पाचनं (pAcanaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritपाचनं, (पाच्यतेऽनेनेति । पच् + णिच् +करणे ल्युट् ।) प्रायश्चित्तम् । इति मेदिनी ।ने, ९० ॥
दोषपाचकक्वाथौषधम् । तस्य दान-कालः । यथा, सारकौमुद्याम् ।“ज्वरितं षडहेऽतीते लघ्वन्नप्रतिभोजितम् ।सप्ताहात् परतोऽस्तब्धे सामे स्यात् पाचनं ज्वरे ॥
”सर्व्वेषां पाचनद्रव्यानां परिमाणं यथा, --“दशरक्तिकमाषेण गृहीत्वा तोलकद्वयम् ।दत्त्वाम्भः षोडशगुणं ग्राह्यं पादावशेषितम् ॥
”इति परिभाषा ॥
अथ सर्व्वज्वरे पाचनम् ।“नागरं देवकाष्ठञ्च धन्याकं बृहतीद्बयम् ।दद्यात् पाचनकं पूर्व्वं ज्वरिताय ज्वरापहम् ॥
”इति नागरादि ॥
१ ॥
अथ वातिकज्वरे ।“विल्वादिपञ्चमूलस्य क्वाथः स्याद्बातिकज्वरे ॥
”इति विल्वादिपञ्चमूली ॥
२ ॥
“पाचनं पिप्पलीमूलगुडूची विश्वजोऽथवा ॥
”इति पिप्पलीमूलादि ॥
३ ॥
“किराताब्दामृतोदीच्यबृहतीद्बयगोक्षुरैः ।सस्थिराकलसीविल्वैः क्वाथो वातज्वरापहः ॥
”इति किरातादि ॥
४ ॥
“रास्ना वृक्षादनी दारु सरलं सैलबालुकम् ।कषायः शर्कराक्षौद्रयुक्तो वातज्वरापहः ॥
”इति रास्नादि ॥
५ ॥
“विल्वादिपञ्चमूली च गुडूच्यामलके तथा ।कुस्तुम्बुरुसमो ह्येष कषायो वातिके ज्वरे ॥
”इति विल्वादिपञ्चमूल्यादि ॥
६ ॥
“पिप्पलीशारिवाद्राक्षाशतपुष्पाहरेणुभिः ।कृतः कषायः सगुडो हन्याच्छसनजं ज्वरम् ॥
”इति पिप्पल्यादि ॥
७ ॥
“गुडूची शारिवा द्राक्षा शतपुष्पा पुनर्नवा ।सगुडोऽयं कषायः स्याट्वातज्वरविनाशनः ॥
”इति गुडूच्यादि ॥
८ ॥
“द्राक्षागुडूचीकाश्मर्य्यत्रायमाणाः सशारिवाः ।निःक्वाथ्य सगुडं क्वाथं पिबेद्बातज्वरापहम् ॥
”इति द्राक्षादि ॥
९ ॥
* ॥
अथ पैत्तिकज्वरे ।“कलिङ्गं कट्फलं मुस्तं पाठातिक्तकरोहिणी ।पक्वं सशर्करं पीतं पाचनं पैत्तिके ज्वरे ॥
”इति कलिङ्गादि ॥
१० ॥
“सक्षौद्रं पाचनं पैत्ते तिक्ताब्देन्द्रयवैः शृतम् ॥
”इति तिक्तादि ॥
११ ॥
“लोध्रोत्पलामृतापद्मशारिवाणां सशर्करः ।क्वाथः पित्तज्वरं हन्यादथवा पर्पटोद्भवः ॥
”इति लोध्रादि ॥
१२ ॥
१३ ॥
“पटोलयवनिःक्वाथो मधुना मधुरीकृतः ।तीव्रपित्तज्वरामर्द्दी पानात्तृड्दाहनाशनः ॥
”इति यवपटोलम् ॥
१४ ॥
“दुरालभापर्पटकप्रियङ्गु-भूनिम्बवासाकटुरोहिणीनाम् ।जलं पिबेच्छर्करयावगाढंतृष्णास्रपित्तज्वरदाहयुक्तः ॥
”इति दुरालभादि ॥
१५ ॥
“त्रायमाणा च मधुकं पिप्पलीमूलमेव च ।किराततिक्तकं मुस्तं मधुकं सविभीतकम् ॥
सशर्करं पीतमेतत् पित्तज्वरनिवर्हणम् ॥
”इति त्रायमाणादि ॥
१६ ॥
“मृद्वीका मघुकं निम्बं कटुकारोहिणीसमाः ।अवश्यायस्थितं पाक्यमेतत् पित्तज्वरापहम् ॥
”इति मृद्वीकादि ॥
१७ ॥
“एकः पर्पटकः श्रेष्ठः पित्तज्वरविनाशनः ।किं पुनर्यदि युज्येत चन्दनोदीच्यनागरैः ॥
”इति पर्पटकादि ॥
१८ ॥
“विश्वाम्बुपर्पटोशीरघनचन्दनसाधितम् ।दद्यात् सुशीतलं वारि तृट्छर्द्दिज्वरदाहनुत् ॥
”इति विश्वादि ॥
१९ ॥
“पर्पटामृतघात्रीणां क्वाथः पित्तज्वरं जयेत् ॥
”इति पर्पटादि ॥
२० ॥
“द्राक्षारग्वघयोश्चापि ॥
२१ ॥
काश्मर्य्यस्याथवापुनः ॥
२२ ॥
द्राक्षाभयापर्पटकाब्दतिक्ता-क्वाथं ससंपाकफलं विदध्यात् ।प्रलापमूर्च्छाभ्रमदाहशोष-तृष्णान्विते पित्तभवे ज्वरे तु ॥
”इति द्राक्षादि ॥
२३ ॥
“व्युषितं धन्याकजलं प्रातः पीतं सशर्करंपुंसाम् ।अन्तर्द्दाहं शमयत्यचिराद्दूरप्ररूढमपि ॥
” २४ ॥
अथ कफज्वरे ।“मातुलुङ्गशिफाविश्वब्रह्मीग्रन्थिकसंयुतम् ।कफज्वरेऽम्बु सक्षारं पाचनं वा कणादिकम् ॥
”इति मातुलुङ्गादि ॥
२५ ॥
“कटुकं चित्रकं निम्बं हरिद्रेऽतिविषे वचाम् ।कुष्ठमिन्द्रयवं मुर्व्वां पटोलञ्चापि साधितम् ॥
पिबेन्मरिचसंयुक्तं सक्षौद्रं श्लैष्मिके ज्वरे ॥
”इति कटुकादि ॥
२६ ॥
“निम्बविश्बामृतादारुशटीभूनिम्बपौष्करम् ।पिप्पल्यौ बृहती चेति क्वाथो हन्ति कफज्वरम् ॥
”इति निम्बादि ॥
२७ ॥
“सिन्धुवारदलक्वाथं शोषणं कफजे ज्वरे ।जङ्घयोश्च बले क्षीणे कर्णे वा पिहिते पिबेत् ॥
”इति सिन्धुवारादि ॥
२८ ॥
“आमलक्यभया कृष्णा चित्रकश्चेत्ययं गणः ।सर्व्वज्वरकफातङ्कभेदी दीपनपाचनः ॥
”इति आमलक्यादि ॥
२९ ॥
“त्रिफलापटोलवासाच्छिन्नरुहातिक्तरोहिणी-षड्ग्रन्थाः ॥
”इति त्रिफलादि ॥
३० ॥
“मधुनाश्लेष्मसमुत्थे दशमूली वासकस्य वाक्वाथः ॥
” ३१ ॥
“मुस्तं वत्सकबीजानि त्रिफला कटुरोहिणी ।परूषकाणि च क्वाथः कफज्वरविनाशनः ॥
”इति मुस्तादि ॥
३२ ॥
* ॥
अथ वातपैत्तिकज्वरे ।“संसृष्टदोषेषु हितं संसृष्टमथ पाचनम् ॥
विश्वामृताब्दभूनिम्बैः पञ्चमूलीसमन्वितैः ।कृतः कषायो हन्त्याशु वातपित्तोद्भवं ज्वरम् ॥
”इति नवाङ्गम् ॥
३३ ॥
“त्रिफलाशाल्मलीरास्नाराजवृक्षाट-रूषकैः ।शृतमम्बु हरेत्तूर्णं वातपित्तोद्भवं ज्वरम् ॥
”इति त्रिफलादि ॥
३४ ॥
“किराततिक्तकं मुस्तं द्राक्षामामलकीं शटीम् ।निष्काथ्य पित्तानिलजे क्वथितं सगुडं पिबेत् ॥
”इति किराततिक्तकादि ॥
३५ ॥
“निदिग्धिकाबलारास्नात्रायमाणामृतायुतैः ।मसूरविदलैः क्वाथो वातपित्तज्वरं जयेत् ॥
”इति निदिग्धिकादि ॥
३६ ॥
“गुडूची पर्पटं मुस्तं किरातं विश्वभेषजम् ।वातपित्तज्वरे देयं पञ्चभद्रमिदं शुभम् ॥
”इति पञ्चभद्रम् ॥
३७ ॥
“मधुकं शारिवे द्राक्षा मधूकं चन्दनोत्पलम् ।काश्मरी पद्मकं लोध्रं त्रिफलां पद्मकेशरम् ॥
परूषकं मृणालञ्च न्यसेदुत्तमवारिणि ।मधुलाजसितायुक्तं तत् पीतं व्युषितं निशि ॥
वातपित्तज्वरदाहं तृष्णामूर्च्छावमिभ्रमान् ।शमयेद्रक्तपित्तञ्च जीमूतानिव मारुतः ॥
”इति मधुकादि ॥
३८ ॥
* ॥
अथ पित्तश्लैष्मिकज्वरे ।“पटोलं चन्दनं मुर्व्वातिक्तापाठामृतागणः ।पित्तश्लेष्मानिलच्छर्द्दिज्वरकण्डूविषापहः ॥
”इति पटोलादि ॥
३९ ॥
“गुडूचीनिम्बधन्याकं पद्मकं रक्तचन्दनम् ।एष सर्व्वज्वरान् हन्ति गुडूच्यादिस्तु दीपनः ॥
हृल्लासारोचकच्छर्द्दिपिपासादाहनाशनः ॥
”इति गुडूच्यादि ॥
४० ॥
“किरातं नागरं मुस्तं गुडूचीञ्च कफाधिके ।पाठोदीच्यमृणालैस्तु सह पित्ताधिके पिबेत् ॥
”इति चातुर्भद्रकपाठासप्तकौ ॥
४१ ॥
४२ ॥
“गुडूची चन्दनं पद्मं नागरेन्द्रयवासकम् ।अभयारग्वधोशीरं पाठा धान्याब्दरोहिणी ॥
कषायं पाययेदेतत् पिप्पलीचूर्णसंयुतम् ।पित्तश्लेष्महरं तन्द्रापिपासादाहनाशनम् ॥
विण्मूत्रानिलविष्टम्भत्रिदोषप्रभवस्य च ।गुडूच्यादिगणो ह्येष पाचनो दीपनः परः ॥
”इति गुडूच्यादिगणः ॥
४३ ॥
“कण्टकार्य्यमृताभार्गी नागरेन्द्रयवासकम् ।भूनिम्बं चन्दनं मुस्तं पटोलं कटुरोहिणी ॥
कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम् ।दाहतृष्णारुचिच्छर्द्दिकासहृत्पार्श्वशूलनुत् ॥
”इति कण्टकार्य्यादि ॥
४४ ॥
“सपत्रपुष्पवासाया रसः क्षौद्रसितायुतः ।कफपित्तज्वरं हन्ति सास्रपित्तं सकामलम् ॥
”इति वासादि ॥
४५ ॥
“पटोलं पिचुमर्द्दश्च त्रिफला मधुकं बला ।साधितोऽयं कषायः स्यात् पित्तश्लेष्मभवे ज्वरे ॥
