पाणिनिः (pANiniH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishपाणिनिः [pāṇiniḥ], of a celebrated grammarian who is considered as an inspired muni, and is said to have derived the knowledge of his grammar from Śiva
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं चक्रे तस्मै पाणिनये नमः ॥ Śekhara.
Apte 1890
EnglishApte Hindi
Hindiपाणिनिः
- -
एक प्रसिद्ध वैयाकरण का नाम
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit पाणिनिः, दाक्षीपुत्रः
प्राचीनकालीनः संस्कृतस्य एकः प्रख्यातः विद्वान् वैयाकरणश्च।
"पाणिनिना संस्कृतस्य व्याकरणं लिखितम्।"
शब्दकल्पद्रुमः
Sanskritपाणिनिः, (पणिनो मुनेर्युवापत्यम् । पणिन् +इञ् । न टिलोपः ।) मुनिविशेषः । तत्पर्य्यायः ।आहिकः २ दाक्षीपुत्त्रः ३ शालङ्की ४ पाणिनः५ शालातुरीयः ६ । इति त्रिकाण्डशेषः ॥
* ॥
(अयं हि पणिन्-वंशसम्भूतः प्रसिद्धो व्याकरण-कर्त्ता । अस्य माता दाक्षी इत्याख्यया विश्रुता ।यथा, पातञ्जलकारिकायाम् । १ । १ । २० ।“सर्व्वे सर्व्वपदादेशा दाक्षीपुत्त्रस्य पाणिनेः ॥
”तथाच शिक्षायाम् । ५६ ।“शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्त्राय धीमते ।वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥
”अस्य शालातुरीय इत्याख्यापि दृश्यते । यथा, अभिधानचिन्तामणौ । ३ । ५१५ ।“ -- अथ पाणिनौ ।शालातुरीयदाक्षेयौ -- ॥
”“गान्धारप्रदेशविशेषशलातुरग्रामजातत्वा-देवास्य तथा नाम ।” इति चिन्तामणिटीका ॥
परे तु शलातुरग्रामोऽस्य जन्मस्थानमिति नस्वीकुर्व्वन्ति । यतः शलातुरोऽभिजनोऽस्य इतिव्युत्पत्त्या शालातुरशब्देन शलातुरदेशोद्भवेजने एवार्थो नावगम्यते । अष्टाध्यायीसूत्र-पाठस्य “तूदीशलातुरवर्म्मतीकूचवारात् ढक्छण् ढञ् यकः ।” ४ । ३ । ९४ । सूत्रात् अभि-जनार्थे एव छण्प्रत्ययः । वृत्तिकारभट्टोजी-दीक्षितेन तु “अभिजनश्च ।” ४ । ३ । ९० ।इति सूत्रे “यत्र स्वयं वसति स निवासः । यत्रपूर्व्वैरुषितं सोऽभिजनः ।” इत्यभिजनशब्द-स्यार्थः प्रदर्शितः । अतः स्पष्टतः शलातुर-प्रदेशः पाणिनेः पूर्व्वपुरुषाणां वासस्थानमित्ये-वावगम्यते नतु तस्येति ।पुरा किल कात्यायननामा मुनिः सप्तलक्ष-श्लोकात्मकं बृहत्कथामिधानं ग्रन्थं विरचय्यकाणभूतये श्रावयामास । सोमदेवभट्टस्तु ततःसारांशं समुद्धृत्य कथासरित्सागर इत्याख्ययाप्रसिद्धं ग्रन्थं निर्म्मितवान् तस्मादेषाख्यायिकासमधिगम्यते । यथा, तत्रैव । ४ । २० -- ९५ ।“अथ कालेन वर्षस्य शिष्यवर्गो महानभूत् ।तत्रैकः पाणिनिर्नाम जडबुद्धितरोऽभवत् ॥
स शुश्रूषापरिक्लिष्टः प्रेषितो वर्षभार्य्यया ।अगच्छत् तपसे खिन्नो विद्याकामो हिमालयम् ॥
तत्र तीव्रेण तपसा तोषितादिन्दुशेखरात् ।सर्व्वविद्यामुखं तेन प्राप्तं व्याकरणं नवम् ॥
ततश्चागत्य मामेव वादायाह्वयते स्म सः ।प्रवृत्ते चावयोर्वादे प्रयाताः सप्तवासराः ॥
अष्टमेऽह्नि मया तस्मिन् जिते तत्समनन्तरम् ।नभःस्थेन महाघोरो हूङ्कारः शम्भुना कृतः ॥
तेन प्रनष्टमैन्द्रन्तदस्मद्व्याकरणं भुवि ।जिताः पाणिनिना सर्व्वे मूर्खीभूता वयं पुनः ॥
