| YouTube Channel

पादोदकं (pAdodakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पादोदकं,
क्ली,
(पादप्रक्षालनजातं उदकम् ।शाकपार्थिवादिवत् समासः ।) चरणधौत-जलम् चरणामृतम् यथा, --“हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।पादोदकञ्च निर्म्माल्यं मस्तके यस्य सोऽच्युतः
नैवेद्यमन्नं तुलसीविमिश्रंविशेषतः पादजलं पिबेच्च ।योऽश्नाति नित्यं प्रयतो मुरारेःप्राप्नोति सुप्रेमयुतां भक्तिम्
हत्यां हन्ति यदङ्घ्रिसङ्गतुलसीस्तेयञ्च पादोदकंनैवेद्यं बहुमद्यपानदुरितं गुर्व्वङ्गनासङ्गमम् ।भक्त्याधीनमतिः स्थितिर्हरिजने तत्संगतिः सङ्गजाशालग्रामशिलादिमूर्त्तिमहितां जानन्ति के वैहरेः
”इति पाद्मोत्तरखण्डे १०० अध्यायः
*
अथ श्रीचरणोदकाभिषेकमाहात्म्यं पद्मपुराणे ।“स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।शालग्रामशिलातोयैर्योऽभिषेकं समाचरेत्
गङ्गागोदावरीरेवानद्यो मुक्तिप्रदास्तु याः ।निवसन्ति सतीर्थास्ताः शालग्रामशिलाजले
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।तीर्थं यदि भवेत् पुण्यं शालग्रामशिलोद्भवम्
”तत्रैव गौतमाम्बरीषसंवादे ।“येषां धौतानि गात्राणि हरेः पादोदकेन वै ।अम्बरीष ! कुले तेषां दासोऽस्मि वशगः सदा
राजन्नेतानि तावच्च तीर्थानि भुवनत्रये ।यावन्न प्राप्यते तोयं शालग्रामाभिषेकजम्
”स्कान्दे कार्त्तिकमाहात्म्ये ।“गृहेऽपि वसतस्तस्य गङ्गास्नानं दिने दिने ।शालग्रामशिलातोयैर्योऽभिषिञ्चति मानवः
”तत्रैवान्यत्र ।“यानि कानि तीर्थानि ब्रह्माद्या देवता-स्तथा ।विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीम्
शालग्रामोद्भवो देवो देवो द्वारवतीभवः ।उभयोः स्नानतोयेन ब्रह्महत्या निवर्त्तते
”किञ्च ।“स वै चावभृतस्नातः गङ्गाजलाप्लुतः ।विष्णुपादोदकं कृत्वा शङ्खेयः स्नाति मानवः
”श्रीनृसिंहपुराणे ।“गङ्गाप्रयागगयनैमिषपुष्कराणिपुण्यानि यानि कुरुजाङ्गलयामुनानि ।कालेन तीर्थसलिलानि पुनन्ति पापंपादोदकं भगवतः प्रपुनाति सद्यः
”स्मृतौ ।“त्रिरात्रिफलदा नद्यो याः काश्चिदसमुद्रगाः ।समुद्रगाश्च पक्षस्य मासस्य सरितां पतिः
षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी ।पादोदकं भगवतो द्बादशाब्दफलप्रदम्
”तन्नित्यता गरुडपुराणे ।“जलञ्च येषां तुलसीविमिश्रितंपादोदकं चक्रशिलासमुद्भवम् ।नित्यं त्रिसन्ध्यं प्लवते गात्रंखगेन्द्र ! ते धर्म्मबहिस्कृता नराः
”अथ श्रीचरणोदकपानमाहात्म्यम् पाद्मे गौत-माम्बरीषसंवादे ।“हरेः स्नानावशेषन्तु जलं यस्योदरे स्थितम् ।अम्बरीष ! प्रणम्योच्चैः पादपांशुः प्रगृह्यताम्
”तत्रैव देवदूतविकुण्डलसंवादे ।“ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।पञ्चगव्यसहस्रैस्तु सेवितैः किं प्रयोजनम्
कोटितीर्थसहस्रैस्तु सेवितैः किं प्रयोजनम् ।नित्यं यदि पिबेत् पुण्यं शालग्रामशिलाजलम्