”इति पटोलादि ॥
४६ ॥
“गुडूचीन्द्रयवारिष्टं पटोलं कटुरोहिणी ।नागरं चन्दनं मुस्तं पिप्पलीचूर्णसंयुतम् ॥
अमृताष्टक इत्येष पित्तश्लेष्मज्व रापहः ।हृल्लासारोचकच्छर्द्दितृष्णादाहनिवारणः ॥
”इति अमृताष्टकम् ॥
४७ ॥
“पटोलयवधान्याकमुद्गामलकचन्दनम् ।”पैत्तिके श्लेष्मपित्तोत्थे ज्वरतृट्छर्द्दिदाहनुत् ॥
”इति पटोलादि ॥
४८ ॥
क्षुद्रामृताभ्यां सह नागरेणसपुष्करञ्चेति किराततिक्तम् ।पिबेत् कषायं त्विह पञ्चतिक्तंज्वरं निहन्त्यष्टविधं समग्रम् ॥
”इति क्षुद्रादि ॥
४९ ॥
इति पित्तश्लैष्मिकज्वराधिकारः ॥
* ॥
अथ वातश्लैष्मिकज्वरे ।“दीपनं कफविच्छेदि वातपित्तानुलोमनम् ।ज्वरघ्नं पाचनं भेदि शृतं धान्यपटोलयोः ॥
”इति धान्यपटोलम् ॥
५० ॥
“मुस्तनागरभूनिम्बं त्रयमेतत्त्रिकार्षिकम् ।कफवातप्रशमनं पाचनं ज्वरनाशनम् ॥
” ५१ ॥
पिप्पली पिप्पलीमूलं चव्यं चित्रकनागरम् ।दीपनीयः शृतो वर्गः कफानिलगदापहः ॥
”इति पञ्चकोलम् ॥
५२ ॥
“पिप्पलीभिः शृतं तोयमनभिष्यन्दि दीपनम् ।वातश्लेष्मविकारघ्नं प्लीहज्वरविनाशनम् ॥
”इति पिप्पलीक्वाथः ॥
५३ ॥
“आरम्बधग्रन्थिकमुस्ततिक्ता-हरीतकीभिः क्वथितः कषायः ।सामे सशूले कफवातयुक्तेज्वरे हितो दीपनपाचनश्च ॥
”इति आरग्वधादि ॥
५४ ॥
“क्षुद्रामृतानागरपुष्कराह्वयैःकृतः कषायः कफमारुतोत्तरे ।सश्वासकासारुचिपार्श्वरुक्करेज्वरे त्रिदोषप्रभवे च शस्यते ॥
”इति क्षुद्रादि ॥
५५ ॥
“दशमूलीरसः पेयः कणायुक्तः कफानिले ।अविपाकेऽतितन्द्रायां पार्श्वरुक्श्वासकासके ॥
”इति दशमूलम् ॥
५६ ॥
“मुस्तं पर्पटकं शुण्ठी गुडूची सदुरालभा ।कफवातारुचिच्छर्द्दिदाहश्वासज्वरापहा ॥
”इति मुस्तादि ॥
५७ ॥
“दारुपर्पटभार्ग्यब्दवचाधन्याककट्फलैः ।साभयाविश्वपूतीकैः क्वाथो हिङ्गुमधूत्कटः ॥
कफवातज्वरे पीतो हिक्काश्वासगलग्रहान् ।कासशोषप्रसेकांश्च हन्यात् तरुमिवाशनिः ॥
”इति दार्व्वादि ॥
५८ ॥
* ॥
अथ त्रिदोषजज्वरे ।“पञ्चमूलीकिरातादिर्गणो योज्यस्त्रिदोषजे ।पित्तोत्कटे च मधुना कणया च कफोत्कटे ॥
”इति चतुर्भद्रपञ्चमूलम् ॥
५९ ॥
“विल्वश्योणाकगाम्भारीपाटलागणिकारिकाः ।दीपनं कफवातघ्नं पञ्चमूलमिदं महत् ॥
”इति बृहत्पञ्चमूली ॥
६० ॥
“शालपर्णी पृश्निपर्णी बृहतीद्बयगोक्षुरम् ।वातपित्तज्वरहरं कनीयः पञ्चमूलकम् ॥
”इति स्वल्पपञ्चमूली ॥
६१ ॥
“उभयं दशमूलञ्च सन्निपातज्वरापहम् ।कासे श्वासे च तन्द्रायां पार्श्वशूले च शस्यते ।पिप्पलीचूर्णसंयुक्तं कण्ठहृद्ग्रहनाशनम् ॥
”इति दशमूलम् ॥
६२ ॥
“चिरज्वरे वातकफोल्वणे वात्रिदोषजे वा दशमूलमिश्रः ।किराततिक्तादिगणः प्रयोज्यःशुद्ध्यर्थिने वा त्रिवृता विमिश्रः ॥
”इति चतुर्द्दशाङ्गम् ॥
६३ ॥
“दशमूलं शटी शृङ्गी पौष्करं सदुरालभम् ।भार्गी कुटजबीजञ्च पटोलं कटुरोहिणी ॥
अष्टादशाङ्ग इत्येष सन्निपातज्वरापहः ।कासहृल्लासपार्श्वार्त्तिश्वासहिक्कावमीहरः ॥
”इति वातश्लेष्महरोऽष्टादशाङ्गः ॥
६४ ॥
“भूनिम्बदारुदशमूलमहौषधाब्द-तिक्तेन्द्रबीजधनिकेभकणाकषायः ।तन्द्रीप्रलापकसनारुचिदाहमोह-श्वासादियुक्तमखिलं ज्वरमाशु हन्ति ॥
”इति अष्टादशाङ्गम् ॥
६५ ॥
“मुस्तपर्पटकोशीरदेवदारुमहौषधम् ।त्रिफला धन्वयासश्च नीली कम्पिल्वकं त्रिवृत् ॥
किराततिक्तकं पाठा बला कटुकरोहिणी ।मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते ॥
अष्टादशाङ्गमुदितमेतद्बा सन्निपातनुत् ।पित्तोत्तरे सन्निपाते हितञ्चोक्तं मनीषिभिः ॥
मन्यास्तम्भ उरोघात उरःपार्श्वशिरोग्रहे ॥
६६ ॥
द्राक्षामृता शटी शृङ्गी मुस्तकं रक्तचन्दनम् ।नागरं कटुकं पाठा भूनिम्बं सदुरालभम् ॥
उशीरं पद्मकं धान्यं बालकं कण्टकारिका ।पुष्करं पिचुमर्द्दश्च दशाष्टाङ्गमिदं शुभम् ॥
जीर्णज्वरारुचिश्वासकासश्वयथुनाशनम् ॥
”इति अपराष्टादशाङ्गम् ॥
६७ ॥
“शटी पुष्करमूलञ्च व्याघ्री शृङ्गी दुरालभा ।गुडूची नागरं पाठा किरातं कटुरोहिणी ॥
एष शट्यादिको वर्गः सन्निपातज्वरापहः ।कासहृद्ग्रहपार्श्वार्त्तिश्वासे तन्द्र्याञ्च शस्यते ॥
”इति शट्यादि ॥
६८ ॥
“बृहत्यौ पुष्करं भार्गी शटी शृङ्गी दुरालभा ।वत्सकस्य च बीजानि पटोलं कटुरोहिणी ॥
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः ।कासादिषु च सर्व्वेषु हितः सोषद्रवेषु च ॥
”इति बृहत्यादिगणः ॥
६९ ॥
“भार्गी पुष्करमूलञ्च रास्नाविल्वयमानिकाः ।नागरं दशमूलञ्च पिप्पलीञ्चाप्सु साधयेत् ॥
सन्निपातज्वरे देयं हृत्पार्श्वानाहशूलिनाम् ।कासश्वासाग्निमान्द्यञ्च तन्द्राञ्च विनिवर्त्तयेत् ॥
”इति भार्ग्यादि ॥
७० ॥
“द्विपञ्चमूली षड्ग्रन्था विश्वगृध्रनखीद्बयम् ।कफवातहरः क्वाथः सन्निपातहरः परः ॥
”इति द्विपञ्चमूल्यादि ॥
७१ ॥
“कारवीपुष्करैरण्डत्रायन्तीनागरामृताः ।दशमूलीशटीशृङ्गीयासभार्गीपुनर्नवाः ॥
तुल्या मूत्रेण निष्क्वाथ्य पीतश्चेतोविशोधनः ।अभिन्यासं ज्वरं घोरमाशु घ्नन्ति समुद्धतम् ॥
”इति दशमूल्यादि ॥
७२ ॥
“मातुलुङ्गाश्मभिद्बिल्वव्याघ्रीपाठोरुवूकजः ।क्वाथो लवणमूत्राढ्योऽभिन्यासानाहशूलनुत् ॥
”इति मातुलुङ्गादि ॥
७३ ॥
“कण्टरोधकफश्वासहिक्कासंन्यासपीडितः ।मातुलुङ्गार्द्रकरसं दशमूलाम्भसा पिबेत् ॥
”इति मातुलुङ्गार्द्रकरसयुक्तदशमूलम् ॥
७४ ॥
“व्योषाब्दत्रिफलातिक्तापटोलारिष्टवासकैः ।भूनिम्बामृतयासैश्च त्रिदोषज्वरनुत् जलम् ॥
”इति व्योषादि ॥
७५ ॥
“त्रिवृद्बि शालात्रिफलाकटुकारग्वधैः कृतः ।सक्षारो भेदनः क्वाथः पेयः सर्व्वज्वरापहः ॥
”इति त्रिवृतादि ॥
७६ ॥
अथ जीर्णज्वरे ।“निदिग्धिकानागरकामृतानांक्वाथं पिबेन्मिश्रितपिप्पलीकम् ।जीर्णज्वरारोचककासशूल-श्वासाग्निमान्द्यार्द्दितपीनसेषु ॥
हन्त्यूर्ड्घगामयं प्रायः सायं तेनायमिष्यते ॥
”इति निदिग्धादि ॥
७७ ॥
“पिप्पलीचूर्णसंयुक्तः क्वाथश्छिन्नरुहोद्भवः ।जीर्णज्वरकफर्ध्वसी पञ्चमूलीकृतोऽथवा ॥
कासाजीर्णारुचिश्वासहृत् पाण्डुक्रिमिरोगनुत्॥
७८ ॥
इति जीर्णज्वराधिकारः ॥
* ॥
अथ सन्ततादिज्वरे ।“मधुकं चन्दनं मुस्तं धात्री धात्यमुशीरकम् ।छिन्नोद्भवा पटोलञ्च क्वाथं समधुशर्करम् ॥
ज्वरं पञ्चविधं हन्यात् सन्तताद्यं सुदारुणम् ।वातिकं पैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् ॥
आमं विपाचयत्याशु निरामं शमयत्यपि ॥
”इति मधुकाद्यम् ॥
७९ ॥
“कलिङ्गकाः पटोलस्य पत्रं कटुकरोहिणी ॥
८० ॥
पटोलं शारिवामुस्तं पाठा कटुकरोहिणी ॥
८१ ॥
निम्बं पटोलं त्रिफलां मृद्वीकां मुस्तवत्सकौ ॥
॥
८२ ॥
किराततिक्तममृतां चन्दनं विश्वभेषजम् ॥
८३ ॥
गुडूच्यामलकं मुस्तम् ८४ अर्द्धश्लोकसमापनाः ।कषायाः शमयन्त्याशु पञ्च पञ्चविधान् ज्वरान् ॥
सन्ततं सततान्येद्युस्तृतीयकचतुर्थकान् ।गुडूचीमुस्तधात्रीणां कषायंवा समाक्षिकम् ॥
मुस्तामलकगुडूचीविश्वौषधकण्टकारिकाक्वाथः ।पीतः सकणाचूर्णः समधुर्व्विषमज्वरं हन्ति ॥
