| YouTube Channel

पातञ्जलं (pAtaJjalaM)

 
शब्दकल्पद्रुमः
Sanskrit
पातञ्जलं,
क्ली,
(पतञ्जलिना स्वनामविश्रुतमह-र्षिणा प्रणीतं प्रोक्तं वा इति अण् ।) पतञ्जलि-मुनिप्रणीतपादचतुष्ठयात्मकयोगकाण्डनिरूपक-दर्शनशास्त्रविशेषः
तत्र प्रथमे पादे अथयोगानुशासनमिति योगशास्त्रारम्भे प्रतिज्ञांविधाय योगश्चित्तवृत्तिनिरोध इत्यादिना योग-लक्षणमभिधाय समाधिं सप्रपञ्चं निरदिक्षद्भग-वान् पतञ्जलिः
द्बितीये तपःस्वाध्याये-श्वरप्रणिधानानि क्रियायोग इत्यादिना व्युत्थित-चित्तस्य क्रियायोगं यमादीनि पञ्च बहिरङ्गानिसाधनानि
तृतीये देशबन्धश्चित्तस्य धार-णेत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्गंसंयमपदवाच्यं तत्रावान्तरफलं विभूतिजातम्
चतुर्थे जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयइत्यादिना सिद्धिप्रपञ्चनपुरःसरं परमं प्रयो-जनं कैवल्यम्
प्रधानादीनि पञ्चविंशति-तत्त्वानि साङ्ख्योक्तान्येवात्रापि षड्विंशस्तुपरमेश्वरोऽधिकः इति सर्व्वदशनसंग्रहः