पादुका (pAdukA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Benfey
EnglishApte Hindi
Hindiपादुका
- पद् + उकञ्+टाप्
"खड़ाऊँ, जूता"
Shabdartha Kaustubha
Kannadaपादुका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾದುಕೆ /ಚಪ್ಪಲಿ /ಪಾದರಕ್ಷೆ
पादुका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜನರು ಸಂಚರಿಸುವ ದೊಡ್ಡ ರಸ್ತೆಯಲ್ಲಿ ಒಳ್ಗೆ ಮುಳ್ಳು ಹಾಕಿ ಮರಳಿನಿಂದ ಮುಚ್ಚಲ್ಪಟ್ಟ ಹಳ್ಳ /ಗುಳಿ
निष्पत्तिः - > पद (गतौ) - "ऊः" (उ० १-७५) । स्वार्थे "कः" । ह्रस्वश्च (७-४-१३)
व्युत्पत्तिः - > पद्यते अनया
प्रयोगाः - > "इति निगदितवन्तं राघवस्तं जगाद व्रज भरत गृहीत्वा पादुके त्वं मदीये । च्युतनिखिलविशङ्कः पूज्यमानो जनोघैः सकलभुवनराज्यं कारयाऽस्मन्मतेन"
उल्लेखाः - > भट्टि० ३-५६
विस्तारः - > "पादुका कण्टकी गर्तः पांसुच्छन्नो महापथे" - वैज०
L R Vaidya
EnglishBopp
LatinSchmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit पादत्राणम्, पादपा, पादुका, पादू, वध्र्यः
चरणबन्धार्थे पट्टकयुक्ता चर्मनिर्मिता पादुका यस्याः परिधानेन अपि पार्ष्णिः अनावृता वर्तते।
"अधुना उभे अपि मम पादत्राणे छिन्ने स्तः।"
पादुका
देवतानां पदस्य चिह्नं यद् पूज्यते।
"अस्मिन् पूजागृहे अधिकानां देवतानां पादुकाः सन्ति।"
पादुका
काष्ठस्य कीलयुक्तं पादत्राणम्।
"महात्मा पादुके धृतवान्।"
पादत्राण, उपानत्, पादुका, पादूः, पापोश
चर्मादिनिर्मितपादकोषः।
"वर्षाकाले किमर्थं वस्त्रस्य पादत्राणं परिधास्यसि।"
Sanskrit Tibetan
Tibetanmchil lham
१) अपानत् २) पादुका
lham
१) उपानत् २) पादुका ३) पूल
अभिधानचिन्तामणिः
Sanskritउपानत्पादुका पादूः पन्नद्धा पादरक्षणम् ॥ ९१४ ॥
प्राणहितानुपदीना त्वाबद्धानुपदं हि या ।
उपानह् (स्त्री), पादुका (स्त्री), पादू (स्त्री), पन्नद्धृ (पुं), पादरक्षण (क्ली), प्राणहिता (स्त्री), अनुपदीना (स्त्री)
अभिधानरत्नमाला
Sanskritपादुका
पादुका, अनुपदीना, उपानह्, पादरक्षण
पादुकानुपदीना स्यादुपानत्पादरक्षणम् ॥ ३११ ॥
verse 2.1.1.311
page 0037
Tamil
Tamilபாது3கா : பாதக்குறடு.
