| YouTube Channel

पानगोष्ठिका (pAnagoSThikA)

 
शब्दसागरः
English
पानगोष्ठिका
f.
(-का) A dram shop, a place where people drink
together.
E.
पान drinking, गोष्ठी a station,
aff.
कन्.
Yates
English
पान-गोष्ठिका (का) 1.
f.
A dram shop.
Spoken Sanskrit
English
पानगोष्ठिका pAnagoSThikA
f.
tavern
पानगोष्ठिका pAnagoSThikA
f.
drinking-party
Wilson
English
पानगोष्ठिका
f.
(-का) A dram shop, a place where people drink
together.
E.
पान drinking, गोष्ठी a station,
aff.
कन्.
Monier Williams Cologne
English
पान—गोष्ठिका or पान—गोष्ठी,
f.
a drinking-party
a tavern,
L.
Apte Hindi
Hindi
पानगोष्ठिका
स्त्री*
पानम्-गोष्ठिका -
शराबियों की मंडली
पानगोष्ठिका
स्त्री*
पानम्-गोष्ठिका -
"शराब की दुकार, मदिरालय"
L R Vaidya
English
pAna-gozWikA {% f. %} 1. a drinking party
2. a tavern.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
*पानगोष्ठिका Trinkgelage, Śrīk. XIV, 37.
अभिधानचिन्तामणिः
Sanskrit
--source--
सपीतिः सहपानं स्यादापानं पानगोष्ठिका
-wordlist-
सपीति (स्त्री), सहपान (क्ली), आपान (क्ली), पानगोष्ठिका (स्त्री)
शब्दकल्पद्रुमः
Sanskrit
पानगोष्ठिका,
स्त्री,
(पानस्य पानाय वा गोष्ठिका ।)यत्र सम्भूय पीयते मद्यपानचक्रम् तत्-पर्य्यायः आपानम् इत्यमरः १० ४३
चक्रानुष्ठानं यथा श्यामारहस्यधृतम् चक्रा-कारेण पंक्त्याकारेण वा भिन्नभिन्नासने स्वशक्ति-युक्तश्चेत् युग्मयुग्मक्रमेण पद्मासनेनोपविश्य साम-यिकललाटे चन्दनं दत्त्वा शिवशक्तिबुद्ध्या पुष्पञ्चदद्यात् ततो यदि गुरुस्तत्र तिष्ठति तदादौगन्धादिना तं पूजयित्वा तत्पात्रे पुष्पं दत्त्वाशुद्धिसहितं तस्मै समर्प्य प्रणमेत् गुरोरभावेतत् पात्रं जले क्षिपेत् ततः शक्तिपात्रं शुद्धि-सहितं शक्त्यै दत्त्वा सामयिकेभ्योऽपि ज्येष्ठानु-क्रमेण वीरपात्रात् परामृतं शुद्धिसहितं दद्यात् ।ततः सामयिकोऽपि भक्त्या हस्तद्वयेन संगृह्यतदुपरि मूलमन्त्रमष्टधा जप्त्वा पूर्व्ववदानन्द-भैरवं भैरवीञ्च सन्तर्प्य गुरून् देवताञ्च सन्त-र्पयेत् स्वस्वकल्पोक्तविधिना भूतशुद्धिं कुर्य्यात् ।ततश्चक्रनायकस्तैःसह पात्रवन्दनं कुर्य्यात् यथा, “श्रीमद्भैरवशेखरप्रविलसच्चन्द्रामृतप्लावितंक्षेत्राधीश्वरयोगिनीसुरगणैः सिद्धिः समाराधि-तम् ।आनन्दार्णवकं महात्मकमिदं साक्षात्त्रिखण्डामृतंवन्दे श्रीप्रथमं कराम्बुजगतं पात्रं विशुद्धिप्रदम्