शालग्रामशिलातोयं यः पिबेद्विन्दुना समम् ।मातुः स्तन्यं पुनर्नैव पिबेन्मुक्तिभाग्नरः
”किञ्च ।“दहन्ति नरकान् सर्व्वान् गर्भवासञ्च दारुणम् ।पीतं यैस्तु सदा नित्यं शालग्रामशिलाजलम्
”तत्रैव श्रीयमधूम्रकेतुसंवादे ।“शालग्रामशिलातोयं विन्दुमात्रं तु यः पिबेत् ।सर्व्वपापैः प्रमुच्येत मुक्तिमार्गे कृतोद्यमः
”तत्रैव पुलस्त्यभगीरथसंवादे ।“पादोदकस्य माहात्म्यं भगीरथ ! वदामि ते ।पावनं सर्व्वतीर्थेभ्यो हत्याकोटिविनाशनम्
धृते शिरसि पीते सर्व्वास्तुष्यन्ति देवताः ।प्रायश्चित्तन्तु पापानां कलौ पादोदकं हरेः
”किञ्च ।“त्रिभिः सारस्वतं तोयं सप्ताहेन तु नामदम् ।सद्यः पुनाति गाङ्गेयं दर्शनादेव यामुनम्
पुनन्त्येतानि तोयानि स्नानदर्शनकीर्त्तनैः ।पुनाति स्मरणादेव कलौ पादोदकं हरेः
अर्च्चितैः कोटिभिर्लिङ्गैर्नित्यं यत् क्रियते फलम् ।तत् फलं शतसाहस्रं पीतैः पादोदकैर्हरेः
अशुचिर्वा दुराचारो महापातकसंयुतः ।स्पृष्ट्वा पादोदकं विष्णोः सदा शुद्ध्यति मानवः
पापकोटियुतो यस्तु मृत्युकाले शिरे मुखे ।देहे पादोदकं यस्य प्रयाति यमालयम्
दानं हविर्येषां स्वाध्यायो सुरार्च्चनम् ।तेऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम्
विशाखाऋक्षसंयुक्ता वैशाखी किं करिष्यति ।पिण्डारके महातीर्थे उज्जयिन्यां भगीरथ !
माघमासे प्रयागे तु स्नानं वै किं करिष्यति ।प्रयागं सततं तस्य यस्य पादोदकं हरेः
कार्त्तिके कार्त्तिकीयोगे किं करिष्यति पुष्करे ।नित्यन्तु पुष्करं तस्य यस्य पादोदकं हरेः
प्रबोधवासरे प्राप्ते मथुरायाञ्च तस्य किम् ।नित्यञ्च यामुनं स्नानं यस्य पादोदकं हरेः
काश्यामुत्तरवाहिन्यां गङ्गायान्तु मृतस्य किम् ।यस्य पादोदकं विष्णोर्मुखे चैवावतिष्ठते
”किञ्च ।“हित्वा पादोदकं विष्णोर्योऽन्यतीर्थानि गच्छति ।अनर्घ्यरत्नमुत्सृज्य लोष्ट्रं वाञ्छति दुर्म्मतिः
कुरुक्षेत्रसमो देशो विन्दुपादोदकं मतः ।पतेद् यत्राक्षयं पुण्यं नित्यं भवति तद्गृहे
गयापिण्डसमं पुण्यं पुत्त्राणामपि जायते ।पादोदकेन देवस्य ये कुर्य्युः पितृतर्पणम्
नासुराणां भयं तस्य प्रेतजन्यं राक्षसम् ।न रोगस्य भयं चैव नास्ति विध्नकृतं भयम्
दुष्टा नैव घोराक्षाश्चापदोत्थभयं नहि ।ग्रहाः पीडां कुर्व्वन्ति वैरा नश्यन्ति दारुणाः
किं तस्य तीथगमने देवर्षीणाञ्च दर्शने ।यस्य पादोदकं मूर्द्ध्नि शालग्रामशिलोद्भवम्
प्रीतो भवति मार्त्तण्डः प्रीतो भवति केशवः ।ब्रह्मा भवति सुप्रीतः प्रीतो भवति शङ्करः
पादोदकस्य माहात्म्यं यः पठेत् केशवाग्रतः ।स याति परमं स्थानं यत्र देवो जनार्द्दनः
”ब्रह्माण्डपुराणे श्रीब्रह्मनारदसंवादे ।“प्रायश्चित्तं यदि प्राप्तं कृच्छ्रं वा त्वघमर्षणम् ।सोऽपि पादोदकं पीत्वा शुद्धिं प्राप्नोति तत्क्षणात्
अशौचं नैव विद्येत सूतके मृतकेऽपि ।येषां पादोदकं मूर्द्ध्नि प्राशनं ये प्रकुर्व्वते