अमरकोशः
SanskritWord: पादुका
Root: पादुका
Gender: स्त्री
Number: all
Meaning(s):
⇒ next
⇒ shoe, slipper
⇒ shoe or slipper
⇒ impression of the feet of a god or a holy person
Shloka(s):
2|10|30|1 ► भारयष्टिस्तदालम्बि शिक्यं काचोऽथ पादुका। (शूद्रवर्गः)
2|10|30|2 ► पादूरुपानत्स्त्री सैवानुपदीना पदायता॥ (शूद्रवर्गः)
Synonym(s):
➠ 2|10|30|1 ⇢ पादुका (पादुका) (स्त्री) ⇒ next, shoe, slipper, shoe or slipper, impression of the feet of a god or a holy person
➠ 2|10|30|2 ⇢ पादूः (पादू) (स्त्री)
➠ 2|10|30|2 ⇢ उपानत् (उपानह्) (स्त्री)
Related word(s):
उपाधि ➡ उपकरणम्
शब्दकल्पद्रुमः
Sanskritपादुका, (पादूरेव । पादू + स्वार्थे कन् ततोह्नस्वः ।) चर्म्मादिनिर्म्मितपादाच्छादनम् । जुताइति भाषा ॥
तत्पर्य्यायः । पादूः २ उपानत् ३ ।इत्यमरः ॥
पन्नद्धा ४ पादरक्षिका ५ प्राणि-हिता ६ । इति हेमचन्द्रः ॥
पन्नद्ध्री ७ पाद-रथी ८ । इति त्रिकाण्डशेषः ॥
कौषी ९ ।इति शब्दरत्नावली ॥
* ॥
तस्या धारणविधि-र्यथा, --“वर्षातपादिके छत्री दण्डी रात्र्यटवीषु च ।शरीरत्राणकामो वै सोपानत्कः सदा व्रजेत् ॥
”इति ज्योतिस्तत्त्वम् ॥
अस्या धारणगुणाः ।“पादप्रधारणं वृष्यमोजस्यं चक्षुषोर्हितम् ।सुखप्रचारमायुष्यं बल्यं पादरुजापहम् ॥
” * ॥
अस्या अधारणे दोषा यथा, --“पादाभ्यामनुपानद्भ्यां नृणां चंक्रमणं सदा ।अनारोग्यमनायुष्यमिन्द्रियघ्नमदृष्टिकृत् ॥
”इति राजवल्लभः ॥
* ॥
तस्या दानफलं यथा, --“दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।न तस्य मानसो दाहः कदाचिदपि जायते ॥
यानञ्चाश्वतरीयुक्तं तस्य हेममयं शुभम् ।उपतिष्ठति विप्रर्षे सर्व्वरत्नविभूषितम् ॥
दानमत्र यथोत्पन्नं तत्ते वक्ष्यामि पार्थिव ।शृणुष्वैकमना भूप ! लोके सर्व्वसुखप्रदम् ॥
जमदग्निर्मुनिः पूर्व्वं तपःस्वाध्यायकर्शितः ।वाणखड्गधरो धन्वी बभूव सततोद्यतः ॥
धनुर्वेदे तथा वेदे सर्व्वास्त्रपारगोऽभवत् ।क्षिपन् वाणांस्तथा शश्वत् भार्य्ययानुगतो हि सः ॥
कदा निदाघकाले तु क्षिपन् वाणान् सहस्रशः ।तस्यौ स्थाणुरिवासह्यः प्रतिलक्षं महामुनिः ॥
निदाघतीव्रसन्तापाद्गच्छन्त्याः सततं भयात् ।भर्त्तुः स्नेहात्तथा यान्त्यास्तस्याश्चण्डायते रविः ॥
क्षुत्तृष्णाश्रमतापार्त्ता तथा यातुं न साशकत् ।सुतापाद्देशविभ्रष्टा रेणुका च तपस्विनी ॥
तांदृष्ट्वा स मुनिः प्राह भार्य्यां किन्ते भवेच्चिरम् ।कोपार्त्तमाह भर्त्तारं न कोपं कर्त्तुमर्हसि ॥
निदाघतीव्रसन्तापाद् भ्रष्टपादा तृषार्द्दिता ।घृणिमदघृणिभिः स्पृष्टा न शशाकाह मार्गि-तुम् ॥
इत्युक्ते स क्रुधाविष्टः प्राह सन्धाय कार्मुके ।पृषत्कं मां न जानाति सूर्य्यो विभ्रंशमीयिवान् ॥
यः सन्तपति मे भार्य्यां साध्वीं धर्म्मपरायणाम् ।साध्वसाधु अजानन् वै फलमाप्नोतु तस्य हि ॥
इत्युक्त्रा स्थानमातस्थावर्कविभ्रंशहेतवे ।प्रतीक्ष्य हि सुघोरेण क्रूररूपधरो मुनिः ॥
तं विज्ञाय मुनिं सूर्य्यो द्विजोऽभूच्चेदमब्रवीत् ।किमालोकयसे सूर्य्यं पुनः पुनरतीव हि ॥
