| YouTube Channel

पादग्रहणं (pAdagrahaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
पादग्रहणं,
क्ली,
(पादयोर्ग्रहणम् इति ग्रह +भावे ल्युट् ।) अभिवादनम् पादस्पर्शपूर्व्वक-प्रणामः इत्यमरः
तन्निषेधो यथा, “समि-द्वार्य्युदकुम्भपुष्पान्नहस्तो नाभिवादयेत् यच्चा-प्येवं युक्तम् ।” इति बौधायनः
“जपयज्ञजलस्थञ्च समित्पुष्पकुशानलान् ।दन्तकाष्ठञ्च भक्ष्यञ्च वहन्तं नाभिवादयेत्
”इति लघुहारीतः
पुष्पाक्षतपाणिर्नाशुचिर्न जपन् देवपितृ-कार्य्यं कुर्व्वन् अभिवादयेदित्यनुवृत्तौ शङ्ख-लिखितौ
*
तद्विधिः ।“लौकिकं वैदिकं वापि तथाध्यात्मिकमेव वा ।आददीत यतो ज्ञानं तं पूर्व्वमभिवादयेत्
ऊर्द्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते
*
तत्प्रकारः ।“अभिवादात् परं विप्रो ज्यायांसमभिवादयन् ।असौ नामाहमस्मीति स्वं नाम परिकीर्त्तयेत्
नामधेयस्य ये केचिदभिवादं जानते ।तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैवच
भोः शब्दं कीर्त्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।नाम्नां स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः
”इति मनुः १२२ -- १२४