”इति मुस्तादि ॥
८५ ॥
* ॥
अथ तृतीयकज्वरे ।“महौषधामृतामुस्तचन्दनोशीरधान्यकैः ।क्वाथस्तृतीयकं हन्ति शर्कराभधुयोजितः ॥
”इति महौषधादि ॥
८६ ॥
अथ चातुर्थकज्वरे ।“वासाधात्रीस्थिरादारुपथ्यानागरसाधितः ।सितामधुयुतः क्वाथश्चातुर्थकनिवारणः ॥
” ८७ ॥
इति ज्वराधिकारः ॥
* ॥
अथ ज्वरातीसारे ।“पाठेन्द्रयवभूनिम्बमुस्तपर्पटकामृताः ।जयन्त्याममतीसारं सज्वरं समहौषधाः ॥
”इति पाठादि ॥
८८ ॥
“नागरातिविषामुस्तभूनिम्बामृतवत्सकैः ।सर्व्वज्वरहरः क्वाथः सर्व्वातीसारनाशनः ॥
”इति नागरादि ॥
८९ ॥
“ह्नीवेरातिविषामुस्तविल्वधान्यकनागरैः ।पिबेत् पिच्छाविबन्धघ्नं शूलदोषामपाचनम् ॥
सरक्तं हन्त्यतीसारं सज्वरं वाथ विज्वरम् ॥
”इति ह्नीवेरादि ॥
९० ॥
“गुडूच्यतिविषाधान्यशुण्ठीविल्वाब्दबालकैः ।पाठाभूनिम्बकुटजचन्दनोशीरपद्मकैः ॥
कषायः शीतलः पेयो ज्वरातीसारशान्तये ।हृल्लासारोचकच्छर्द्दिपिपासादाहनाशनः ॥
”इति बृहद्गुडूच्यादि ॥
९१ ॥
“उशीरं बालकं मुस्तं धन्याकं विश्वभेषजम् ।समङ्गा धातकी लोध्रं विल्वं दीपनपाचनम् ॥
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम् ।सशोणितमतासारं सज्वरं वाथ विज्वरम् ॥
”इति उशीरादि ॥
९२ ॥
“पञ्चमूलीबलाविल्वगुडूचीमुस्तनागरैः ।पाठाभूनिम्बह्रीवेरकुटजत्वक्फलैः शृतम् ॥
हन्ति सर्व्वानतीसारान् ज्वरदोषं वमिं तथा ।सशूलोपद्रवं श्वासं कासं हन्यात् सुदारुणम् ॥
”इति पञ्चमूल्यादि ॥
९३ ॥
“कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम् ।ज्वरातिसारसन्तापं नाशयेदविकल्पतः ॥
”इति कलिङ्गादि ॥
९४ ॥
“वत्सकस्य फलं दारु रोहिणी गजपिप्पली ॥
”इति वत्सकादि ॥
९५ ॥
“श्वदंष्ट्रा पिप्पलीधान्यं विल्वं पाठायमानिका ॥
”इति श्वदंष्ट्रादि ॥
९६ ॥
“द्वावपेतौ सिद्धियोगौ श्लोकार्द्धेनाभिभाषितौ ।ज्वरातीसारशमनौ विशेषाद्दाहनाशनौ ॥
नागरामृतभूनिम्बविल्वबालकवत्सकैः ।समुस्तातिविषोशीरैर्ज्वरातीसारनुज्जलम् ॥
”इति नागरादि ॥
९७ ॥
“मुस्तकविल्वातिविषापाठाभूनिम्ब-वत्सकैः क्वाथः ।मकरन्दगर्भयुतो ज्वरातिसारौ जयेद्घोरौ ॥
”इति मुस्तकादि ॥
९८ ॥
“घनजलपाठातिविषापथ्योत्पलधान्य-रोहिणीविश्वैः ।सेन्द्रयवैः शृतमम्भः सातीसारं ज्वरं जयति ॥
”इति घनादि ॥
९९ ॥
“दशमूलीकषायेण विश्वमक्षसमं पिबेत् ।ज्वरे चैवातिसारे च सशोथे ग्रहणीगदे ॥
”इति दशमूलशुण्ठी ॥
१०० ॥
“किराताब्दामृताविश्वचन्दनोदीच्यवत्सकैः ।शोथातीसारशमनं विशेषात् ज्वरनाशनम् ॥
”इति किरातादि ॥
१०१ ॥
इति ज्वरातीसाराधिकारः ॥
* ॥
अथातीसारे ।“धान्यकं नागरं मुस्तं बालकं विल्वमेव च ।आमशूलविबन्धघ्नं पाचनं वह्निदीपनम् ॥
”इति धान्यपञ्चकम् ॥
१०२ ॥
“इदं धान्यचतुष्कं स्यात् पैत्ते शुण्ठीं विना पुनः ॥
”इति धान्यचतुष्कम् ॥
१०३ ॥
“कञ्चटदाडिमजम्बुशृङ्गाटकपत्रविल्वह्रीवेरम् ।जलधरनागरसहितं गङ्गामपि वेगिनीं रुन्ध्यात् ॥
इति कञ्चटादि ॥
१०४ ॥
“किराततिक्तकं मुस्तं वत्सकं सरसाञ्जनम् ।पिबेत् पित्तातिसारघ्नं सक्षौद्रं वेदनापहम् ॥
”इति किराततिक्तकादि ॥
१०५ ॥
“कुटजत्वक्फलं मुस्तं क्वाथयित्वा जलं पिबेत् ।अतीसारं जयेदाशु शर्करामधुयोजितम् ॥
”इति कुटजादि ॥
१०६ ॥
“विल्वचूतास्थिनिर्यूहः पीतः सक्षौद्रशर्करः ।निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥
”इति विल्वादिकाथः ॥
१०७ ॥
“पटोलयवधन्याकक्वाथः पेयः सुशीतलः ।शर्करामधुसंमिश्रश्छर्द्द्यतीसारनाशनः ॥
”इति पटोलादिक्वाथः ॥
१०८ ॥
“कुटजं दाडिमं मुस्तं धातकी विल्वबालकम् ।लोध्रचन्दनपाठाश्च कषायं मधुना पिबेत् ॥
सामे सशूले रक्ते च पिच्छास्रावे च शस्यते ।कुटजादिरिति ख्यातः सर्व्वातीसारनाशनः ॥
”इति कुटजादि ॥
१०९ ॥
“समङ्गातिविषा मुस्तं विल्वं ह्रीवेरधातकी ।कुटजत्वक् फलं विश्वं क्वाथः सर्व्वातिसारनुत् ॥
”इति समङ्गादि ॥
११० ॥
“कुटजत्वक्कृतक्वाथो घनीभूतः सुशोभनः ।लोहितोऽतिविषायुक्तः सर्व्वातीसारनाशनः ॥
”इति कुटजक्वाथः ॥
१११ ॥
“सवत्सकः सातिविषः सविल्वःसोदीच्यमुस्तैश्च कृतः कषायः ।सामे सशूले सह शोणिते चचिरप्रवृत्तेऽपि हितोऽतिसारे ॥
”इति वत्सकादि ॥
११२ ॥
“कषायो मधुना पीतस्त्वचो दाडिमवत्सकात् ।सद्यो जयेदतीसारं सरक्तं दुर्निवारणम् ॥
”इति कुटजदाडिमम् ॥
११३ ॥
* ॥
अथ ग्रहण्याम् ।“ग्रहणीमाश्रितं दोषमतीसारवदाचरेत् ।अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
नागरातिविषामुस्तक्वाथः स्यादामपाचनः ॥
”इति नागरादि ॥
११४ ॥
* ॥
अथाग्निमान्द्ये ।“विश्वाभयागुडूचीनां कषायेण षडूषणम् ।पिबेत् श्लेष्मणि मन्देऽग्नौ त्वक्पत्रसुरभीकृतम् ॥
पञ्चकोलं समरिचं षडूषणमुदाहृतम् ॥
”इति सडूषणविश्वादि ॥
११५ ॥
* ॥
अथामाजीर्णे ।“धान्यनागरसंसिद्धं तोयं दद्याद्बिचक्षणः ।आमाजीर्णप्रशमनं दीपनं वस्तिशोधनम् ॥
”इति धान्यशुण्ठी ॥
११६ ॥
* ॥
अथ पाण्डुरोगे ।“फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः ।क्वाथः क्षौद्रयुतो हन्यात् पाण्डुरोगं सकामलम् ॥
”इति फलत्रिकादि ॥
११७ ॥
* ॥
अथ रक्तपित्ते ।“जलं खर्ज्जूरमृद्वीकामधुकैः सपरूषकैः ।शृतशीतं प्रयोक्तव्यं तर्पणार्थं सशर्करम् ॥
”इति खर्ज्जरादिजलम् ॥
११८ ॥
* ॥
अथ राजयक्ष्मणि ।“धन्याकपिप्पलीविश्वदशमूलीजलं पिबेत् ।पार्श्वशूलज्वरश्वासपीनसादिनिवृत्तये ॥
”इति धन्याकादि ॥
११९ ॥
“अश्वगन्धामृताभीरुदशमूलीबलावृषाः ।पुष्करातिविषे घ्नन्ति क्षयं क्षीररसाशिनः ॥
”इति अश्वगन्धादि ॥
१२० ॥
“दशमूलबलारास्नापुष्करसुरदारुनागरैःक्वथितम् ।पेयं पार्श्वांसशिरोरुक्क्षतकासादिशान्तयेसलिलम् ॥
”इति दशमूलादि ॥
१२१ ॥
इति राजयक्ष्माधिकारः ॥
* ॥
अथ कासे ।“पञ्चमूलीकृतः क्वाथः पिप्पलीचूर्णसंयुतः ।रसान्नमश्नतो नित्यं वातकासमुदस्यति ॥
”इति पिप्पलीचूर्णयुक्तपञ्चमूली ॥
१२२ ॥
“पौष्करं कट्फलं भार्गी पिप्पलीविश्वसाधितम् ।पिबेत् क्वाथं कफोद्रेके कासे श्वासे च हृद्ग्रहे ॥
”इति पौष्करादि ॥
१२३ ॥
“पिप्पलीचूर्णसंयुक्तं दशमूलीजलं पिबेत् ॥
”इति पिप्पलीचूर्णयुक्तदशमूली ॥
१२४ ॥
“कट्फलं कत्तृणं भार्गी मुस्तं धान्यं वचाभया ।शृङ्गी पर्पटकं शुण्ठी सुराह्वञ्च जले शृतम् ॥
मधुहिङ्गुयुतं पेयं कासे वातकफात्मके ।कण्ठरोगे मुखे शूले श्वासहिक्काज्वरेषु च ॥
”इति कट्फलादि ॥
१२५ ॥
“कण्टकारीकृतः क्वाथः सकृष्णः सर्व्वकासहा ॥
”इति कण्टकारीक्वाथः ॥
१२६ ॥
इति कासाधिकारः ॥
* ॥
अथ हिक्कायाम् ।“अमृतानागरफञ्जीव्याघ्रीपर्णाशसाधितक्वाथः ।पीतः सकणाचूर्णः कासश्वासौ जयत्याशु ॥
”इति अमृतादि ॥
१२७ ॥
“दशमूलीकषायस्तु पुष्करेणावचूर्णितः ।कासश्वासप्रशमनः पार्श्वहृच्छूलनाशनः ॥
”इति कुष्ठचूर्णयुक्तदशमूली ॥
१२८ ॥
“कुलत्थनागरव्याघ्रीवासाभिः क्वथितं जलम् ।पीतं पुष्करसंयुक्तं हिक्काश्वासनिवारणम् ॥