सुवाणाञ्चितपाणिस्त्वं कथयस्वाखिलं मुने ! ।इत्युक्तः स तमाहेदं पातयिष्याम्यहं रविम् ॥
द्विजस्तु तमुवाचाथ मुने चित्रं विभाति मे ।मातुरङ्कगतो यद्बद्बालश्चन्द्रं जिघृक्षति ॥
योजनानां सहस्राणि निमेषाद्याति यो दश ।विप्र ! मुक्तेन वाणेन तं कथं पातयिष्यसि ॥
तच्छुत्वा यमदग्निस्तं प्राह शृणु द्विजोत्तम ! ।पातयिष्याम्यहं यद्वदिमं सूर्य्यं नभःस्थलात् ॥
वियच्चरो यदा सूर्य्यो मर्त्यलोके त्वतन्द्रितः ।मध्याह्ने स्थिरतामेति सर्व्वलोकान्ददर्शिवान् ॥
तत्काले सुमहल्लक्ष्यं भविष्यति दिवाकरः ।एवं तं पातयिष्यामि पश्यतस्ते द्विजोत्तम ! ॥
तच्छ्रुत्वा सहसोद्विग्नस्तस्य प्रत्यक्षतां ययौ ।सूर्य्यस्तं क्षमयामास दत्त्वा छत्रमुपानहौ ॥
ततःप्रमृति तच्छत्रं द्विजानां परिगीयते ।दत्तं तैर्धार्य्यतेऽन्येषां क्षत्त्रियाणां द्बिजोत्तम ! ॥
यो ददाति द्विजेभ्यस्तु तृतीयायामुपानहौ ।वैशाखे शुक्लपक्षे तु सच्छत्रं कनकान्वितम् ॥
न तस्य मानषो दाहो मृत्युलोकेऽभिजायते ।सर्व्वव्याधिविनिर्मुक्तः श्रियं पुत्त्रांश्च विन्दति ॥
कालादिह यदा याति मम लोके द्विजोत्तम ! ।यानं वाश्वतरीयुक्तं सर्व्वहेममयं शुभम् ॥
दिव्याङ्गनाभिराकीर्णं सर्व्वरत्नविभूषितम् ।उपतिष्ठति विप्रेन्द्र ! सर्व्वकामफलप्रदम् ॥
”इत्यग्निपुराणम् ॥
* ॥
विष्णुगृहे सपादुकगमने दोषो यथा, --वराह उवाच ।“वहन्नुपानहौ पद्भ्यां यस्तु मामुपचाक्रमेत् ।चर्म्मकारस्तु जायेत वर्षाणान्तु त्रयोदश ॥
तत्र जन्मपरिभ्रष्टः शूकरो जायते पुनः ।शूकराच्च परिभ्रष्टः श्वा च तत्रैव जायते ॥
ततः श्वत्वात् परिभ्रष्टो मानुषश्चैव जायते ।मद्भक्तश्च विनीतश्च अपराधविवर्ज्जितः ॥
मुक्त्रा तु सर्व्वसंसारं मम लोकाय गच्छति ॥
य एतेन विधानेन वसुधे ! कर्म्म कारयेत् ।न स लिप्यति पापेन एवमेतन्न संशयः ॥
”इति वराहपुराणे उपानहापराधप्रायश्चित्तम् ॥
अथ देवतापादुकानिर्म्माणपूजनविधिः । यथा, --“मणिरत्नमयी कार्य्या हेमरूप्यमयी पि वा ।चन्दनेनापि कर्त्तव्या पादुकाप्रतिमापि वा ॥
श्रीपर्णा श्रीद्रुमा चापि देवदारुमयी पि वा ।षडङ्गुला च सा कार्य्या पादुके पूजयेत् सदा ॥
”इति देवीपुराणम् ॥
* ॥
गुरुपादुकास्तोत्रं यथा, --“ब्रह्मरन्ध्रसरसीरुहोदरेनित्यलग्नमवदातमद्भुतम् ।कुण्डलीविवरकाण्डमण्डितंद्वादशार्णसरसीरुहं भजे ॥
१ ॥
तस्य कन्दलितकर्णिकापुटेकॢप्तरेखमकथादिरेखया ।कोणलक्षितहलक्षमण्डली-भावलक्ष्यमबलालयं भजे ॥
२ ॥
तत्पुटे पटुतडित्कडारिम-स्पर्द्धमानमणिपाटलप्रभम् ।चिन्तयामि हृदि चिन्मयं वपु-बिन्दुनादमणिपीठमण्डलम् ॥
३ ॥
ऊर्द्ध्वमस्य हुतमुक्शिखासखंतद्विलासपरिबृंहणास्पदम् ।विश्वघस्मरमहोत्सदोत्कटंव्यामृषाठियुगमादिहंसयोः ॥
४ ॥
तत्र नाथचरणारविन्दयोःकुङ्कुमासवझरीमरन्दयोः ।द्वन्द्वमिन्दुमकरन्दशीतलंमानसं स्मरति मङ्गलास्पदम् ॥
५ ॥
पादुकापञ्चकस्तोत्रं पञ्चवक्त्राद्विनिर्गतम् ।षडाम्नायफलोपेतं प्रपञ्चे चातिदुर्लभम् ॥
”इति रुद्रयामलः ॥
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