”इत्यभिमन्त्र्य वामहस्तेन पात्रमुत्तोल्य अन्योन्य-वन्दनं कृत्वा गृह्णामीति गुरुशक्तिसाधकेश्वराणा-माज्ञां गृह्णीयात् ते जुषस्वेति ब्रूयुः ततो मूला-धारात् कुण्डलिनीं इष्टदेवतास्वरूपां आजि-ह्वान्तां विभाव्य गुरुपादुकां स्मृत्वा शिवोऽह-मिति विचिन्त्य हस्ताभ्यां पात्रं धृत्वा मूलमुच्च-रन् कुण्डलिनीमुखे देवीं तर्पयेत् एतदुक्त-मुदयाकरपद्धत्याम् ।“कृत्वा मन्त्रतनुं स्मरेत् गुरुपदं देवीं बलां चिन्मयींपश्चात् वारत्रयं सदासववृतं दीपैर्युतं कज्जलैः ।पुष्पादिष्वभिमन्त्रितञ्च निविडं सम्मोहकध्वंसकंये सञ्चिन्त्य पिबन्ति यान्ति खलु ते भुक्तिञ्चमुक्तिं पराम्
”तन्त्रान्तरे ।“सिन्दूरतिलकं भाले पाणौ मदिरासवम् ।कृत्वा पिबेद्गुरुं ध्यायंस्तथा देवीञ्च चिन्मयीम्
”ततः पात्रमाधारोपरि संस्थाप्य पुनस्तेन क्रमेणपरामृतं गृहीत्वा पात्रवन्दनं कुर्य्यात् यथा, --“मद्यं मीनरसावहं यदि तया दत्तञ्च पेयादिभिःकिञ्चिच्चञ्चलरक्तपङ्कजदृशा तस्यै समावेदितम् ।वामे स्वात्मविशुद्धिशुद्धिकमलं पाणौ विधायात्मकेवन्दे पात्रमहं द्वितीयमधुनानन्दैकसंवर्द्धनम्
”ततः पूर्व्ववत् पात्रं स्वीकृत्य अन्यत् पात्रवन्दनंकुर्य्यात् यथा, --“सर्व्वाम्नायकलाकलापकलितं कौतूहलद्योतनंचन्द्रोपेन्द्रमहेन्द्रशम्भुवरुणब्रह्मादिभिः सेवितम् ।ध्यातं देवगणैः परं मुनिगणैर्म्मोक्षार्थिभिःसर्व्वदावन्दे पात्रमहं तृतीयमधुना चात्मावबोधक्षमम्
”तृतीयपात्राभिवन्दनं कृत्वान्यत् पात्रवन्दनंकुर्य्यात् यथा, --“हैमं मीनरसावहं हरिहरब्रह्मादिभिः सेवितंमुद्रामैथुनधर्म्मकर्म्मनिरतं क्षाराम्लतिक्ताश्र-यम् ।आचार्य्याष्टकसिद्धिभैरवकलामांसेन संशोधितंपायात् पञ्चमकारतत्त्वसहितं पात्रं चतुर्थं नमः
”इति चतुर्थपात्रवन्दनं कृत्वान्यत्पात्रवन्दनंकुर्य्यात् यथा, --“आधारे भुजगाधिराजवलये पात्रं महीमण्डलंमद्यं सप्तसमुद्रवारि पिशितं चाष्टौ दिग्-दन्तिनः ।सोऽहञ्चैव विभावयन् प्रतिदिनं तारागणैरक्षितोऽप्यादित्यप्रमुखैः सुरासुरगणैराज्ञाकरैःकिङ्करैः
”इति पञ्चमपात्रं स्वीकुर्य्यात् ततो यावद्दृष्ठ्या-दिकं चलति तावत् पानादिकं कार्य्यम् ।अथास्य प्रमाणं यथा रुद्रयामले ।“साधकेभ्यश्च शक्तिभ्यो दद्यान्निर्म्माल्यचन्दनम् ।सामयिकैः समं कुर्य्याद्देवि ! पानादिभक्षणम्
”अन्यत्रापि ।“निविशेच्चक्ररूपेण पंक्त्याकारेण वा यथा ।शक्तियुक्तो वसेद्बापि युग्मयुग्मविधानतः ।शिवशक्तिधिया सर्व्वं चक्रमध्ये समर्पयेत्
”तन्त्रान्तरे ।“ततः पुष्पं समादाय गुरोः पात्रे निवेदयेत् ।गुरवे निवेद्याथ शक्त्यै दत्त्वा स्वयं हरेत्
”भावचूडामणौ ।“साक्षाद्यदि गुरुर्न स्यात्तदातोये विसर्ज्जयेत्
”एतत् सर्म्बं कलीतरपरम् ।“दिव्यवीरमयो भावः कलौ नास्ति कदाचन
”इति कालीविलासवचनात्
वाचस्पत्यम्
Sanskrit
पानगोष्ठिका स्त्री पानार्थं गोष्ठिका सम्भूय मद्यादि-पानार्थसभायाम् तन्त्रोक्ते भैरवीचक्रे