पातालं (pAtAlaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishपातालं [पतत्यस्मिन्नधर्मेण पत्-आलञ्
cf. Uṇ. 1. 114] 1 The last of the seven regions or worlds under the earth, said to be peopled by Nāgas
the seven regions are:
अतल. वितल, सुतल, रसातल, तलातल, महातल, and पाताल.
2 The lower regions or world in general
R. 15. 84
1. 80.
3 An excavation, a hole.
4 Submarine fire.
5 (In astrol.) The fourth house or sign from that in which the sun is present.
लः 1 A kind of instrument for distillation or the calcination and sublimation of metals.
2 N. of Jupiter's year (of 361 days).
Comp.
गंगा the Ganges of the lower world.
ओकस् m.,
निलयः,
निवासः,
वास्नि m. {1} a demon. {2} a Nāga or a serpent-demon.
शब्दकल्पद्रुमः
Sanskritपातालं, (पतन्त्यस्मिन् दुष्क्रियावन्त इति ।पत + “पतिचण्डिभ्यामालञ् ।” उणां । १ ।११६ । इति आलञ् । पादस्य तले वर्त्ततेइति पृषोदरात् साधुरित्येके ।) विवरम् ।वडवानलः । इति मेदिनी ॥
लग्नाच्चतुर्थस्थानम् ।यथा, --“पातालं हिवुकञ्चैव सुहृदम्भश्चतुथकम् ॥
”इति ज्योतिस्तत्त्वम् ॥
स्वनामख्यातभुवनविशेषः । तत्पर्य्यायः । अधो-भुवनम् २ बलिसद्म ३ रसातलम् ४ नागलोकः५ । इत्यमरः ॥
अधः ६ उरगस्थानम् ७ ॥
* ॥
सप्तपातालानि यथा, --“अतलं नितलञ्चैव वितलञ्च गभास्तमत् ।तलं सुतलपाताले पातालानि तु सप्त वै ॥
”इति शब्दरत्नावली ॥
शेष उवाच ।“कथयामि महाभाग ! पातालस्य विनिर्णयम् ।क्रमादेव निबोधैतत् सावधानो द्विजर्षभ ! ॥
पातालानि च सप्तैव मुनयः संप्रचक्षते ।अतलं वितलञ्चैव सुतलञ्च तलातलम् ॥
महातलञ्च विख्यातं ततो ज्ञेयं रसातलम् ।ततः पातालमित्येवं सप्त पातालसंज्ञकाः ॥
एते स्वर्गाधिकसुखा विलस्वर्गाः प्रकीर्त्तिताः ।समृद्धभवनोद्यानविहाराक्रीडचत्वराः ॥
या च सा मेदिनी ब्रह्मन् ! धत्ते स्थावरजङ्गमान् ।अधस्तस्या यदतलं योजनायुततो द्विज ! ॥
मयपुत्त्रो महामायो वसत्यत्र महासुरः ।येन सृष्टाः पुरा माया षडूर्द्ध्वनवतिः किल ॥
१ ॥
तदधो वितलं नाम योजनानां ततोऽयुते ।हरो विहरते तत्र भगवान् हाटकेश्वरः ॥
सुपार्श्वदैर्भूतगणैर्भवान्या च सह प्रभुः ।प्रवृत्ता च सरित् तत्र हाटकी नाम विस्तृता ॥
२ ॥
अधः सुतलमित्येतत् योजनानां ततोऽयुते ।तत्रोदारश्रवाः पुण्यश्लोको वैरोचनिर्ब्बलिः ॥
३ ॥
तलातलं ततोऽधस्तात् सुतलाद्योजनायुते ।मयो नाम दानवेन्द्रस्त्रिपुराधिपतिर्म्महान् ।निवसत्यत्र सुचिरं मायानां परमाश्रयः ॥
४ ॥
महातले ततोऽधस्ताद्योजनानामथायुते ।सर्पाणां काद्रवेयाणां गणः क्रोधवशाह्वयः ॥
गरुडात् सर्व्वदा भीतः सकुटुम्बः सुहृद्वृतः ।निवसत्यनभिज्ञातः पक्षिराजेन गह्वरे ॥
५ ॥
रसातले ततोऽधस्ताद्योजनानामथायुते ।निवसन्ति दानवाश्च शक्राद्भीता निरन्तरम् ॥
६ ॥
पाताले तु ततोऽधस्ताद्योजनानां द्विजायुते ।नागलोकेश्वराः शूरा निवसन्ति महाबलाः ॥
” ७इति पाद्मे पातालखण्डे १ । २ । ३ अध्यायाः ॥
*अपि च अग्निपुराणे ।“अतलं सुतलञ्चैव वितलञ्च गभस्तिमत् ।महातलं रसातलं पातालं सप्तमं स्मृतम् ॥
रुक्मभौमं शिलाभौमं पातालं नीलमृत्तिकम् ।रक्तपीतश्वेतकृष्णभौमानि च भवन्त्यपि ॥
पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् ।शुषिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश ॥
अष्टाविंशतिविख्यातास्ततो नरककोटयः ।नरकाणामधस्तात्तु धूमः कालाग्निसम्भवः ॥
तस्याधस्तादनन्ताख्यो रुद्रः सर्व्वमयो महान् ।तदधो धर्म्मचक्रन्तु येनेदं धार्य्यते जगत् ॥
” * ॥
अन्यच्च ।“दशसाहस्रमेकैकं पातालं मुनिसत्तम् ! ।अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ॥
महाख्यं सुतलञ्चाग्र्यां पातालञ्चापि सप्तमम् ।कृष्णाशुक्लारुणापीताशर्कराशैलकाञ्चनाः ॥
भूमयो यत्र मैत्रेय ! वरप्रासादशोभिताः ।तेषु दानवदैतेयजातयः शतसंघशः ॥
निवसन्ति महाभागा अहयश्च महामुने ! ।स्वर्लोकादपि रम्याणि पातालानीति नारद ! ॥
दिवार्करश्मयो यत्र प्रभां तन्वन्ति नातपम् ।शशिनश्च न शीताय निशि द्योताय केवलम् ॥
पातालानामधश्चास्ते विष्णोर्या तामसी तनुः ।शेषाख्यायद्गुणान् वक्तुं न शक्ता दैत्यदानवाः ॥
योऽनन्तः पठ्यते सिद्धैर्द्देवदेवर्षिपूजितः ।यस्यैषा सकला पृथ्वी फणामणिशिखारुणा ।आस्ते कुसुममालेव कस्तद्वीर्य्यं वदिष्यति ॥
यदा विजृम्भतेऽनन्तो मदाघूर्णितलोचनः ।तदा चलति भूरेषा साद्रितोयाब्धिकानना ॥
”इति विष्णुपुराणे । २ । ५ । अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
