| YouTube Channel

पात्रं (pAtraM)

 
Apte 1890
English
पात्रं [पाति रक्षत्याधेयं, पिबत्यनेन वा पाष्ट्रन् Tv.] 1 A drinking-vessel, cup, jar.
2 A vessel or pot in general
पात्रे निधायार्ध्यं R. 5. 2, 12
any sacrificial vessel or utensil.
3 A receptacle of any kind, recipient
Pt. 2. 97.
4 A reservoir.
5 A fit or worthy person, a person fit or worthy to receive gifts
वित्तस्य पात्रं व्ययः Bh. 2. 82
Bg. 17. 22
Y. 1. 201
R. 11. 86.
6 An actor, a dramatis persona
तत्प्रतिपात्रमाधीयतां यत्नः Ś. 1
उच्यतां पात्रवर्गः V. 1. dramatis personae.
7 A king's minister.
8 The channel or bed of a river.
9 Fitness, propriety.
10 An order. command.
11 A leaf.
त्रः 1 A kind of measure (अढक).
2 A preservative from sin.
त्री 1 A vessel, plate, dish
2 A small furnace.
3 N. of Durgā. COMP.
पालः {1} a large paddle used as a rudder. {2} the rod of a balance (तृलाघट).
भृत् m. a servant.
संस्कारः {1} the cleaning or purification of a vessel. {2} the current of a river.
शब्दकल्पद्रुमः
Sanskrit
पात्रं,
क्ली,
पाति रक्षति क्रियामाधेयं वा पिब-न्त्यनेनेति वा पा रक्षणे पा पाने वा + “सर्व्व-धातुभ्यः ष्ट्रन् ।” उणां १५८ इति ष्ट्रन् ।)आधेयधारणवस्तु तत्पर्य्यायः अमत्रम् २भाजनम् इत्यमरः ३३
भाण्डम् ४कोशः कोषः पात्री कोशी कोषी ९कोशिका १० कोषिका ११ इति शब्दरत्ना-वली
(यथा, देवीभागवते ४० ।“सकलगुणगणानामेकपात्रं पवित्र-मखिलभुवनमातुर्नाट्यवद्यद्विचित्रम्
”)योग्यम् स्रुवादि राजमन्त्री तीरद्वयान्त-रम् इति मेदिनी
पातार इति भाषा
पर्णम् नाट्यानुकर्त्ता इति हेमचन्द्रः
आढकपरिमाणम् इति वैद्यकपरिभाषा
*
(यथा, चरके कल्पस्थाने १२ अध्याये ।“ -- चतुः प्रस्थमथाढकम् ।पात्रं तदेव विज्ञेयं --
”)पात्राणां विधिर्यथा, --“हेमपात्रेण सर्व्वाणि लभते चेति तान्मुने ! ।अर्घ्यं दत्त्वा तु रौप्येण आयूराज्यसुतान् लभेत्
ताम्रपात्रेण सौभाग्यं धर्म्मं मृण्मयसम्भवैः ।वार्क्षपात्राणि रम्याणि नैष्ठिकादिषु कारयेत्
शैलानि क्रूरजातीनां रक्तानि सर्व्वकामिनाम् ।धातूत्तमानि पात्राणि नृपराष्ट्रविवृद्धये
त्रपुसीसकलौहानि अन्त्यजादिषु कारयेत् ।विवाहयज्ञश्राद्धेषु प्रतिष्ठासु विशेषतः
पात्राणाञ्चाद्वरः कार्य्यः पात्राण्येवोत्तमानि ।पात्रेषु पृथिवी दुग्धा सुधा पात्रेषु धार्य्यते
देवाः सोमः क्रतुर्यज्ञः पात्राण्येवं विदुर्बधाः ।बलिहोमक्रियादीनि विना पात्रैर्न सिध्यति
तस्माद्यज्ञाङ्गमेवातः पात्रञ्चाग्र्यं महामुने !
”तत्परिमाणादिर्यथा, --“षट्त्रिंशदङ्गुलं पात्रञ्चोत्तमं परिकीर्त्तितम् ।मध्यमं तत्त्रिभागेण भागं कन्यसमीरितम्
वस्वङ्गुलप्रमाणन्तु तत् पात्रं कारयेत् क्वचित् ।नानाविचित्ररूपाणि पौण्डरीकाकृतीनि
शङ्खनीलोत्पलाकारपात्राणि परिकल्पयेत् ।रत्नादिरचितान् कुर्य्यात् काञ्चीमूलसुसञ्चितान्
यथाशोभं यथालाभं तथा पात्राणि कारयेत् ।विना पात्रेण यः कुर्य्यात् प्रतिष्ठायाज्ञिकींक्रियाम् ।विफला भवते सर्व्वा वाहनादिधनापहा
”इति देवीपुराणम्
*
भोजनपात्राणि भोजनशब्दे द्रष्टव्यानि