अन्तकालेऽपि यस्येह दीयते पादयोर्जलम् ।सोऽपि सद्गतिमाप्नोति सदाचारैर्ब्बहिष्कृतः
अपेयं पिबते यस्तु भुङ्क्ते यश्चाप्यभोजनम् ।अगम्यागमना ये वै पापाचाराश्च ये नराः ।तेऽपि पूज्या भवन्त्याशु सद्यः पादाम्बुसेवनात्
”किञ्च ।“अपवित्रं यदन्नं स्यात् पानीयं चापि पापिनाम् ।भुक्त्वा पीत्वा विशुद्धः स्यात् पीत्वा पादोदकंहरेः
तप्तकृच्छ्रात् पञ्चगव्यात् महाकृच्छ्राद्विशिष्यते ।चान्द्रायणात् पादकृच्छ्रात् पराकादपि सुव्रत ।कायशुद्धिर्भवेदाशु पीत्वा पादोदकं हरेः
अगुरुं कुङ्कुमं चापि कर्पूरं चानुलेपनम् ।विष्णुपादाम्बुसंलग्नं तद्वै पावनपावनम्
दृष्टिपूतन्तु यत्तोयं विष्णुना प्रभविष्णुना ।तद्वै पापहरं पुत्त्र ! किं पुनः पादयोर्जलम्
एतदर्थमहं पुत्त्र ! शिरसा विष्णुतत्परः ।धारयामि पिबाम्यद्य माहात्म्यं विदितं मम
प्रियस्त्वमग्रजः पुत्त्र त्वदर्थं गदितं मया ।रहस्यं मे त्वनर्हस्य वक्तव्यं कदाचन
धारयस्व सदा मूर्द्ध्नि प्राशनं कुरु नित्यशः
जन्ममृत्युजरादुःखैर्मोक्षं यास्यसि पुत्त्रक !
”विष्णुधर्म्मोत्तरे ।“सद्यः फलप्रदं पुण्यं सर्व्वपापविनाशनम् ।सर्व्वमङ्गलमङ्गल्यं सर्व्वदुःखविनाशनम् ।दुःस्वप्ननाशनं पुण्यं विष्णुपादोदकं शुभम्
सर्व्वोपद्रवहन्तारं सर्व्वव्याधिविनाशनम् ।सर्व्वोत्पातप्रशमनं सर्व्वतापनिवारणम्
सर्व्वकल्याणसुखदं सर्व्वकामफलप्रदम् ।सर्व्वसिद्धिप्रदं धन्यं सर्व्वधर्म्मविवर्द्धनम्
सर्व्वशत्रुप्रशमनं सर्व्वभोगप्रदायकम् ।सर्व्वतीर्थस्य फलदं मूर्द्ध्नि पादाम्बुधारणम्
प्रयागस्य प्रभासस्य पुष्करस्य सेवने ।पृथूदकस्य तीर्थस्य आचान्तो लभते फलम्
चक्रतीर्थे फलं यादृक् तादृक् पादाम्बुधारणात्
सरस्वत्यां गयायाञ्च गत्वा यत् प्राप्नुयात् फलम् ।तत् फलं लभते श्रेष्ठं मूर्द्ध्नि पादाम्बुधारणात्
”स्कान्दे ।“पादोदकस्य माहात्म्यं देवो जानाति शङ्करः ।विष्णुपादच्युता गङ्गा शिरसा येन धारिता
स्थानं नैवास्ति पापस्य देहिनां देहमध्यतः ।सवाह्याभ्यन्तरं यस्य व्याप्तं पादोदकेन वै
पादोदं विष्णुनैवेद्यमुदरे यस्य तिष्ठति ।नाश्रयं लभते पापं स्वयमेव विनश्यति
महापापग्रहग्रस्तो व्याप्तो रोगशतैरपि ।हरेः पादोदकं पीत्वा मुच्यते नात्र संशयः
शिरसा तिष्ठते येषां नित्यं पादोदकं हरेः ।किं करिष्यन्ति ते लोके तीर्थकोटिमनोरथैः
अयमेव परो धर्म्म इदमेव परं तपः ।इदमेव परं तीर्थं विष्णुपादाम्बु यत् पिबेत्
”तत्रैव शिवोमासंवादे ।“विलयं यान्ति पापानि पीते पादोदके हरेः ।किं पुनर्विष्णुपादोदं शालग्रामशिलाप्लुतम्
विशेषेण हरेत् पापं ब्रह्महत्यादिकं प्रिये
पीते पादोदके विष्णोर्यदि प्राणैर्विमुच्यते ।हत्वा यमभटान् सर्व्वान् वैष्णवं लोकमाप्नुयात्
तत्रैव शिवकार्त्तिकेयसंवादे शालग्रामशिला-माहात्म्ये ।“छिन्नस्तेन महासेन गर्भवासः सुदारुणः ।पीतं येन सदा विष्णोः शालग्रामशिलाजलम्
