| YouTube Channel

पाद्यं (pAdyaM)

 
शब्दकल्पद्रुमः
Sanskrit
पाद्यं,
क्ली,
(पादार्थमुदकम् पाद + “पादार्घा-भ्याञ्च ।” २५ इति यत् ।) पादायवारि पादप्रक्षालनार्थजलम् इत्यमरः
तत्-लक्षणं यथा, --“पादावनेजनजलग्रहणं पात्रमद्भुतम् ।लौहजं वा सरोजातं हैमं राजतमेव वा
ताम्रमचरणमपि वायवेनं सतामिति
”इति वैखानसग्रन्थः
“षडङ्गुलं प्रविस्तारमुत्सेधञ्चतुरङ्गुलम् ।ओष्ठमेकाङ्गुलं कुर्य्यान्नासिकां चतुरङ्गुलाम्
पृष्ठे पादसमायुक्तं चतुरङ्गुलमानतः ।पाद्यपात्रमिति ख्यातं सर्व्वदेवप्रपूजने
”इति सिद्धान्तशेखरः