| YouTube Channel

पादशोथः (pAdazothaH)

 
Apte Hindi
Hindi
पादशोथः
पुं*
पादः-शोथः -
पैर की सूजन
शब्दकल्पद्रुमः
Sanskrit
पादशोथः,
पुं,
(पादोद्भवः शोथः शाकपार्थि-वादिवत् समासः ।) पादगतशोफः यथा, --“अनन्योपद्रवकृतः शोथः पादसमुत्थितः ।पुरुषं हन्ति नारीन्तु मुखजो गुह्यजो द्वयम्
”इति माधवकरः
(यथा हारीते चिकित्सितस्थाने २६ अः
“शोथो भवेच्च विकलेन्द्रियरोममार्गःक्षीणे बले वपुषि चाम्लकटूष्णसेवया ।शैत्यात्तथा विशदपिच्छलसेवनेनरूक्षाभिघातपतनेन धारणाद्वा
आमाशये गतिरतोऽपि नरस्य यस्यअन्ते प्रधावति ततोऽपि दोष एषः ।करोति पाणिचरणे पृथक् प्रसूतोद्वन्द्वेन वा भवति शोथविकारचारः
नरस्य चान्तःप्रभवाश्च शोथाःसाध्या भवेयुर्विनता मुखेषु ।असाध्यकाः सर्व्वशरीरगाश्चपादे स्त्रिया वा वदने नरस्य
”)