”इति कुलत्थादि ॥
१२९ ॥
“शृङ्गीमहौषधकणाघनपौष्कराणांचूर्णं शटीमरिचशर्करया विमिश्रम् ।क्वाथेन पीतममृतावृषपञ्चमूल्याःश्वासं त्र्यहेण विनिहन्त्यतिदोषमुग्रम् ॥
”इति शृङ्ग्यादि ॥
१३० ॥
इति हिक्काश्वासाधिकारः ॥
* ॥
अथ छर्द्द्याम् ।“कषायो भृष्टमुद्गस्य सलाजमधुशर्करः ।निहन्याच्छर्द्द्यतीसारं वैश्वानर इवाहुतिम् ॥
”इति भृष्टमुद्गकषायः ॥
१३१ ॥
“गुडूचीत्रिफलारिष्टपटोलैः क्वथितं पिबेत् ।क्षौद्रयुक्तं निहन्त्याशु छर्द्दिं पित्ताम्लसम्भवाम् ॥
”इति गुडूच्यादि ॥
१३२ ॥
“क्वाथः पर्पटजः पीतः सक्षौद्रश्छर्द्दिनाशनः ॥
”इति पर्पटक्वाथः ॥
१३३ ॥
“कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम् ।तिसृष्वपि भवेत् पथ्यं माक्षिकेण समायुतम् ॥
द्रव्यादापोथितात्तोये प्रतप्ते निशि संस्थितात् ।कषायो योऽभिनिर्याति स शीतः समुदाहृतः ॥
”इति गुडू चीशीतकषायः ॥
१३४ ॥
“श्रीफलस्य गुडूच्या वा कषायो मधुसंयुतः ।पेयश्छर्द्दित्रये शीतो दूर्व्वा वा तण्डुलाम्बुना ॥
”इति विल्वमूलगुडू चीकषायौ ॥
१३५ ॥
“जम्ब्वाम्रपल्लवगवेधुकघान्यसेव्य-ह्रीवेरवारि पिबतो मधुनाल्पमल्पम् ।छर्द्दिः प्रयाति शमनं त्रिसुगन्धियुक्तालीढा निहन्ति मधुनाथ दुरालभा वा ॥
”इति जम्ब्वादिवारि ॥
१३६ ॥
इति छर्द्द्यधिकारः ॥
* ॥
अथ मूर्च्छायाम् ।“महौषधामृताक्षौद्रं पौष्करं ग्रन्थिकोद्भवम् ।पिबेत् कणायुतं क्वाथं मूर्च्छा येषु गदेषु च ॥
”इति महौषधादि ॥
१३७ ॥
“पिबेद्दुरालभाक्वाथं सघृतं भ्रमशान्तये ॥
”इति दुरालभाक्वाथः ॥
१३८ ॥
इति मूर्च्छाधिकारः ॥
* ॥
अथोन्मादे ।“दशमूलाम्बु सघृतं युक्तं मांसरसेन वा ।ससिद्धार्थकचूर्णं वा पुराणं वैककं घृतम् ॥
”इति घृतादियुक्तदशमूलम् ॥
१३९ ॥
* ॥
अथापस्मारे ।“हृत्कम्पोऽक्षिरुजा यस्य स्वेदो हस्तादि-शीतता ।दशमूलीजलं तस्य कल्याणाज्यञ्च योजयेत् ॥
”इति दशमूलीकल्याणघृतौ ॥
१४० ॥
* ॥
अथ वातरोगे ।“पञ्चमूलीकृतः क्वाथो दशमूलीकृतोऽथवा ।रूक्षः स्वेदस्तथा नस्यं मन्यास्तम्भे प्रशस्यते ॥
”इति पञ्चमूली-दशमूलीक्वाथौ ॥
१४१ ॥
“अर्द्दिते नवनीतेन खादेन्माषेण्डवीं नरः ।क्षीरमांसरसैर्भुक्त्वा दशमूली जलं पिबेत् ॥
”इति दशमूली ॥
१४२ ॥
“माषबलाशुकशिम्बाकत्तृणरास्नाश्वगन्धो-रुवूकाणाम् ।क्वाथो नस्यनिपीतो रामठलवणान्वितः कोष्णः ॥
अपहरति पक्षवातं मन्यास्तम्भं सकर्ण-नादरुजम् ।दुर्ज्जयमर्द्दितवातं सप्ताहाज्जयति चावश्यम् ॥
”इति माषबलादि ॥
१४३ ॥
“दशमूलीबलामाषक्वाथं तैलाज्यमिश्रितम् ।सायं भुक्त्वा पिबेन्नस्यं विश्वच्यामववाहुके ॥
”इति दशमूल्यादि ॥
१४४ ॥
“माषात्मगुप्तकैरण्डवाट्यालकशृतं षिबेत् ।हिङ्गुसैन्धवसंयुक्तं पक्षाघातनिवारणम् ॥
”इति माषादि ॥
१४५ ॥
“वातघ्नैर्दशमूल्या च नरं कुब्जमुपाचरेत् ॥
”इति वातघ्नगणदशमूलीकषायौ ॥
१४६ ॥
“दशमूली बला रास्ना गुडू ची विश्वभेषजम् ।पिबेदेरण्डतैलेन गृध्रसीखञ्जपङ्गुषु ॥
”इति एरण्डतैलयुक्तदशमूल्यादि ॥
१४७ ॥
“शेफालिकादलक्वाथो मृद्बग्निपरिसाधितः ।दुर्व्वारं गृध्रसीरोगं पीतमात्रं समुद्धरेत् ॥
”इति शेफालीक्वाथः ॥
१४८ ॥
“पञ्चमूलीकषायन्तु रुवुतैलविमिश्रितम् ।त्रिवृतैर्व्वाथवा युक्तं गृध्रसीगुल्मशूलनुत् ॥
”इति एरण्डतैलयुक्तपञ्चमूली ॥
१४९ ॥
“दशमूलीकषायेण पिबेद्वा नागराम्भसा ।कटीशूलेषु सर्व्वेषु तैलमेरण्डसम्भवम् ॥
”इति एरण्डतैंलयक्तदशमूलीशुण्ठीक्वाथौ ॥
१५० ॥
“गुग्गुलुं क्रोष्टुशीर्षे तु गुडू ची त्रिफलाम्भसा ।क्षीरेणैरण्डतैलं वा पिबेद्वा वृद्धदारकम् ॥
”इति गुग्गुलुयुक्तगुडू चीत्रिफलाक्वाथः ॥
१५१ ॥
इति वातव्याध्यधिकारः ॥
* ॥
अथ वातरक्ते ।“अमृतानागरधन्याककर्षत्रयेण पाचनकं सिद्धम् ।जयति सरक्तं वातं सामं कुष्ठान्यशेषाणि ॥
”इति अमृतादि ॥
१५२ ॥
“वत्सादन्युद्भवः क्वाथः पीतो गुग्गुलुसंयुतः ।समीरणसमायुक्तं शोणितं संप्रधावयेत् ॥
”इति वत्सादनीक्वाथः ॥
१५३ ॥
“वासागुडूची चतुरङ्गुलाना-मेरण्डतैलेन पिबेत् कषायम् ।क्रमेण सर्व्वाङ्गजमप्यशेषंजयेदसृग्वातभवं विकारम् ॥
”इति वासादि ॥
१५४ ॥
“लीढ्वा मुण्डितिकाचूर्णं मधुसर्पिःसमन्वितम् ।छिन्नाक्वाथं पिबन् हन्ति वातरक्तं सुदुस्तरम् ॥
”इति गुडूचीक्वाथः ॥
१५५ ॥
“तिस्रोऽथवा पञ्चगुडेन पथ्याजग्ध्वा पिबेच्छिन्नरुहाकषायम् ।सवातरक्तं शमयत्युदीर्ण-माजानुसंस्थञ्च निहन्त्यवश्यम् ॥
”इति गुडू चीकषायः ॥
१५६ ॥
इति वातरक्ताधिकारः ॥
* ॥
अथोरुस्तम्भे ।“शिलाजतुं गुग्गुलुं वा पिप्पलीमथ नागरम् ।ऊरुस्तम्भे पिबेन्मूत्रैर्दशमूलीरसेन वा ॥
”इति शिलाजत्वादियुक्तदशमूली ॥
१५७ ॥
“भल्लातकामृताशुण्ठीदारुपथ्यापुनर्नवाः ।पञ्चमूलीद्वयोन्मिश्रा ऊरुस्तम्भनिवारणाः ॥
”इति भल्लातकादि ॥
१५८ ॥
“पिप्पली पीप्पलीमूलं भल्लातक्वाथ एव वा ।कल्को वा समधुर्देय ऊरुस्तम्भविनाशनः ॥
”इति पिप्पल्यादि ॥
१५९ ॥
इत्यूरुस्तम्भाधिकारः ॥
* ॥
अथामवाते ।“शटीशुण्ठ्यभया चोग्रा देवाह्वातिविषामृता ।कषायमामवातस्य पाचनं रूक्षभोजनम् ॥
”इति शट्यादि ॥
१६० ॥
“शटी विषौषधं कल्कं वर्षाभूक्वाथसंयुतम् ।सप्तरात्रं पिबेज्जन्तुरामवातविपाचनम् ॥
”इति पुनर्नवाक्वाथः ॥
१६१ ॥
“दशमूलामृतैरण्डरास्नानागरदारुभिः ।क्वाथोरुवुकतैलेन सामं हन्त्यनिलं गुरुम् ॥
”इति रास्नादशमूलम् ॥
१६२ ॥
“दशमूलीकषायेण पिबेद्वा नागराम्भसा ।कुक्षिवस्तिकटीशूले तैलमेरण्डसम्भवम् ॥
”इति एरण्डतैलयुक्तदशमूलशुण्ठीक्वाथौ ॥
१६३ ॥
“रास्नां गुडूचीमेरण्डं देवदारु महौषधम् ।पिबेत् सर्व्वाङ्गवाते च सामे सन्ध्यस्थिमज्जगे ॥
”इति रास्नापञ्चकम् ॥
१६४ ॥
“रास्नामृतारग्वधदेवदारु-त्रिकण्टकैरण्डपुनर्नवानाम् ।क्वाथं पिबेन्नागरचूर्णमिश्रंजङ्घोरुपृष्ठत्रिकपार्श्वशूली ॥
”इति रास्नासप्तकम् ॥
१६५ ॥
“शुण्ठीगोक्षुरकक्वाथः प्रातः प्रातर्निषेवितः ।सामे वाते कटीशूले पाचनो रुक्प्रणाशनः ॥
”इति गोक्षुरशुण्ठी ॥
१६६ ॥
“आमवाते कणायुक्तं दशमूलीजलं पिबेत् ॥
”इति कणायुक्तदशमूली ॥
१६७ ॥
इत्यामवाताधिकारः ॥
* ॥
अथ शूले ।“बलापुनर्नवैरण्डबृहतीद्वयगोक्षुरैः ।सहिङ्गु लवणं पीतं सद्यो वातरुजापहम् ॥
”इति बलादि ॥
१६८ ॥
“विश्वमेरण्डजं मूलं क्वाथं पीत्वा जलं पिबेत् ।हिङ्गुसौवर्च्चलोपेतं सद्यः शूलनिवारणम् ॥
”इति विश्वादि ॥
१६९ ॥
“हिङ्गुपुष्करमूलाभ्यां हिङ्गुसौवर्च्चलेन वा ।विश्वैरण्डयवक्वाथः सद्यः शूलनिवारणः ॥
”इति हिङ्गुपुष्करमूलयुक्तविश्वैरण्डयवक्वाथः ॥
१७० ॥
“तद्वद्रुवुयवक्वाथो हिङ्गुसौवर्च्चलान्वितः ॥
”इति रुव्वादि ॥
१७१ ॥
“बृहत्यौ गौक्षुरैरण्डकुशकासेक्षुरालिकाः ।पीताः पित्तभवं शूलं सद्यो हन्ति सुदारुणम् ॥
”इति बृहत्यादि ॥
१७२ ॥
“शतावरीसयष्ट्याह्ववाट्यालकुशगोक्षुरैः ।शृतशीतं पिबेत्तोयं सगुडक्षौद्रशर्करम् ॥
