| YouTube Channel

पाटलिपुत्त्रं (pATaliputtraM)

 
शब्दकल्पद्रुमः
Sanskrit
पाटलिपुत्त्रं,
क्ली,
(पाटलिः पुत्त्र इव यस्य बहु-पाटलिवृक्षोत्पत्तिस्थानत्वेनास्य तथात्वम् ।)नगरविशेषः पाटना इति ख्यातः तत्पर्य्यायः ।कुसुमपुरम् इति हेमचन्द्रः ४२
पुष्पपुरम् पाटलिपुत्त्रकम् इति त्रिकाण्ड-शेषः
(इदन्तु गङ्गातीरस्थम् यथा हितोप-देशे “अस्ति भागीरथीतीरे पाटलीपुत्त्रनाम-धेयं नगरम्
”इदमेव पुरा मगधानां राजधानी आसीत् ।अत्रत्यसुदर्शननाम्नो भूपतेः पुत्त्राणां नीति-विद्याधिगमाय विद्वत्कुलचूडामणिना विष्णु-शर्म्मणा पञ्चतन्त्रहितोपदेशादयो ग्रन्था विर-चिताः
)