सरकः अनुतर्षणम् ।इत्यमरः
पूर्व्वद्वयं मद्यपानपात्रे शेषद्वयं मद्य-परिवेशनपात्रे इति भरतः
चषकम् अनु-तर्षः पारी पारीकम् इति शब्द-रत्नावली
*
(यथा, मार्कण्डेये ८२ २९ ।“ददावशून्यं सुरया पानपात्रं धनाधिपः
”)अथ पानपात्रपरिमाणादि यथा कुलसारे ।“नयनाग्निबाणसंख्यकर्षैस्तु परमेश्वरि ! ।पात्रं प्रकर्त्तव्यमित्युक्तं कुलसाधने
इतोऽप्यधिकपात्रन्तु कर्त्तव्यञ्च साधकैः
”कर्षं लौकिकतोलकमित्यर्थः तदुक्तं कुलोत्तमे ।“गुञ्जाद्वादश माषः स्यात्तदष्टौ कर्ष उच्यते
”अथोत्तरतन्त्रे ।“अनुज्ञां पुरतो लब्ध्वा गृह्णामीति स्वयं वदेत् ।जुषस्वेत्यभ्यनुज्ञातो गुरुणा वा कुलीनकैः
गृह्णीयाच्च स्वयं सिद्धो बद्धपद्मासनः सुधीः
”कुलार्णवे ।“एकासने निविष्टा ये भुञ्जीरंश्चैव भाजने ।एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकाधमे
”एकपात्रमिति सर्व्वैर्म्मिलित्वा नैकपात्रे पिबेत् ।न तु प्रतिवारं द्रव्यपाने भिन्नभिन्नपात्रं कार्य्यंअननुष्ठानलक्षणापत्तेः सम्प्रदायविरोधाच्च