पित्तासृग्दाहशूलघ्नं सद्यो दाहज्वरापहम् ॥
”इति शतावर्य्यादि ॥
१७३ ॥
“त्रिफलानिम्बयष्ट्याह्वकटुकारग्वधैः शृतम् ।पाययेन्मधुसंमिश्रं दाहशूलोपशान्तये ॥
”इति त्रिफलादि ॥
१७४ ॥
“तैलमेरण्डजं वापि मधुकक्वाथसंयुतम् ।शूलं पित्तोद्भवं हन्याद्गुल्मं पैत्तिकमेव च ॥
”इति मधुकक्वाथः ॥
१७५ ॥
“त्रिफलारग्वधक्वाथं सक्षौद्रं शर्करान्वितम् ।पाययेद्रक्तपित्तघ्नं दाहशूलनिवारणम् ॥
”इति त्रिफलारग्वधक्वाथः ॥
१७६ ॥
“विल्वमूलमथैरण्डं चित्रकं विश्वभेषजम् ।हिङ्गुसैन्धवसंयुक्तं सद्यः शूलनिवारणम् ॥
”इति विल्वमूलादि ॥
१७७ ॥
“सक्षारं वा पिबेत् क्वाथं विल्वादेः कफशूलवान् ॥
”इति विल्वादिक्वाथः ॥
१७८ ॥
“मातुलुङ्गरसो वापि शिग्रुक्वाथस्तथापरः ।सक्षारो मधुना पीतः पार्श्वहृद्वस्तिशूलनुत् ॥
”इति शिग्रुक्वाथः ॥
१७९ ॥
“आमशूले क्रिया कार्य्या कफशूल-विनाशिनी ।सेव्यमामहरं सर्व्वं यदन्यदग्निवर्द्धनम् ॥
पटोलत्रिफलारिष्टक्वाथं समधुकं पिबेत् ।पित्तश्लेष्मज्वरच्छर्द्दिदाहशूलोपशान्तये ॥
”इति पटोलादि ॥
१८० ॥
“विश्वोरुवूकदशमूलयवाम्भसा तुद्विक्षारहिङ्गुलवणत्रयपुष्कराणाम् ।चूर्णं पिबेद्धदयपार्श्वकटीग्रहाम-पक्वाशयांशभृशरुग्ज्वरगुल्मशूली ॥
”इति विश्वादि ॥
१८१ ॥
“क्वाथेन चूर्णपानं यत्तत्र क्वाथप्रधानता ।प्रवर्त्तते न तेनात्र चूर्णापेक्षी चतुर्द्रवः ॥
चूर्णं समं रुचकहिङ्गुमहौषधानांशुण्ठ्यम्बुना कफसमीरणपित्तजेषु ।हृत्पार्श्वपृष्ठजठरार्त्तिविसूचिकासुपेयं तथा यवरसेन तु विड्विबन्धे ॥
” १८२ ॥
“समं शुण्ठ्यम्बुनेत्येवं योजनां क्रियते बुधैः ।तेनाल्पमानमेवात्र हिङ्गु संपरिदीयते ॥
”इति रुचकादि ॥
१८३ ॥
“हिङ्गु सौवर्च्चलं पथ्या विडसैन्धवतुम्बरु ।पौष्करञ्च पिबेच्चूर्णं दशमूलयवाम्भसा ॥
पार्श्वहृत्कटिपृष्ठांशशूले तन्त्रापतानके ।शोथश्लेष्मश्वासके च कर्णरोगे च शस्यते ॥
”इति हिङ्ग्वादिचूर्णयुक्तदशमूलीयक्वाथः ॥
१८४ ॥
“एरण्डविश्वबृहतीद्बयमातुलुङ्ग-पाषाणभिद्विकटमूलकृतः कषायः ।सक्षारहिङ्गुलवणो रुवुतैलमिश्रःश्रोण्यंशमेढ्रहृदयस्तनवक्षसि यः ॥
”इति एरण्डसप्तकः ॥
१८५ ॥
“एरण्डफलमूलानि बृहतीद्वयगोक्षुरम् ।पर्णिन्यः सहदेवा च सिंहपुच्छीक्षुरालिका ॥
तुल्यैरेतैः शृतं तोयं यवक्षारयुतं पिबेत् ।पृथग्दोषभवं शूलं हन्यात् सर्व्वभवन्तथा ॥
”इति एरण्डद्वादशकः ॥
१८६ ॥
इति शूलाधिकारः ॥
* ॥
अथोदावर्त्ते ।“श्यामा दन्ती द्रवन्ती त्वक् महाश्यामा स्नुहीत्रिवृत् ।सप्तला शङ्खिनी श्वेता राजवृक्षः सतिन्दुकः ॥
कम्पिल्लकः करञ्जश्च हेमक्षीरीत्ययं गणः ।सपिस्तैलरजःक्वाथकल्केष्वन्यतमेन च ॥
उदावर्त्तोदरानाहविषगुल्मादिनाशनः ॥
”इति प्रत्येकं श्यामादिगणक्वाथः ॥
१८७ ॥
इत्युदावर्त्ताधिकारः । आनाहोऽपि ॥
* ॥
अथ हृद्रोगे ।“वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् ।द्बिपञ्चमूलीक्वाथेन सस्नेहलवणेन च ॥
”इति स्नेहलवणयुक्तदशमूली ॥
१८८ ॥
“नागरं वा पिबेदुष्णं कषायञ्चाग्निवर्द्धनम् ।कासश्वासानिलहरं शूलहृद्रोगनाशनम् ॥
”इति नागरक्वाथः ॥
१८९ ॥
“वचानिम्बकषायाभ्यां वान्तं हृदि कफोत्थिते ।वातहृद्रोगहृच्चूर्णं पिप्पल्यादिञ्च पाचयेत् ॥
”इति वचानिम्बकषायौ ॥
१९० ॥
“हिङ्गूग्रगन्धाविडविश्वकृष्णा-कुष्ठाभयाचित्रकयावशूकम् ।पिबेत् ससौवर्च्चलपुष्कराढ्यंयवाम्भसा शूलहृदामयघ्नम् ॥
”इति हिङ्ग्वादिचूर्णयुक्तयवक्वाथः ॥
१९१ ॥
“दशमूलकषायन्तु लवणक्षारसंयुतम् ।कासं श्वासञ्च हृद्रोगं गुल्मशूलञ्च नाशयेत् ॥
”इति लवणक्षारयुक्तदशमूली ॥
१९२ ॥
इति हृद्रोगाधिकारः ॥
* ॥
अथ मूत्रकृच्छ्रे ।“अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकम् ।प्रपिबेद्वातरोगार्त्तः सशूलो मूत्रकृच्छ्रवान् ॥
”इति अमृतादि ॥
१९३ ॥
“कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम् ।पित्तकृच्छ्रहरं पञ्चमूलं वस्तिविशोधनम् ॥
”इति तृणपञ्चमूलम् ॥
१९४ ॥
“एतत् सिद्धं पयः पीत्वा मेढ्रगं हन्ति शोणितम् ॥
शतावरीकाशकुशश्वदंष्ट्रा-विदारिशालीक्षुकशेरुकाणाम् ।क्वाथं सुशीतं मधुशर्कराक्तंपिबन् जयेत् पैत्तिकमूत्रकृच्छ्रम् ॥
”इति शतावर्य्यादि ॥
१९५ ॥
“हरीतकीगोक्षुरराजवृक्ष-पाषाणभिद्धन्वषवासकानाम् ।क्वाथं पिबेन्माक्षिकसंप्रयुक्तंकृच्छ्रे सदाहे सरुजे विबन्धे ॥
”इति हरीतक्यादि ॥
१९६ ॥
“श्वदंष्ट्रा विश्वतोयं वा कफकृच्छ्रविनाशनम् ॥
”इति श्वदंष्टाविश्वकषायौ ॥
१९७ ॥
“बृहतीधावनीपाठायष्टीमधुकपिङ्गलाः ।पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः ॥
”१९८ ॥
“क्वाथं गोक्षुरबीजस्य यवक्षारयुतं पिबेत् ।मूत्रकृच्छ्रं शकृज्जञ्च पीतः शीघ्रं निवारयेत् ॥
”इति यवक्षारयुक्तगोक्षुरबीजक्वाथः ॥
१९९ ॥
“क्रिया हिता त्वश्मरिशर्करायांया मूत्रकृच्छ्रे कफमारुतोत्थे ।यन्मूत्रकृच्छ्रे विहितन्तु पैत्तेतत् कारयेच्छोणितमूत्रकृच्छ्रे ॥
त्रिकण्टकारग्वधदर्भकाश-दुरालभापर्व्वतभेदपथ्याः ।निघ्नन्ति पीता मधुनाश्मरीञ्चसंप्राप्तमृत्योरपि मूत्रकृच्छ्रम् ॥
”इति त्रिकण्टकादि ॥
२०० ॥
“कषायोऽतिबलामूलसाधितोऽशेषकृच्छ्रजित् ॥
”इति अतिबलाकषायः ॥
२०१ ॥
इति मूत्रकृच्छ्राधिकारः ॥
* ॥
अथ मूत्राघाते ।“मूत्राघातान् यथादोषं मूत्रकृच्छ्रहरैर्ज्जयेत् ।पिबेच्छिलाजतुक्वाथे गणे वीरतरादिके ॥
”इति शिलाजतुयुक्तवीरतरादिक्वाथः ॥
२०२ ॥
“रसं दुरालभाया वा कषायं वासकस्य वा ॥
”इति दुरालभारसवासाकषायौ ॥
२०३ ॥
इति मूत्राघाताधिकारः ॥
* ॥
अथाश्मर्य्याम् ।“वरुणस्य त्वचं श्रेष्ठां शुण्टीगोक्षुरसंयुताम् ।यवक्षारगुडं दत्त्वा क्वाथयित्वा पिबेद्धिताम् ॥
अश्मरीं वातजां हन्ति चिरकालानुबन्धिनीम् ॥
”इति वरुणत्वगादि ॥
२०४ ॥
“वीरतरः सहचरौ दर्भो वृक्षादनी नलः ।गुन्द्रा काशकुशावश्मभेदमोरटटुण्टुकाः ॥
कुरुण्टकोऽथ वशिरो वसुकः साग्निमन्थकः ।इन्दीवरी श्वदंष्ट्रा च तथा कापोतवक्त्रकः ॥
वीरतरादिरित्येष गणो वातविकारनुत् ।अश्मरीशर्करामूत्रकृच्छ्राघातरुजापहः ॥
”इति वीरतरादिगणक्वाथः ॥
२०५ ॥
“शुण्ठ्यग्निमन्थपाषाणशिग्रुवरुणगोक्षुरैः ।अभयारग्वधफलैः क्वाथं कुर्य्याद्बिचक्षणः ॥
रामठक्षारलवणचूर्णं दत्त्वा पिबेन्नरः ।अश्मरीमूत्रकृच्छ्रघ्नं पाचनं दीपनं परम् ॥
हन्यात् कोष्ठाश्रितं वातं कट्यूरुगुदमेढ्रगम् ॥
”इति शुण्ठ्यादि ॥
२०६ ॥
“वरुणत्वक्कषायन्तु पीतन्तु गुडसंयुतम् ।अश्मरीं पातयत्याशु वस्तिशूलविनाशनम् ॥
”इति वरुणक्वाथः ॥
२०७ ॥
“पिबेद्वरुणमूलत्वक्वाथं तत्कल्कसंयुतम् ॥
”इति वरुणकल्कयुक्तवरुणत्वक्कषायः ॥
२०८ ॥
“क्वाथश्च शिग्रुमूलोत्थः कदुष्णोऽश्मरिघातनः ॥
”इति शिग्रुक्वाथः ॥
२०९ ॥
“नागरवरुणकगोक्षुरपाषाणभित्कपोतवक्त्रजःक्वाथः ।गुडयावशूकमिश्रः पीतो हन्त्यश्मरीमुग्राम् ॥
”इति नागरादि ॥
२१० ॥
