| YouTube Channel

पाण्डवः (pANDavaH)

 
Apte
English
पाण्डवः [pāṇḍavḥ], [पाण्डोरपत्यं पुमान् ओरञ्] 'A son or descendant of Pāṇḍu',
N.
of any one of the five sons of Pāṇḍu
i. e. युधिष्ठिर, भीम, अर्जुन, नकुल and सहदेव
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय
Bg.*
1.1
हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः
Mk.*
5.6.
Comp.
-आभीलः
N.
of Kṛiṣṇa. -श्रेष्ठः
N.
of Yudhiṣṭhira.
Hindi
Hindi
अर्जुन (पांडु के पुत्र)
Wordnet
Sanskrit
Synonyms:
पञ्च, पाण्डवः, शिवास्यम्, इन्द्रियम्, स्वर्गः, व्रताग्निः, महापापम्, महाभूतम्, महाकाव्यम्, महामखः, पुराणलक्षणम्, अङ्गम्, प्राणाः, वर्गः, इन्द्रियार्थः, बाणः
noun
एकाधिकं चत्वारि।
"पञ्चाधिकं पञ्च आहत्य दश भवन्ति।"
Synonyms:
पाण्डवः, पाण्डुनन्दनः
noun
राज्ञः पण्डोः पञ्च पुत्राः।
"महाभारतस्य युद्धे पाण्डवाः विजयश्रीं प्राप्तवन्तः।"
Synonyms:
पाण्डवः
noun
एकः देशः
"पाण्डवस्य उल्लेखः कोशे वर्तते"
Synonyms:
पाण्डवः
noun
एकः पर्वतः
"पाण्डवस्य उल्लेखः ललितविस्तरे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
पाण्डवः,
पुं,
(पाण्डोस्तदाख्यया प्रसिद्धस्य राज्ञो-ऽपत्यम् पाण्डु + “ओरञ् ।” ७१ ।इत्यञ् ।) पाण्डुनन्दनः पञ्चपाण्डवोत्पत्ति-र्यथा, --वैशम्पायन उवाच ।“संवत्सरधृते गर्भे गान्धार्य्या जनमेजय ! ।आह्वयामास वै कुन्ती गर्भार्थे धर्म्ममच्युतम्
सा बलिं त्वरिता देवी धर्म्मायोपजहार ।जजाप मन्त्रं विधिवद्दत्तं दुर्व्वाससा पुरा
संगम्य सा तु धर्म्मेण योगमूर्त्तिधरेण ।लेभे पुत्त्रं वरारोहा सर्व्वप्राणिहितं वरम्
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्त्तेऽभिजितेऽष्टमे ।दिवामध्यगते सूर्य्ये तिथौ पुण्येऽभिपूजिते
समृद्धयशसं कुन्ती सुषाव प्रवरं सुतम् ।जातमात्रे सुते तस्मिन् वागुवाचाशरीरिणी
एष धर्म्मभृतां श्रेष्ठो भविष्यति नरोत्तमः ।विक्रान्तः सत्यवाक् चैव राजा पृथ्व्यां भविष्यति
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ।भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः ।यशसा तेजसा चैव वृत्तेन समन्वितः
*
धार्म्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् ।प्राहुः क्षात्त्रं बलं ज्येष्ठं बलज्येष्ठं सुतं वृणु
ततस्तथोक्ता भर्त्त्रा तु वायुमेवाजुहाव सा ।तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः
तमप्यतिबलं जातं वागुवाचाशरीरिणी ।सर्व्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत !
इदमत्यद्भुतञ्चासीज्जातमात्रे वृकोदरे ।यदङ्कात् पतितो मातुः शिलां गात्रैरचूर्णयत्
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल ।नान्वबुध्यत तं सुप्तमुत्सङ्गे स्वे वृकोदरम्
वज्रसंहननः सोऽथ कुमारो न्यपतद्द्गिरौ ।पतता तेन शतधा शिला गात्रैर्विचूर्णिता
तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागतः ।यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम !
दुर्य्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप !
*
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् ।कथन्नु मे वरः पुत्त्रो लोकश्रेष्ठो भवेदिति
दैवे पुरुषकारे लोकोऽयं संप्रतिष्ठितः ।तत्र दैवन्तु विधिना कालयुक्तेन लभ्यते
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् ।अप्रमेयबलोत्साहो वीर्य्यवानमितद्युतिः
तं तोषयित्वा तपसा पुत्त्रं लप्स्ये महाबलम् ।यं दास्यति मे पुत्त्रं गरीयान् भविष्यति
कर्म्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ।ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः
दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ।आत्मना महाबाहुरेकपादस्थितोऽभवत्
उग्रं तप आतस्थे परमेण समाधिना ।आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम्
सूर्य्येण सह धर्म्मात्मा पर्य्यवर्त्तत भारत ! ।तन्तु कालेन महता वासवः प्रत्यपद्यत
शक्र उवाच ।पुत्त्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ।ब्राह्मणानां गवाञ्चैव सुहृदाञ्चार्थसाधकम्
दुर्हृदां शोकजननं सर्व्वबान्धवनन्दनम् ।सुतं तेऽग्र्यं प्रदास्यामि सर्व्वामित्रविनाशनम्
इत्युक्तः कौरवो राजा वासवेन महात्मना ।उवाच कुन्तीं धर्म्मात्मा देवराजवचः स्मरन्
उदर्कस्तव कल्याणि तुष्टो देवगणेश्वरः ।दातुमिच्छति मे पुत्त्रं यथासङ्कल्पितं हृदा
अतिमानुषकर्म्माणं यशस्विनमरिन्दमम् ।नीतिमन्तं महात्मानमादित्यसमतेजसम्
दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ।पुत्त्रं जनय सुश्रोणि ! धाम क्षत्त्रियतेजसाम्
लब्धः प्रसादो देवेन्द्रात् तमाह्वय शुभानने !
