| YouTube Channel

पातकं (pAtakaM)

 
Hindi
Hindi
पापी प्रतिक्रियाओं
शब्दकल्पद्रुमः
Sanskrit
पातकं,
क्ली,
(पातयति अधो गमयति दुष्क्रियाकारिणमिति पत + णिच् + ण्वुल् ।) नरक-साधनमिति यावत् तत्पर्य्यायः अशुभम्२ दुष्कृतम् दुरितम् पापम् एनः ६पाप्मा किल्विषम् कलुषम् किण्वम् १०कल्मषम् ११ वृजिनम् १२ तमः १३ अंहः १४कल्कम् १५ अघम् १६ पङ्कम् १७ इति हेम-चन्द्रः
तत्तु नवविधं यथा अतिपातकम् १महापातकम् अनुपातकम् उपपातकम् ४सङ्करीकरणम् अपात्रीकरणम् जातिभ्रंश-करम् मलावहम् प्रकीर्णकम् इतिप्रायश्चित्तविवेकः
एषां विवरणं तत्तच्छब्देद्रष्टव्यम्
कायवाङ्मनःकृतानि दशविधपापानियथा, --“अदत्तानामुपादानं हिंसा चैवाविधानतः ।परदारोपसेवा कायिकं त्रिविधं स्मृतम्
पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम्
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् ।वितथाभिनिवेशश्च त्रिविधं कर्म्म मानसम्
”इति तिथ्यादितत्त्वम्