| YouTube Channel

पानकं (pAnakaM)

 
Apte 1890
English
पानकं A drink, beverage, potion.
शब्दकल्पद्रुमः
Sanskrit
पानकं,
क्ली,
(पानाय कायतीति कै + कः ।)पानद्रव्यविशेषः तत्प्रकारो यथा, “यथोक्त-परिमितशर्करानिम्बूरसयुक्तोऽथवान्याम्लयुक्तःपक्करसः इति पाकराजेश्वरः
(यथा, सुश्रुते ।१ ४६ ।“पानीयं पानकं मद्यं मृण्मयेषु प्रदापयेत्
”क्वचित् पुंस्यपि दृश्यते यथा, तत्रैव ३९ ।“एभिर्लेपान् कषायांश्च तैलं सर्पींषि पान-कान्
”तत्राम्रफलपानकम् यथा, --“आम्रमामं जलस्विन्नं मर्द्दितं दृढपाणिना ।सिताशीताम्बुसंयुक्तं कर्पूरमरिचान्वितम्
प्रपानकमिदं श्रेष्ठं भीमसेनेन निर्मितम् ।सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम्
अपक्वाम्ररसोद्भूतपानकं वातनाशनम् ।कफपित्तकरं किञ्चिन् प्रत्यहं यदि सेवितम्
”पक्काम्रस्य तु ।“सुपक्कमाम्रस्य फलं सुमुष्टिनासम्मर्दितं शर्करया समन्वितम् ।एलालवङ्गार्द्रकवासवासितंवर्णान्वितं कस्य रोचकं भवेत्
पानकं चाम्रसम्भूतं स्वाद्वम्लं गुरुपित्तजित् ।सुहृद्यं श्लेष्मकृद्बल्यं वर्ण्यं वृष्यं रुचिप्रपदम्
”अम्लिकाफलपानकं यथा, --“अम्लिकायाः फलं पक्वं मर्द्दितं वारिणा दृढम् ।शर्करा मरिचोन्मिश्रं लवङ्गेन्दुसुवासितम्
अम्लिकाफलसम्भूतं पानकं वातनाशनम् ।पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम्
”निम्बुफलपानकं यथा, --“भागैकनिम्बुजं तोयं षड्भागं शर्करोदकम् ।लवङ्गमरिचोन्मिश्रं पानकं पानकोत्तमम्
निम्बूफलभवं पानमत्यम्लं वातनाशनम् ।वह्निदीप्तिकरं रुच्यं समस्ताहारपाचकम्
”धान्याकपानकं यथा, --“शिलायां साधुसम्पिष्टं धान्याकं वस्त्रगालितम् ।शर्करोदकसंयुक्तं कर्पूरादिसुसंस्कृतम्
नवीने मृन्मये पात्रे स्थितं पित्तहरं परम्
जम्ब्वाः पानकं यथा, --“जम्बूफलं स्थूलतरं सुपक्वंसम्मर्द्दितं शर्करयाम्बुनालम् ।सुवासितं वेल्लजभृङ्गपत्रेरुचिं विधत्ते विरुचौ जनानाम्
जम्बूफलभवं रुच्यं पानकं कफनाशनम् ।कषायं वातकृत् स्तोकं स्वाद्वम्लं ग्राहकं परम्
”वीजपूरपानकम् ।“मातुलुङ्गरसे योज्यं त्रिगुणं शार्करं जलम् ।कर्पूरमरिचोन्मिश्रं पानकं स्यादिदं वरम्
मातुलुङ्गभवं पानं शूलानाञ्च विनाशनम् ।श्वासे कासेऽरुचौ वातविड्वन्धेषु पूजितम्
”हेमकिरणन्तु ।“शर्करानालिकेलञ्च बीजपूररसप्लुतम् ।पटपुतं भवेद्धेमकिरणं नामपानकम्
पानकं हेमकिरणं रुच्यं वृष्यं बलप्रदम् ।सुस्निग्धं वातहृच्छुभ्रं किञ्चित् कफकरं गुरु
”करमर्द्दपानकं यथा, --“लवङ्गार्द्रकसंयुक्तं सुपिष्टं वारिणा युतम् ।करमर्दं करैर्मर्द्यं सप्तभागसितान्वितम्
वातहृद्रुचिदं भव्यं हृद्यमम्लतरं स्मृतम् ।रक्तपित्तकरञ्चोष्णमाकण्ठ्यं कारमर्दितम्
”नारङ्गपानकं यथा, --“सुपक्वनारङ्गफलं निपीडितंसंयोजितं शर्करयाति शुभ्रया ।सहार्द्रकं चेन्दुकणेन वासितंपानेच्छया केन संस्तुतक्षणम्
”नारङ्गफलसम्भूतं पानकं वातनाशनम् ।मधुरं विशदं रुच्यं सुस्निग्धं पित्तहृद्दृढम्
”चारस्य तु ।“चारवृक्षफलजं सशर्करंमर्दितं शिशिरवारिणा दृढम् ।ऐलमार्द्रकयुतेन सुवासंभक्तसिक्थमिलितं कृतहासम्
चारस्य फलजं पानं गुरु वृष्यं रुचिप्रदम् ।कफपित्तहरं श्रेष्ठं हृद्यं मधुरपाकि
परुषजीरचुक्रादिद्राक्षादाडिमजं तथा ।एकैकं सम्भवं भिन्नं पानकं क्रियते बुधैः
एवमम्लस्य पुष्पस्य फलस्याम्लस्य वा तथा ।शर्करामरिचोन्मिश्रं रस्यं स्यात् पानकं वरम्
एवं हि पानकं कार्य्यं सुधिया सुष्ठु यत्कृतम् ।गुणा द्रव्यानुसारेण ज्ञातव्याः पानकेषु
”यथास्य गुणाः, --“श्रमक्षुत्तृट्क्लमहरं पानकं प्रीणनं गुरु ।विष्टम्भि मूत्रलं हृद्यं यथाद्रव्यगुणञ्च तत्
”इति वाभटे सूत्रस्थाने षष्ठेऽध्याये
“गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् ।तदेव खण्डमृद्वीकाशर्करासहितं पुनः
साम्लं सुतीक्ष्णं सुहिमं पानकं स्यान्निरत्ययम् ।“प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः ।खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत्
”इति सुश्रुते सूत्रस्थाने ४६ अध्याये