ये पिबन्ति नरा नित्यं शालग्रामशिलाजलम् ।पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम्
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।चान्द्रायणैश्च तीर्थैश्च पीत्वा पादोदकं शुचिः
बृहन्नारदीये लुब्धकोपाख्यानारम्भे ।हरिपादोदकं यस्तु क्षणमात्रञ्च धारयेत् ।स स्नातः सर्व्वतीर्थेषु विष्णोः प्रियतरस्तथा
अकालमृत्युशमनं सर्व्वजाधिविनाशनम् ।सर्व्वदुःखोपशमनं हरिपादोदकं शुभम्
”तत्रैव तदुपाख्यानान्ते ।“हरिपादोदकस्पर्शाल्लुब्धको वीतकल्मषः ।दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत्
हरिपादोदकं यस्मान्मयि त्वं क्षिप्तवान् मुने ।प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम्
”हरिभक्तिसुधोदये ।“पादं पूर्व्वं किल स्पृष्ट्वा गङ्गाभूत् स्मर्त्तृमोक्षदा ।विष्णोः सद्यस्तु तत्सङ्गि पादाम्बु कथमीष्यते
तापत्रयानलो योऽसौ शाम्येत् सकलाब्धिभिः ।द्रुतं शाम्यति सोऽल्पेन श्रीमद्बिष्णुपदाम्बुना
अघास्त्राभेद्यकवचं भवाग्निस्तम्भनौषधम् ।सर्व्वाङ्गैः सर्व्वथा धार्य्यं पाद्यं शुचिसदः सदा
अमृतत्वावहं नित्यं विष्णुपादाम्बु यः पिबेत् ।स पिबत्यमृतं नित्यं मासे मासे तु देवताः
माहात्म्यमियदित्यस्य यो वक्ता सोऽपि निर्भयः ।न त्वनर्घ्यमणेर्मूल्यं कलयन्नघमश्नुते
”अन्यत्रापि ।“स ब्रह्मचारी व्रती आश्रमी सदा शुचिः ।विष्णुपादोदकं यस्य मुखे शिरसि विग्रहे
जन्मप्रभृतिपापानां प्रायश्चित्तं यदीच्छति ।शालग्रामशिलावारि पापहारि निषेव्यताम्
”अतएव तेजोद्रविणपञ्चरात्रे श्रीब्रह्मोक्तम् ।“पीठप्लणालादुदकं पृथगादाय पुत्त्रक ! ।सिञ्चयेन्मूर्द्ध्नि भक्तानां सर्व्वतीर्थमयं हि तत्
”इति ।“पादोदकस्य माहात्म्यं विख्यातं सर्व्वशास्त्रतः ।लेखितुं शक्नुयात् को हि सिन्धूर्मीन् गणयन्नपि
विशेषतश्च पादोदं तुलसीदलसंयुतम् ।शङ्खे कृत्वा वैष्णवेभ्यो दत्त्वा प्राग्वत् पिबेत्स्वयम्
”अथ शङ्खकृतपादोदकमाहात्म्यं स्कान्दे ब्रह्म-नारदसंवादे ।“कृत्वा पादोदकं शङ्खे वैष्णवानां महात्मनाम् ।यो दद्यात्तुलसीमिश्रं चान्द्रायणशतं लभेत्
गृहीत्वा कृष्णपादाम्बु शङ्खे कृत्वा तु वैष्णवः ।यो वहेत् शिरसा नित्यं मुनिस्तापसोत्तमः
”पाद्मे देवदूतविकुण्डलसंवादे ।“शालग्रामशिलातोयं यदि शङ्खभृतं पिबेत् ।हत्याकोटिविनाशं तु कुरुते नात्र संशयः
”अगस्त्यसंहितायाञ्च ।“शालग्रामशिलातोयं तुलसीदलवासितम् ।ये पिबन्ति पुनस्तेषां स्तन्यपानं विद्यते
श्रीविष्णोर्वैष्णवानाञ्च पावनञ्चरणोदकम् ।सर्व्वतीर्थमयं पीत्वा कुर्य्यादाचमनं हि
”तदुक्तं स्कान्दे श्रीशिवेन ।“विष्णोः पादोदकं पीत्वा पश्चादशुचिशङ्कया ।आचामति यो मोहाद्ब्रह्महा निगद्यते
”श्रुतिश्च “भगवान् पवित्रो भगवत्पादौ पवित्रौपादोदकं पवित्रं तत्पान आचमनीयं यथाहि सोम इति ।” सौपर्णे ।“विष्णुपादोदकं पीत्वा भक्तपादोदकं तथा ।य आचामति संमोहात् ब्रह्महा निगद्यते
”इति श्रीहरिभक्तिविलासः