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी ।अथाजगाम देवेन्द्रो जनयामास चार्ज्जुनम्
जातमात्रे कुमारे तु वागुवाचाशरीरिणी ।महागम्भीरनिर्घोषा नभो नादयती तदा
शृण्वतां सर्व्वभूतानां तेषाञ्चाश्रमवासिनाम् ।कुन्तीमाभाष्य विस्पष्टमुवाचेदं शुचिस्मिताम्
कार्त्तवीर्य्यसमः कुन्ति ! शिवितुल्यपराक्रमः ।एष शक्र इवाजेयो यशस्ते प्रथयिष्यति
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्द्धिता ।तथा विष्णुसमः प्रीतिम्बर्द्धयिष्यति ते सुतः
एष मद्रान् वशे कृत्वा कुरूंश्च सह सोमकैः ।चेदिकाशिकरूषांश्च कुरुलक्ष्मीं वहिष्यति
एतस्य भुजवीर्य्येण खाण्डवे हव्यवाहनः ।मेदसा सर्व्वभूतानां तृप्तिं यास्यति वै पराम्
ग्रामणीश्च महीपालान् एष जित्वा महाबलः ।भ्रातृभिः सहितो वीरस्त्रीन् मेधानाहरिष्यति
जामदग्न्यसमः कुन्ति ! वायुवेगपराक्रमः ।एष वीर्य्यवतां श्रेष्ठो भविष्यति महायशाः
तथा दिव्यानि चास्त्राणि निखिलेनाहरिष्यति ।विप्रनष्टां श्रियञ्चायमाहर्त्ता पुरुषर्षभः
एतामत्यद्भुतां वाचं कुन्ती शुश्राव भारत ! ।वाचमुच्चरितामुच्चैस्तां निशम्य तपस्विनाम्
बभूय परमो हर्षः शतगृङ्गनिवासिनाम् ।तथा देवरथानाञ्च सेन्द्राणाञ्च दिवौकसाम् ।आकाशे दुन्दमोनाञ्च बभूव तुमुलः स्वनः ।उदतिष्टन्महाघोषः पुष्पवृष्टिभिरावृतः
*
वैशम्पायन उवाच ।“कन्तीपुत्त्रषु जातेषु धृतराष्ट्रात्मजेषु ।महराजसता पाण्डुं रहो वचनमब्रवीत्
मेऽस्ति त्वयि मन्तापो विगुणेऽपि परन्तप ।नावरत्वे वरार्हायाः स्थित्वा चानघ ! नित्यदा
गान्धार्य्याश्चैव नृपते ! जातं पुत्त्रशतन्तथा ।श्रुत्वा मे तथा दुःखमभवत् कुरुनन्दन !
इदन्तु मे महद्दुःखं तुल्यतायामपुत्त्रता ।दिष्ट्या त्विदानीं भर्त्तुर्मे कुन्त्यामप्यस्ति सन्ततिः
यदि चापत्यसन्धानं कुन्तिराजसुता मयि ।कुर्य्यादनुग्रहो मे स्यात्तव चापि हितं भवेत्
संस्तम्भो मे सपत्नीत्वात् वक्तुं कुन्तिसुतां प्रति ।यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय
पाण्डुरुवाच ।ममाप्येष सदा माद्रि ! हृद्यर्थः परिवर्त्तते ।न तु तां प्रसहे वक्तुमिष्टानिष्टविवक्षया
तव त्विदं मतं मत्वा प्रयतिष्याम्यतःपरम् ।मन्ये ध्रुवं मयोक्ता सा वचनं प्रतिपत्स्यते
वैशम्पायन उवाच ।ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् ।कुलस्य मम सन्तानं लोकस्य कुरु प्रियम्
मम चापिण्डनाशाय पूर्व्वेषामपि चात्मनः ।मत्प्रियार्थञ्च कल्याणि ! कुरु कल्याणमुत्तमम् ।यशसेऽर्थाय चैव त्वं कुरु कर्म्म सुदुष्करम्
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् ।तस्मात्ते भवितापत्यमनुरूपमसंशयम्
ततो माद्री विचार्य्यैवं जगाम मनसाश्विनौ ।तावागम्य सुतौ तस्यां जनयामासतुर्यमौ
नकुलं सहदेवञ्च रूपेणाप्रतिमौ भुवि ।तथैव तावपि यमौ वागुवाचाशरीरिणी
रूपसत्त्वगुणोपेतावेतावत्यश्विनावपि ।भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः ।भक्त्या कर्म्मणा चैव तथाशीर्भिर्विशाम्पते
ज्येष्ठं युधिष्ठिरेत्येवं भीमसेनेति मध्यमम् ।अर्ज्जुनेति तृतीयञ्च कुन्तीपुत्त्रानकल्पयन्
पूर्व्वजं नकुलेत्येवं सहदेवेति चापरम् ।माद्रीपुत्त्रावकथयंस्ते विप्राः प्रीतमानसाः
”इति महाभारते १२३ -- १२४
तेषां पुत्त्रा यथा, --“प्रतिबिन्ध्यः सुतः सोमः श्रुतकीर्त्तिस्तु चार्ज्जुनात् ।शतानीकः श्रुतकर्म्मा द्रौपद्याः पञ्च विक्रमात्
”तेषां भार्य्या यथा, गारुडे १३९ अध्याये ।“यौधेयी हिडिम्बा काशी चैव सुभद्रिका ।विजया वै वेणुमती पञ्चभ्यस्तु सुताः क्रमात्
देवको घटोत्कचश्च अभिमन्युश्च सर्व्वशः ।अहोत्रो निरपत्रश्च परिक्षिदभिमन्युजः