| YouTube Channel

पात्रासादन (pAtrAsAdana)

 
Shabdartha Kaustubha
Kannada
पात्रासादन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಯಜ್ಜ ಪಾತ್ರೆಗಳನ್ನು ಯಾಗಕಾರ್ಯಕ್ಕಾಗಿ ದರ್ಭೆಯ ಮೇಲೆ ಕ್ರಮವಾಗಿ ಇಡುವುದು
वाचस्पत्यम्
Sanskrit
पात्रासादन
न०
त० यज्ञपात्राणां यथोक्तक्रमेण यज्ञ-निष्पादनाय स्थापने यज्ञपात्रासादनक्रमस्तु कात्या० श्रौ०२ सू० तद्भाष्ये उक्तो यथा“शूर्याग्निहोत्रहवणीस्प्यकपालं शस्थाकृष्णाजिनमुलू-खलमूषलं दृषदुपलमर्थवच्च” सू० “स्प्यकपालमित्येकव-द्भावादिदमेकं द्वन्द्वम् तेन बहुभिरपि कपालैरेकमेव पात्र-मिति द्रष्टव्यम् कपालानि भिन्नस्य घटादेर्ग्राह्याणिअभिन्नान्यपि रौहिणकपालवत् निर्मितानि भवन्तीत्येकेइति धूर्त्तस्वामिनः शूर्पं नडतृणमयमिषीकानिर्मितंवेणुदलनिर्मितं वा भवति अर्थवच्च येन येन पात्रे-णात्र प्रयोजनं तेषां सर्वेषामुपयोगक्रमेणासादनम् ।तथा कात्यायनः “प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समी-पतः तत्तथा सादयेद्द्रव्यं यद्यथा विनियुज्यते” इतितच्चैवम् “अनो वा पात्री वा व्रीहयो यवा वा ततश्चैवम्अनोव्रीहयश्चानोयवाश्च पात्रीव्रीहया पात्रीयवा-श्चेति वा पवित्रच्छेदनानि पवित्रे उपवेषः संयवना-र्थमुदकं आज्यस्थाली आज्यं अमावस्यायां दोहनचतुष्टयम्, वेदार्थः कुशमुष्टिः, दक्षिणार्था अन्वाहार्य्यतण्डुलाश्च दर्मतणमभ्रिश्च इध्मो बर्हिश्च स्रुवो जुहूश्चउपभृद्ध्रुवा प्राशित्रहरणे शृतावदानं द्वे पुरो-डाशपात्र्यौ इति” कर्कादयः तदयुक्तमिति केचित् ।स्वसूत्रशाखान्तरसूत्रेषु सादनप्रतापनोपस्तरणादिष्वे-कखा एव दर्शनात् यच्चेडापात्रीपिष्टपात्र्योरभेद-माहुस्तदपि अयुक्तम् शाखान्तरसूत्रेषु तयोर्भेददर्शनात्तथा तैत्तिरीयसूत्रम् “प्राशित्रहरणं चेडापात्रं चमेक्षणं पिष्टपात्री चेति” विकृतौ चातुर्मास्यादौ यत्रचर्वादिभिर्व्यवहिताः पुरोडाशाः तत्र भवतु पुरोडाश-पात्रीभेदः याक्त्रा यूनकुशाश्च परिधयः कुशास्तीर्णंहोतृषदनं इडापात्री षडबत्तं अन्तर्धानकटःपूर्णपात्रं पक्षे कर्मापवर्गा समिदप्यासाद्यते परिधी-नामपि प्रथगासादनमष्टादशकाष्टकेध्मपक्षे एकबिंशति-काष्ठकेध्मपक्षे तस्मादेवेध्मात् त्रीणि काष्ठान्यादाय विक-ल्पेन परिधिपरिधानविधानात् एवमत्र पात्राणा-मुपादानक्रमेणासादनमुक्तम् यस्य यस्य पात्रस्य येनक्रमेण तस्यासादनम् एवं सुतरां दृष्टार्थता भवतिलाघवं बिनियोगक्रमेणासादने तथा स्यात्हविर्ग्रहणे पात्र्याः हविर्द्रव्यस्य देशविप्रकर्षात् आज्यनिर्वापे स्थाल्याज्यस्य तस्मादुपादानक्रम एव पितृ-भूतियाज्ञिकसम्मतः पात्रासादने युक्तः कर्काचार्य्यास्तुविनियोगक्रमेणासादनमाहुः” सूत्रे अर्थवच्चेत्युक्ते-र्यथा यथा यत्र यत्र यस्य यस्योपयोगस्तस्य तस्य तत्रतत्रासादनम् तत्स्थानप्रकारौ तदुत्तरत्र सूत्रेषु दृश्यौ