“वरुणत्वक्शिलाभेदशुण्ठीगोक्षुरकैः कृतः ।कषायः क्षारसंयुक्तः शर्कराञ्च भिनत्त्यपि ॥
”इति वरुणत्वगादि ॥
२११ ॥
“श्वदंष्ट्रैरण्डपत्राणि नागरं वरुणत्वचम् ।एतत्क्वाथवरं प्रातः पिबेदश्मरिभेदनम् ॥
”इति श्वदंष्ट्रादि ॥
२१२ ॥
“एलोपकुल्यामधुकाश्मभेद-कौन्तीश्वदंष्ट्रावृषकोरुवूकैः ।क्वाथं पिबेदश्मजतुप्रगाढंसशर्करे साश्मरिमूत्रकृच्छ्रे ॥
”इति एलादि ॥
२१३ ॥
“शुक्राश्मर्य्यान्तु सामान्यो विधिरश्मरिनाशनः ॥
”इत्यश्मरीशर्कराधिकारः ॥
* ॥
अथ मेहे ।“दूर्व्वाकशेरुपूतीककुम्भीकप्लवशैवलम् ।जले निःक्वथितं पीतं शुक्रमेहहरं परम् ॥
”इति दूर्व्वादि ॥
२१४ ॥
“त्रिफलारग्वधद्राक्षाकषायो मधुना युतः ।पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम् ॥
”इति त्रिफलादि ॥
२१५ ॥
“लोध्राभयाकटफलमुस्तकानांविडङ्गपाठार्ज्जनधन्वनानाम् ।कदम्बशालार्ज्जुनदीप्यकानांविडङ्गदार्व्वीधवशल्यकानाम् ॥
चत्वार एते मधुना कषायाःकफप्रमेहेषु निषेवणीयाः ॥
अश्वत्थाच्चतुरङ्गुल्या न्यग्रोधादेः फलत्रयात् ।सजिङ्गिरक्तसाराच्च क्वाथाः पञ्च समाक्षिकाः ॥
नीलहारिद्रशुक्लाख्यान् क्षारमाञ्जिष्ठसाह्वयान् ।मेहान् हन्युः क्रमादेते सक्षौद्रो रक्तमेह-जित् ॥
क्वाथः खर्ज्जूरकाश्मर्य्यतिन्दुकास्थ्यमृताकृतः ॥
”इति खर्ज्जूरादि ॥
२१६ ॥
“लोध्रार्ज्जुनोशीरकुचन्दनानाम् २१७अरिष्टसेव्यामलकाभयानाम् । २१८ ।धात्र्यर्ज्जुनारिष्टकवत्सकानां २१९नीलोत्पलैलातिनिशार्ज्जुनानाम् ॥
२२० ॥
चत्वार एते विहिताः कषायाःपित्तप्रमेहे मधुसंप्रयुक्ताः ॥
”इति कषायचतुष्टयम् ॥
२२१ ॥
“छिन्नावह्निकषायेण पाठाकुटजरामठम् ।तिक्तां कुष्ठश्च सञ्चूर्ण्य सर्पिर्मेहे पिबेन्नरः ॥
”इति छिन्नावह्निकषायः ॥
२२२ ॥
“कदरखदिरपूगक्वाथं क्षौद्राह्वये पिबेत् ॥
”इति कदरादि ॥
२२३ ॥
“अग्निमन्थकषायन्तु वसामेहे प्रयोजयेत् ॥
”इति अग्निमन्दकषायः ॥
२२४ ॥
“पाठाशिरीषदुस्पर्शमुर्व्वाः किंशुकतिन्दुकौ ।कपित्थानां भिषक् क्वाथं हस्तिमेहे प्रयोजयेत् ॥
”इति पाठादि ॥
२२५ ॥
“कषायस्त्रिफलादारुमुस्तकैरथवा कृतः ॥
”इति त्रिफलादि ॥
२२६ ॥
“फलत्रिकं दारु निशां विशालांमुस्तञ्च निष्क्वाथ्य निशांशकल्कम् ।पिबेत् कषायं मधुसंप्रयुक्तंसर्व्वप्रमेहेषु समुत्थितेषु ॥
”इति फलत्रिकादि ॥
२२७ ॥
“कटङ्कटेरीमधुकत्रिफलाचित्रकैः समैः ।सिद्धः कषायः पातव्यः प्रमेहाणां विनोत्थितः ॥
”इति कटङ्कटेर्य्यादि ॥
२२८ ॥
“त्रिफलादारुदार्व्व्यब्दक्वाथः क्षौद्रेण मेहहा ॥
इति त्रिफलादि ॥
२२९ ॥
“कुटजासनदार्व्व्यब्दफलत्रयभवोऽथवा ॥
”इति कुटजादि ॥
२३० ॥
इति प्रमेहाधिकारः ॥
* ॥
अथोदरे ।“पयसा सत्रिवृत्कल्केनोरुवूकशृतेन वा ।सप्तलात्रायमाणाभ्यां शृतेनारग्वधेन वा ॥
”इति त्रिवृत्कल्कयुक्तारग्वधक्वाथैरण्डक्वाथौ ॥
२३१ ॥
“सन्निपातोदरे सर्व्वां यथोक्तां कारयेत् क्रियाम् ।पीतः प्लीहोदरं हन्यात् पिप्पलीमरिचान्वितः ॥
अम्लवेतससंयुक्तः शिग्रुक्वाथः ससैन्धवः ॥
”इति शिग्रुक्वाथः ॥
२३२ ॥
“दशमूलदारुनागरच्छिन्नरुहापुनर्नवाक्वाथः ।जयति जलोदरशोथश्लीपदगलगण्डवात-रोगांश्च ॥
”इति दशमूलादि ॥
२३३ ॥
“हरीतकीनागरदेवदारुपुनर्नवाच्छिन्नरुहाकषायः ।सगुग्लुर्मूत्रयुतश्च पेयःशोथोदराणां प्रवरः प्रयोगः ॥
”इति हरीतक्यादि ॥
२३४ ॥
“एरण्डतैलं दशमूलमिश्रंगोमूत्रयुक्तस्त्रिफलारसो वा ।निहन्ति वातोदरशोथशूलंक्वाथः समूत्रो दशमूलजश्च ॥
”इति एरण्डतैलेन गोमूत्रेण वा युक्ता दशमूली ॥
२३५ ॥
“पुनर्नवानिम्बपटोलशुण्ठी-तिक्तामृतादार्व्वभयाकषायः ।सर्व्वाङ्गशोथोदरकाशशूल-श्वासान्वितं पाण्डुगदं निहन्ति ॥
”इति पुनर्नवाष्टकम् ॥
२३६ ॥
“पुनर्नवादार्व्वभयागुडूचींपिबेत् समूत्रां महिषाक्षयुक्ताम् ।त्वग्दोषशोथोदरपाण्डुरोग-स्थौल्यप्रसेकोर्द्धकफामयेषु ॥
”इति पुनर्नवाचतुष्कम् ॥
२३७ ॥
इति उदराधिकारः ॥
* ॥
अथ शोथे ।“शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम् ।वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ॥
”इति शुण्ठ्यादि ॥
२३८ ॥
“दशमूलं सर्व्वथा च शस्तं वाते विशेषतः ॥
”इति दशमूलम् ॥
२३९ ॥
“क्षीराशनः पित्तकृतेऽथ शोथेत्रिवृद्गुडूचीत्रिफलाकषायम् ।पिबेद्गवां मूत्रविमिश्रितं वाफलत्रिकाचूर्णमथाक्षमात्रम् ॥
”इति त्रिवृतादि ॥
२४० ॥
“अभया दारु मधुकं तिक्ता दन्ती सपिप्पली ।पटोलं चन्दनं दार्व्वी त्रायमाणेन्द्रवारुणी ॥
एषां क्वाथः ससर्पिष्कः श्वयथुज्वरदाहहा ।वीसर्पतृष्णासन्तापसन्निपातविषापहः ॥
”इति अभयादि ॥
२४१ ॥
“पुनर्नवाविश्वत्रिवृद्गुडूची-सम्पाकपथ्यामरदारुकल्कम् ।शोथे कफोत्थे महिषाक्षमूत्र-युक्तं पिबेद्वा सलिलं तथैषाम् ॥
”इति पुनर्नवासप्तकम् ॥
२४२ ॥
“पुनर्नवादारुशुण्ठीक्वाथे मूत्रेऽथ केवले ।दशमूलजले वापि गुग्गुलुः शोथनाशनः ॥
”इति गुग्गुलुयुक्तपुनर्नवादिदशमूलक्वाथौ ॥
२४३ ॥
“सिंहास्यामृतभण्टाकीक्वाथं कृत्वा समाक्षिकम् ।पीत्वा शोथं जयेज्जन्तुः कासं श्वासं ज्वरंवमिम् ॥
”इति सिंहास्यादि ॥
२४४ ॥
“भूनिम्बविश्वकल्कं जग्धा पेयः पुनर्नवाक्वाथः ।अपहरति नियतमाशु शोथं सर्व्वाङ्गगं नणाम् ॥
”इति पुनर्नवाक्वाथः ॥
२४५ ॥
इति शोथाधिकारः ॥
* ॥
अथान्त्रवृद्धौ ।“पुनर्नवायास्तैलं वा तैलं नारायणन्तथा ।पाने वस्तौ रुवोस्तैलं पेयं वा दशकाम्भसा ॥
”इति रुवुतैलयुक्तदशमूलम् ॥
२४६ ॥
“रास्नायष्ट्यमृतैरण्डवलागोक्षुरसाधितः ।क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुवुतैलेन मिश्रितः ॥
”इति रास्नादि ॥
२४७ ॥
इति ब्रध्नवृद्ध्यधिकारः ॥
* ॥
अथ विद्रधौ ।“पुनर्नवादारुविश्वदशमूलाभयाम्भसा ।गुग्गुलुं रुवुतैलं वा पिबेन्मारुतविद्रधौ ॥
”इति पुनर्नवादि ॥
२४८ ॥
“पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥
”इति त्रिवृत्कल्कयुक्तत्रिफलाक्वाथः ॥
२४९ ॥
“दशमूलीकषायेण सन्दोहनरसेन वा ।शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥
”इति दशमूलीकषायः ॥
२५० ॥
“क्वाथो वंशत्वगेरण्डश्वदंष्ट्राश्मभिदा कृतः ।सहिङ्गुसैन्धवः पीतः कोष्ठस्थं स्रावयेदसृक् ॥
”इति वंशत्वगादिक्वाथः ॥
२५१ ॥
* ॥
अथोपदंशे ।“पटोलनिम्बत्रिफलागुडूची-क्वाथं पिबेद्वा खदिराशनाभ्याम् ।सगुग्गुलुं वा त्रिफलायुतं वासर्व्वोपदंशापहरः प्रयोगः ॥
”इति पटोलादि ॥
२५२ ॥
“त्रिफलायाः कषायेण भृङ्गराजरसेन वा ।वणप्रक्षालनं कुर्य्यादुपदंशप्रशान्तये ॥
”इति त्रिफलाक्वाथः ॥
२५३ ॥
“जयाजात्यश्वमारार्कसम्पाकानां दलैः पृथक् ।कतं प्रक्षालने क्वाथं मेढ्रपाके प्रयोजयेत् ॥
”इति जयादिक्वाथः ॥
२५४ ॥
* ॥
अथ भग्ने ।“न्यग्रोधादिकषायन्तु सुशीतं परिषेचने ॥
”इति न्यग्रोधादि ॥
२५५ ॥
* ॥
अथ कुष्ठे ।“त्रिफलापटोलरजनीमञ्जिष्ठारोहिणीवचा-निम्बैः ।एष कषायोऽभ्यस्तो निहन्ति कफपित्तजंकुष्ठम् ॥
”इति नवकषायः ॥
