| YouTube Channel

पाणितलं (pANitalaM)

 
शब्दकल्पद्रुमः
Sanskrit
पाणितलं,
क्ली,
(पाणितलमिव परिमाणमस्त्य-स्येति अच् ।) कर्षपरिमाणम् तोलकद्बयम् ।इति वैद्यकपरिभाषा
(पर्य्यायोऽस्या यथा, --“कोलद्वयञ्च कर्षः स्यात् प्रोक्ता पाणिमालिका ।अक्षं पिचुःपाणितलं किञ्चित्पाणिश्च तिन्दुकम्
विडालपदकञ्चैव सुवर्णं कवलग्रहः ।उदम्बरश्च पर्य्यायैः कर्ष एव निगद्यते
”इति शार्ङ्गधरे पूर्व्वखण्डे प्रथमेऽध्याये
पर्य्यायान्तरं यथा, --“विद्याद्द्वौ द्रंक्षणौ कर्षं सुवर्णञ्चाक्षमेव ।विडालपदकन्तच्च पिचुम्पाणितलन्तथा
तिन्दुकञ्च विजानीयात् कवडग्रहमेव
”इति चरके कल्पस्थाने द्वादशेऽध्याये
पाणेस्तलम् ।) हस्ताधोभागः
(यथा, मनौ १४३ ।“स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।गात्राणि चैव सर्व्वाणि नाभिं पाणितलेन तु
”)