अथ संजातनिर्व्वेदः स्वगृहस्थितये धनम् ।हस्ते हिरण्यदत्तस्य विधाय बणिजो निजम् ॥
उक्त्वा तच्चोपकोशायै गतवानस्मि शङ्करम् ।तपोभिराराधयितुं निराहारो हिमाचलम् ॥
”“अत्रान्तरे तुषाराद्रौ कृत्वा तीव्रतरं तपः ।आराधितो मया देवो वरदः पार्व्वतीपतिः ॥
तदैव तेन शास्त्रं मे पाणिनीयं प्रकाशितम् ।तदिच्छानुग्रहादेव मया पूर्णीकृतञ्च तत् ॥
”****“वर्षोऽथ मन्मुखादैच्छत् श्रोतुं व्याकरणं नवम् ।ततः प्रकाशितं स्वामिकुमारेणैव तस्य तत् ॥
ततो व्याडीन्द्रदत्ताभ्यां विज्ञप्तो दक्षिणां प्रति ।गुरुर्वर्षोऽब्रवीत् स्वर्णकोटिर्मे दीयतामिति ॥
अङ्गीकृत्य गुरोर्वाक्यं तौ च मामित्यवोचताम् ।एहि राज्ञः सखे ! नन्दात् याचितुं गुरुदक्षिणाम्गच्छामो नान्यतोऽस्माभिरियत् काञ्चनमाप्यते ।नवाधिकाया नवतेः कोटीनामधिपो हि सः ॥
”इत्युपाख्यानेन पाणिनिः कात्यायनस्य राज्ञो-नन्दस्य च समसामयिक इत्येवायाति । परंकात्यायनपाणिन्योः शब्दशास्त्रपाठेन पाणिनिःकात्यायनात् पूर्व्वतन इत्यनायासेनैव विज्ञायते ।यतः कात्यायन एव पाणिनिकृतव्याकरणस्यवार्त्तिककारः । स च स्वकृतग्रन्थे विदुषां वरंपाणिनिं आचार्य्यत्वेन स्वीकृतवान् । [६ । ४ ।१०४ । सूत्त्रस्य वार्त्तिं ।] पाणिनिस्तु स्वीय-व्याकरणे पूर्व्वतनानां बहूनां विदुषां नामोल्लेखंकृतवान् परं कुत्रापि कात्यायनस्य नाम नाभि-हितवानतः स्पष्टतोऽवगम्यते पाणिनिः कात्या-यनात् वृद्धतर इति ।अनेन महात्मना पाणिना रचितं व्याकरणंपाणिनीयाष्टकमित्याख्यया प्रसिद्धम् । कात्ययनएवास्य वार्त्तिकं विधाय तीव्रसमालोचना-ञ्चकार । परं पतञ्जलिः सूत्रपाठस्य वार्त्तिकस्यच महाभाष्यं विधाय सर्व्वतः प्रमादपरिशून्योऽयंपाणिनीयाष्टाध्यायीग्रन्थ इति प्रदर्शयन् कात्या-यनतीव्रदृष्टेः ररक्षैणं समादरणीयं ग्रन्थमुत्त-मम् । अष्टाध्यायीप्रारम्भे तु चतुर्द्दशसूत्राणिसन्ति तानि तु प्रत्याहारसूत्राणि ।अष्टाध्यायीसूत्रपाठे, आपिशलिः । ६ । १ । ९२ ।गालवः । ६ । ३ । ६१ । चाक्रवर्म्मणः । ६ । १ ।१३० । स्फोटायनः । ६ । १ । १२३ । काश्यपः ।८ । ४ । ६७ । गार्ग्यः । ८ । ४ । ६७ । भार-द्वाजः । ७ । २ । ६३ । सेनकः ५ । ४ । ११२ ।शाकटायनः । ३ । ४ । १११ । शाकल्यः । १ । १ । १६ ।एतेषां पूर्व्वतनवैयाकरणानां नामानि सन्ति ।अत्र ३९९६ संख्यकानि सूत्राणि विद्यन्ते ।काश्मीरराजस्य जयापीडस्य राजत्वसमयेपाणिनिव्याकरणं वार्त्तिकेन महाभाष्येण चसह विशेषविद्यार्थिसुधीवरविद्बज्जनशिक्षार्थंप्रचलितमासीत् । यथा, राजतरङ्गिण्याम् । ४ ।६३८ -- ६४० ।“नितान्तं कृतकृत्यस्य गुणवृद्धिविधायिनः ।श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥
भाष्यव्याख्याक्षणे श्लोकैर्व्वैलक्षण्यहतैः कृतः ।सोऽयं तस्य विपर्य्यासो बुधैरिव विवर्त्तितः ॥
कृतविप्रोपसर्गस्य भूतनिष्ठाविधायिनः ।श्रीजयापीडदेवस्य पाणिनेश्च किमन्तरम् ॥
”कात्यायनकृतवार्त्तिकात् पतञ्जलिकृतमहा-भाष्याच्च अन्या अपि अष्टाध्यायीसूत्रपाठस्यउल्लिखितमहाभाष्यस्य च बह्व्यष्टीकाः सन्तिबाहुल्यभिया तासां नामानि न प्रदत्तानि ॥
* ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