२५६ ॥
“पटोलखदिरारिष्टत्रिफलाकृष्णवेत्रजम् ।तिक्ताशनः पिबेत् क्वाथं कुष्ठी कुष्ठं व्यपोहति ॥
”इति पटोलादि ॥
२५७ ॥
“धात्रीखदिरयोः क्वाथं पीत्वा वल्गुजसंयुतम् ।शङ्खेन्दुधवलं श्वित्रं तूर्णं हन्ति न संशयः ॥
”इति धात्रीखदिरक्वाथः ॥
२५८ ॥
* ॥
अथ शीतपित्ते ।“उदर्द्दे वमनं कार्य्यं पटोलारिष्टवारिणा ॥
”इति पटोलारिष्टजलम् ॥
२५९ ॥
* ॥
अथाम्लपित्ते ।“निस्तुषयववृषधात्रीक्वाथस्त्रिसुगन्धियुतः पीतः ।अपनयति चाम्लपित्तं यदि भुङ्क्ते मुद्गयूषेण ॥
”इति निस्तुषयवादि ॥
२६० ॥
“कफपित्तवमीकण्डूज्वरविस्फोटदाहहा ।पाचनो दीपनः क्वाथः शृङ्गवेरपटोलयोः ॥
”इति शृङ्गवेरपटोलक्वाथः ॥
२६१ ॥
“पटोलं नागरं धान्यं क्वाथयित्वा जलं पिबेत् ।कण्डूपामार्त्तिशूलघ्नं कफपित्ताग्निमान्द्यजित् ॥
”इति पटोलादि ॥
२६२ ॥
“पटोलविश्वामृतरोहिणीकृतंजलं पिबेत् पित्तकफोच्छ्रये च ।शूलभ्रमारोचकवह्निमान्द्य-कासज्वरच्छर्द्दिनिवारणन्तत् ॥
”इति पटोलादि ॥
२६३ ॥
“यवकृष्णापटोलानां क्वाथं क्षौद्रयुतं पिबेत् ।नाशयेदम्लपित्तञ्च अरुचिञ्च वमिन्तथा ॥
”इति यवादि ॥
२६४ ॥
“वास्रामृतापर्पटकभूनिम्बनिम्बमार्कवैः ।त्रिफलाकुलकैः क्वाथः सक्षौद्रश्चाम्लपित्तहा ॥
”इति दशाङ्गम् ॥
२६५ ॥
“फलत्रिकं पटोलञ्च तिक्ताक्वाथः सितायुतः ।पीतः क्लीतकमध्वक्तो ज्वरच्छर्द्द्यम्लपित्तजित् ॥
”इति फलत्रिकादि ॥
२६६ ॥
“पटोलधन्याकमहौषधाब्दैःकृतः कषायो विनिहन्ति शीघ्रम् ।मन्दानलं पित्तवलासदाह-च्छर्द्दिज्वरामानिलशूलरोगान् ॥
”इति पटोलादि ॥
२६७ ॥
“छिन्नोद्भवानिम्बपटोलपत्रंफलत्रयं सुक्वथितं सुशीतम् ।क्षौद्रान्वितं पीतमनेकरूपंसुदारुणं हन्ति तदम्लपित्तम् ॥
”इति छिन्नोद्भवादि ॥
२६८ ॥
“पटोलत्रिफलानिम्बशृतं मधुयुतं पिबेत् ।पित्तश्लेष्मज्वरच्छर्द्दिदाहशूलोपशान्तये ॥
”इति पटोलादि ॥
२६९ ॥
“सिंहस्यामृतभण्टाकीक्वाथं कृत्वा समाक्षिकम् ।अम्लपित्तं जयेज्जन्तुः कासं श्वासं ज्वरं वमिम् ॥
”इति सिंहास्यादि ॥
२७० ॥
इति अम्लपित्ताधिकारः ॥
* ॥
अथ विसर्पे ।“तृणवर्ज्जं प्रयोक्तव्यं पञ्चमूलचतुष्टयम् ॥
”इति पञ्चमूलत्रयम् ॥
२७१ ॥
“मुस्तारिष्टपटोलानां क्वाथः सर्व्वविसर्पनुत् ॥
”इति मुस्तादि ॥
२७२ ॥
“धात्रीपटोलमुद्गानामथवा घृतसंप्लुतः ॥
”इति धात्र्यादि ॥
२७३ ॥
“अमृतवृषपटोलं निम्बपत्रैरुपेतंत्रिफलखदिरसारं व्याधिघातञ्च तुल्यम् ।क्वथितमिदमशेषं गुग्गुलोर्भागयुक्तंजयति विषविसर्पान् कुष्ठमष्टादशाख्यम् ॥
”इति नवकषायः ॥
२७४ ॥
“अमृतवृषपटोलं मुस्तकं सप्तपर्णंखदिरमसितवेत्रं निम्बपत्रं हरिद्रे ।विविधविषविसर्पान् कुष्ठविस्फोटकण्डू-रपनयति मसूरीं शीतपित्तं ज्वरञ्च ॥
”इति अमृतादि ॥
२७५ ॥
“पटोलामृतभूनिम्बवासकारिष्टपर्पटैः ।खदिराब्दयुतैः क्वाथो विस्फोटार्त्तिज्वरापहः ॥
”इति पटोलादि ॥
२७६ ॥
“पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः ।समुर्व्वा रोहिणी पाठा रजनी सदुरालभा ॥
कषायं पाययेदेतत् पित्तश्लेष्मज्वरापहम् ।कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम् ॥
”इति पटोलादि ॥
२७७ ॥
“भूनिम्बवासाकटुकापटोल-फलत्रिकाचन्दननिम्बसिद्धः ।विसर्पदाहज्वरवक्त्रशोष-विस्फोटतृष्णावमिनुत् कषायः ॥
”इति भूनिम्बादि ॥
२७८ ॥
“सकफे पित्तयुक्ते तु त्रिफलां योजयेन्नरः ।दुरालभां पर्पटकं पटोलं कटुकान्तथा ।कोष्णं गुग्गुलुसंयुक्तं पिबेद्बा खदिराष्टकम् ॥
”इति दुरालभादि ॥
२७९ ॥
“कुण्डली पिचुमर्द्दाम्बु खदिरेन्द्रयवाम्बु वा ।विस्फोटान्नाशयत्याशु वायुर्जलधरानिव ॥
”इति कुण्डल्यादि ॥
२८० ॥
* ॥
अथ मसूर्य्याम् ।“दुरालभां पर्पटकं भूनिम्बं कटुरोहिणीम् ।श्लैष्मिक्यां पित्तजायां वा पाने निःक्वाथ्य दापयेत् ॥
”इति दुरालभादि ॥
२८१ ॥
“निम्बं पर्पटकं पाटां पटोलं कटुरोहिणीम् ।वासां दुरालभां धात्रीमुशीरं चन्दनद्बयम् ॥
एष निम्बादिकः क्वाथः पीतः शर्करया युतः ।हन्ति त्रिदोवमसूरीं क्षयवीसर्पसम्भवाम् ॥
उत्थिता प्रविशेद्या तु पुनस्तां वाह्यतो नयेत् ॥
”इति निम्बादि ॥
२८२ ॥
“पटोलकुण्डलीमुस्तवृषधन्वयवासकैः ।भूनिम्बनिम्बकटुकापर्पटैश्च शृतं जलम् ॥
मसूरीं शमयेदामां पक्वाञ्चैव विशोषयेत् ।नातः परतरं किञ्चिद्विस्फोटज्वरशान्तये ॥
”इति पठोलादि ॥
२८३ ॥
“पटोलमूलारुणतण्डूलीयकंपिबेद्धरिद्रामलकल्कसंयुतम् ।मसूरिविस्फोटविदाहशान्तयेतदेव पित्तास्रवमिज्वरापहम् ॥
”इति पटोलादि ॥
२८४ ॥
“पटोलमूलारुणतण्डूलीयकंतथैव धात्रीखदिरेण संयुतम् ।पिबेज्जलं सुक्वथितं सुशीतंमसूरिकारोगविनाशनं परम् ॥
”इति पटोलमूलादि ॥
२८५ ॥
“खदिरत्रिफलारिष्टपटोलामृतवासकैः ।क्वाथोऽष्टकाङ्गो जयति रोमान्तीञ्च मसूरिकाम् ॥
वीसर्पकुष्ठविस्फोटकण्ड्वादीनपि पानतः ॥
”इति खदिराष्टकम् ॥
२८६ ॥
“अमृतादिकषायस्तु जयेत् पित्तकफात्मिकाः ॥
”इति अमृतादि ॥
२८७ ॥
“जातीपत्रं समञ्जिष्ठं दार्व्वीं पूगफलं शमीम् ।धात्रीफलं समधुकं क्वथितं मधुसयुतम् ॥
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशश्यते ॥
”इति जातीपत्रादि ॥
२८८ ॥
“अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ॥
”इति गवेधुमधुकक्वाथः ॥
२८९ ॥
“वेदनादाहशान्त्यर्थं स्वराणाञ्च विशुद्धये ।सगुग्गुलं वराक्वाथं युञ्ज्याद्वा खदिराष्टकम् ॥
”इति वराक्वाथखदिराष्टकौ ॥
२९० ॥
“निम्बातिमुक्तकाशोकप्लक्षवेतसपल्लवैः ।निशापर्य्युषितः क्वाथो मसूरीभयनाशनः ॥
”इति निम्बादि ॥
२९१ ॥
इति मसूर्य्यधिकारः ॥
* ॥
अथ मुखरोगे ।“बृहतीभूमिकदम्बककण्टकार्य्याः क्वाथः ।गण्डूषतैलयुक्तः क्रिमिदस्तस्य वेदनाशमनः ॥
”इति बृहत्यादि ॥
२९२ ॥
“क्वाथपानन्तु दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् ।हरीतकीकषायो वा पेयो माक्षिकसंयुतः ॥
”इति दार्व्व्यादिहरीतकीकषायौ ॥
२९३ ॥
“कटुकातिविषादारुपाठामुस्तकलिङ्गकाः ।गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः ॥
”इति कटकादि ॥
२९४ ॥
* ॥
मुखपाके ।“जातीपत्रामृताद्राक्षायासदार्व्वीफलत्रिकैः ।क्राथः क्षौद्रयुतः शीतो गण्डूषो मुखपाकनुत् ॥
”इति जातीपत्रादि ॥
२९५ ॥
“पटोलनिम्बजम्ब्वाम्रमालतीनवपल्लवाः ।पञ्चपल्लवकः श्रेष्ठः कषायो मुखधावने ॥
”इति पटोलादि ॥
२९६ ॥
“पञ्चवल्ककषायो वा त्रिफलाक्वाथ एव वा ।मुखपाकेषु सक्षौद्रः प्रयोज्यो मुखधावने ॥
”इति पञ्चवल्कत्रिफलाकषायौ ॥
२९७ ॥
“स्वरसः क्वथितो दार्व्व्या घनीभूतो रसक्रिया ।सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा ॥
”इति दार्व्वीक्वाथः ॥
२९८ ॥
“सप्तच्छदोशीरपटोलमुस्त-हरीतकीतिक्तकरोहिणीभिः ।यष्ट्याह्वराजद्रुमचन्दनैश्चक्वाथं पिबेत् पाकहरं मुखस्य ॥
”इति सप्तच्छदयष्ट्याह्वादिकषायौ ॥
२९९ ॥
“पटोलशुण्ठीत्रिफलाविशाला-त्रायन्तितिक्तात्रिवृतामृतानाम् ।पीतः कषायो मधुना निहन्तिमुखे स्थितस्तस्य गदानशेषान् ॥
