| YouTube Channel

पाचकं (pAcakaM)

 
शब्दकल्पद्रुमः
Sanskrit
पाचकं,
क्ली,
(पचतीति पच् + ण्वुल् पित्त-रसेन भुक्तद्रव्यपचनादस्य तथात्वम् ।) पित्त-विशेषः यथा, --“पाचकं भ्राजकञ्चैव रञ्जकालोचके तथा ।साधकञ्चैव पञ्चेति पित्तनामान्यनुक्रमात्
”इति शब्दचन्द्रिका
षाचकादीनां स्थानान्याह ।“अग्न्याशये यकृत्प्लीह्नोर्हृदये लोचनद्बये ।त्यचि सर्व्वशरीरेषु पित्तं निवसति क्रमात्
”अथ तेषां कर्म्माण्याह ।“पाचकं पचते भुक्तं शेषाग्निबलवर्द्धनम् ।रसमूत्रपुरीषाणि विरेचयति नित्यशः
”इति भावप्रकाशः
(“पित्तं पञ्चात्मकं तत्र पक्वामाशयमध्यगम् ।पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्
त्यक्तद्रवत्वं पाकादिकर्म्मणानलशब्दितम् ।पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा
तत्रस्थमेव पित्तानां शेषानामप्यनुग्रहम् ।करोति बलदानेन पाचकं नाम तत् स्मृतम्
”इति वाभटे सूत्रस्थाने द्वादशाध्याये
)