| YouTube Channel

पाण्डरः (pANDaraH)

 
Wordnet
Sanskrit
Synonyms:
पाण्डरः
noun
पौराणिकः गजविशेषः।
"पाण्डरस्य वर्णनं महाभारते प्राप्यते।"
Synonyms:
कुटजः, शक्रः, वत्सकः, गिरिमल्लिका, कौटजः, वृक्षकः, शक्रपर्यायः, काही, कालिङ्गः, मल्लिकापुष्पः, प्रावृष्यः, शत्रुपादपः, वरतिक्तः, यवफलः, सङ्ग्राही, पाण्डुरद्रुमः, प्रावृषेण्यः, महागन्धः, पाण्डरः
noun
वन्यवृक्षः।
"अस्मिन् वने कुटजस्य आधिक्यं वर्तते।"
Synonyms:
पाण्डरः
noun
एकः पर्वतः
"पाण्डरस्य उल्लेखः मार्कण्डेयपुराणे वर्तते"
शब्दकल्पद्रुमः
Sanskrit
पाण्डरः,
पुं,
(पाण्डरः शुक्लवर्णोऽस्त्यस्येति अच् ।)मरुवकवृक्षः (पडि + अर + दीर्घश्च ।)श्वेतवर्णः (पर्व्वतविशेषः तु मेरोः पश्चिमेवर्त्तते यथा, मार्कण्डेये ५५ १० ।“अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चाचलोत्तमः
”“पश्चिमेन तथा मेरोर्विस्कम्भात् पश्चिमाद्बहिः ।एतेऽचलाः समाख्याताः --
”ऐरावतकुलोत्पन्ननागविशेषः यथा, महा-भारते ५७ ११ -- १२ ।“पारावतः पारिजातः पाण्डरो हरिणः कृशः ।विहङ्गः शरभो मेदः प्रमोदः संहतापनः
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम्
”पक्षिविशेषः यथा, ज्योतिस्तत्त्वधृतवचनम् ।“गृध्रः कङ्कः कपोतश्च उलूकः श्येन एव ।चिल्लश्च धर्म्मचिल्लश्च भासः पाण्डर एव ।गृहे यस्य पतन्त्येते गेहं तस्य विपद्यते
”)तद्बर्णविशिष्टे, त्रि इत्युणादिकोषः
(यथा, हरिवंशे ८२ ५० ।“असिताम्बरसंवीतं पाण्डरं पाण्डरासनम्
”)