”इति पटोलादि ॥
३०० ॥
“क्वथितास्त्रिफलापाठामृद्वीकाजातिपल्लवाः ।निषेव्या भक्षणीया वा त्रिफला मुखपाकहा ॥
”इति त्रिफलादि ॥
३०१ ॥
इति मुखरोगाधिकारः ॥
* ॥
अथ प्रदरे ।“दार्व्वीरसाञ्जनवृषाब्दकिरातविल्व-भल्लातकैरवकृतो मधुना कषायः ।पीतो जयत्यतिबलं प्रदरं सशूलंपीतासितारुणविलोहितनीलकृष्णम् ॥
”इति दार्व्व्यादि ॥
३०२ ॥
* ॥
अथ योनिव्यापदि ।“गुडूचीत्रिफलादन्तीक्वाथैश्च परिषेचनम् ॥
”इति गुडूचीत्रिफलादन्तीक्वाथाः ॥
३०३ ॥
अथ गर्भिण्याम् ।“चन्दनं शारिवालोध्रमृद्वीकाशर्करान्वितम् ।एष क्वाथः प्रदातव्यो गर्भिण्या ज्वरशान्तये ॥
”इति चन्दनादि ॥
३०४ ॥
“ह्रीवेरारलुरक्तचन्दनबलाधन्याकवत्सादनी-मुस्तोशीरयवासपर्पटविषाक्वाथं पिबेद्गर्भिणी ।नानावर्णरुजातिसारकगदे गर्भाश्रिते वा ज्वरेयोगोऽयं मुनिभिः पुरा निगदितः सूत्यामये-षूत्तमः ॥
”इति बृहथ्रीवेरादि ॥
३०५ ॥
* ॥
अथ स्तनरोगे ।“हरिद्रादिं वचादिं वा प्रपिबेत् स्तन्यवृद्धये ॥
”इति हरिद्रादिवचादिक्काथौ ॥
३०६ ॥
“तत्र वातात्मके स्तन्ये दशमूलीजलं पिबेत् ॥
”इति दशमूलक्वाथः ॥
३०७ ॥
“पित्तदुष्टेऽमृताभीरुपटोलं निम्बचन्दनम् ।धात्री कुमारश्च पिबेत् क्वाथयित्वा सशारिवम् ॥
”इति अमृतादि ॥
३०८ ॥
“कफे वा त्रिफलाचव्यभूनिम्बकटुरोहिणी ॥
”इति त्रिफलादि ॥
३०९ ॥
“धात्री स्तन्यविशुद्ध्यर्थं मुद्गाष्टकरसाशना ।भार्गीदारुवचापाठाः पिबेत् सातिविषाःशृताः ॥
”इति भार्ग्यादि ॥
३१० ॥
“सघृतं त्रिफलाक्वाथं स्तनरोगहरं पिवेत् ॥
”इति सघृतत्रिफलाक्वाथः ॥
३११ ॥
* ॥
अथ सूतिकारोगे ।“अमृतानागरसहचरभद्रोत्कटपञ्च-मूलजलद-जलम् ॥
शृतशीतं मधुयुतं निवारयति सूतिकातङ्कम् ॥
”इति सूतिकादशमूलम् ॥
३१२ ॥
“सहचरपुष्करवेतसमूलं वैकङ्कतदारुकुलत्थ-समम् ।जलमत्र ससैन्धवहिङ्गुयुतं सद्यो ज्वरसूतिक-शूलहरम् ॥
”इति सहचरादि ॥
३१३ ॥
“दशमूलीकृतः क्वाथः सद्यः सूतीरुजापहः ॥
”इति दशमूली ॥
३१४ ॥
* ॥
अथ मक्कल्लशूले ।“सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् ।यवक्षारं पिवेत्तत्र मस्तुनोष्णोदकेन वा ॥
पिप्पल्यादिगणक्वाथं पिबेद्वा लवणान्वितम् ॥
”इति पिप्पल्यादिगणक्वाथः ॥
३१५ ॥
इति स्त्रीरोगाधिकारः ॥
* ॥
अथ बालरोगे ।“भैषज्यं पूर्व्वमुद्दिष्टं नराणां यज्ज्वरादिषु ।कार्य्यन्तदेव बालानां मात्रा त्वस्य कनीयसी ॥
हरिद्राद्वययष्ट्याह्वसिंहीशक्रयवैः कृतः ।शिशोर्ज्वरातिसारघ्नः कषायः स्तन्यदोषजित् ॥
”इति हरिद्रादि ॥
३१६ ॥
“विल्वञ्च पुष्पाणि च धातकीनांजलं सलोध्रं गजपिप्पली च ।क्वाथावलेहौ मधुना विमिश्रौबालेषु योज्यावतिसारितेषु ॥
”इति विल्वादिक्वाथः ॥
३१७ ॥
“समङ्गाधातकीलोध्रशारिवाभिः शृतं जलम् ।दुर्व्वारेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥
”इति समङ्गादि ॥
३१८ ॥
“नागरातिविषामुस्तबालकेन्द्रयवैः शृतम् ।कुमारं पाययेत् प्रातः सर्व्वातीसारनाशनम् ॥
”इति नागरादि ॥
३१९ ॥
“विल्वमूलकषायेण लाजाश्चैव सशर्कराः ।आलोड्य पाययेद्बालं छर्द्द्यतीसारनाशिनीः ॥
”इति सशर्करलाजयुक्तविल्वमूलकषावः ॥
३२० ॥
“पटोलत्रिफलारिष्टहरिद्राक्वथितं पिबेत्क्षतविस्फोटवीसर्पज्वराणां शान्तये शिशुः ॥
”इति पटोलादि ॥
३२१ ॥
* ॥
अथ विषे ।“कटभ्यर्ज्जुनशौरीयशेलुक्षीरिद्रुमत्वचः ।कषायकल्कचूर्णाः स्युः कीटलूतावणापहाः ॥
”इति कटभ्यादि ॥
३२२ ॥
इति चक्रपाणिदत्तः ॥
पाचनं, त्रि, पाचयिता । इति मेदिनी । ने, ९१अथ किशिष्टद्रव्याजीर्णे विशिष्टं पाचनद्रव्यमाहा ।“अलं पनसपाकाय फलं कदलसम्भवम् ।कदलस्य तु पाकाय बुधैरभिहितं घृतम् ॥
घृतस्य परिपाकाय जम्बीरस्य रसो हितः ॥
नारिकेलफलतालबीजयोःपाचकं सपदि तण्डुलं विदुः ।क्षीरमाशु सहकारपाचनंचारमज्जनि हरीतकी हिता ॥
मधूकमालूरनृपादनानांपरूषखर्ज्जूरकपित्थकानाम् ।पाकाय पेयं पिचुमर्द्दबीजंघृतेऽपि तक्रेऽपि तदेव देयम् ॥
खर्ज्जूरशृङ्गाटकयोः प्रशस्तंविश्वौषधं कुत्र च भद्रमुस्तम् ।यज्ञाङ्गबोधिद्रुफलेषु शीतंप्लक्षे तथा वार्य्युषितं प्रणीतम् ॥
तण्डुलेषु पयसः पयो हितंदीप्यकन्तु चिपिटे कणायुतम् ।यष्टिका दधिजलेन जीर्य्यतेकर्कटी च सुमनेषु गीर्य्यते ॥
”मुमनेषु गोधूमेषु । गीर्य्यते कथ्यते ।गोधूममाषहरिमन्थसतीलमुद्ग-पाको भवेज्झटिति मातुलपुत्त्रकेण ।खण्डञ्च खण्डयति माषभवन्त्वजीर्णंतैलं कुलत्थमथवा विद्धाति जीर्णम् ॥
मातुलपुत्त्रकः धुत्तूरफलम् ॥
कङ्गूश्यामाकनीवाराः कुलत्थञ्चाविलम्बितम् ।दध्नो जलेन जीर्य्यन्ति तैदलाः काञ्जिकेन तु ॥
पिष्टान्नं शीतलं वारि कृशरां सैन्धवं पचेत् ।माषेण्डरीनिम्बमूलं पायसं मुद्गयूषकैः ॥
वटो वेशवाराम्लवङ्गेन फेनी-शमं पर्पटः शिग्रुवीजेन याति ।कणामूलतो लड्डुकापूपशट्टा-विपाको भवेच्छष्कुलीमण्डयोश्च ॥
वेसवारः वेसर इति लोके । तद्यथा, --स्नेहो निशाहिङ्गुलवङ्गकैला-धन्याकजीरार्द्रकनागराणि ।अम्लोषणं सैन्धवपर्णमन्नेयथोचितं संस्कृतये प्रणीतमिति ॥
शट्टा शट्टकः पानकविशेषः । मण्डः माण्डे इतिलोके ।किमत्र चित्रं बहुमत्स्यमांस-भोजी सुखी काञ्जिकपानतः स्यात् ।इत्यद्मुतं केवलवह्निपक्व-मांसेन मत्स्यः परिपाकमेति ॥
आममाम्रफलं मीने तद्वीजं पिशिते हितम् ।कूर्म्ममांसं यवक्षाराच्छीघ्रं पाकमुपैति हि ॥
कपोतपारावतनीलकण्ठ-कपिञ्चलानां पिशितानि भुक्त्रा ।कासस्य मूलं परिपीय पिष्टंसुखी भवेन्ना वहुशो हि दृष्टम् ॥
कपोतो धवलपाण्डुः ।शाकानि सर्व्वाण्यपि यान्ति पाकंक्षारेण सद्यस्तिलनालजेन ।चञ्चूकसिद्धार्थकवास्तुकानांगायत्त्रिसारक्वथितेन पाकः ॥
चञ्चूक चेचु इति लोके । गायत्त्री खदिरः ॥
पलङ्किकाकेमुककारवेल्ली-वार्त्ताकुवंशाङ्कुरमूलकानाम् ।उपोदिकालावुपटोलकानांसिद्धार्थको मेघरवस्य पक्ता ॥
मेघरवः चवराई इति लोके ।विपच्यते शूरणकं गुडेनतथालुकं तण्डुलजोदकेन ।पिण्डालुकं जीर्य्यति कोरदूषात्कशेरुपाकः किल नागरेण ॥
लवणस्तण्डुलतोयात् सर्पिर्जम्बीरकाद्यम्लात् ।मरिचादपि तच्छीघ्रं पाकं यात्येव काञ्जिका-त्तैलम् ॥
क्षीरं जीर्य्यति तक्रेण तद्गव्यं कोष्णमण्डकात् ।माहिषं माणिमन्थेन शङ्खचूर्णेन तद्दधि ॥
मण्डकः माण्डे इति लोके ।रसाला जीर्य्यति व्योषात् खण्डं नागरभक्षणात् ।सिता नागरमुस्तेन तथेक्षुश्चाद्रिकारसात् ॥
जरामिरा गैरिकचन्दनाभ्या-मभ्येति शीघ्रं मुनिभिः प्रणीतम् ।उष्णेन शीतं शिशिरेण चोष्णंजीर्णो भवेत् क्षारगणस्तथाम्लैः ॥
इरा मदिरा ।तप्तं तप्तं हेम वा तारमग्नौतोये क्षिप्तं सप्तकृत्वस्तदम्भः ।पीत्वाजीर्णं तोयजातं निहन्या-त्तत्र क्षौद्रं भद्रमुस्तं विशेषात् ॥
तत्र तोयाजीर्णे । इति भावप्रकाशे जठ-राग्निविकाराजीर्णविसूचिकालसकविलम्बिका-चिकित्सा ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
