| YouTube Channel

पाकः (pAkaH)

 
Apte Hindi
Hindi
पाकः
पुं*
- पच् + घञ्
"पकाना, प्रसाधन, सेकना, उबालना"
पाकः
पुं*
- पच् + घञ्
"(ईंट आदि) आँच लगाना, सेकना"
पाकः
पुं*
- पच् + घञ्
(भोजन का) पचना
पाकः
पुं*
- पच् + घञ्
पका होना
पाकः
पुं*
- पच् + घञ्
"परिपक्वता, पूर्ण विकास"
पाकः
पुं*
- पच् + घञ्
"सम्पूर्ति, निष्पन्नता, पूरा करना"
पाकः
पुं*
- पच् + घञ्
"नतीजा परिणाम, फल, परिफलन"
पाकः
पुं*
- पच् + घञ्
"अनाज, अन्न"
पाकः
पुं*
- पच् + घञ्
"पकने की क्रिया, (फोड़े आदि का) पकना, पीप पड़ना"
पाकः
पुं*
- पच् + घञ्
बुढ़ापे के कारण बालों का सफेद हो जाना
पाकः
पुं*
- पच् + घञ्
गार्हपत्याग्नि
पाकः
पुं*
- पच् + घञ्
उल्लू
पाकः
पुं*
- पच् + घञ्
"बच्चा, शिशु"
पाकः
पुं*
- पच् + घञ्
एक राक्षस जिसे इन्द्र ने मारा था
पाकः
पुं*
- पच्+घञ्
"शोथ, सूजन"
Wordnet
Sanskrit
Synonyms:
पाकः
noun
एकः दैत्यः।
"पाकस्य वर्णनं पुराणेषु वर्तते।"
Synonyms:
पचनक्रिया, पाकक्रिया, पाकः, विपाकः, पाचिः, पचिः, श्रपणम्, आराधनम्, सूदकर्म
noun
भोजननिर्माणस्य क्रिया।
"मात्रा पचनक्रियायाः समयः एव प्राप्यते।"
Synonyms:
पाचनम्, जीर्णिः, परिणतिः, पाकः, जीर्णम्, जरणम्, परिपाकः, परिपक्वता
noun
भुक्तस्य अन्नस्य जठरे शरीरस्य धातुषु परिवर्तनम्।
"भोजनस्य सम्यक् पाचनं भवति चेत् मलावरोधः भवति।"
Synonyms:
शिशुः, पाकः, पोतः, अर्भकः, डिम्भः, पृथुकः, शावकः, शावः, अर्भः, शिशुकः, पोतकः, भिष्टकः
noun
जन्मनः अनन्तरम् एकवर्षीयः द्विवर्षीयः वा बालः।
"माता शिशुं दुग्धं पाययति।"
Tamil
Tamil
பாக: : சமைத்தல், வறுத்தல், சுடுதல், ஜீரணித்தல், பழுத்தல், பக்குவமாதல், முடிவு, பயன், விளைவு, ஆந்தை, சிறுகுழந்தை.
शब्दकल्पद्रुमः
Sanskrit
पाकः,
पुं,
(पच् + भावे घञ् ।) पचनम् क्लेदनम् ।तत्पर्य्यायः पचा इत्यमरः
रन्धनम् तु सप्तप्रकारो यथा, --“भर्ज्जनं तलनं स्वेदः पचनं क्वथनं तथा ।तान्दूरं पुटपाकश्च पाकः सप्तविधो मतः
”भर्ज्जनं केवलपात्रे तलनं स्नेहद्रव्ये स्वेदनंअग्न्युत्तापे पचनं जले क्वथनं सिद्धद्रव्यरस-ग्रहणे तान्दूरं द्बारवद्धतप्तयन्त्रे पुटपाकःअधोर्द्ध्वाग्नितापे ज्ञेयः इति पाकराजेश्वरः
स्थालीमार्ज्जनाद्योदनपरीक्षान्तो व्यापारनिचयःपाकः इति स्मृतिः
*
पाकभाण्डस्यत्याज्यत्वं यथा, --“नित्यं नूतनभाण्डेन कर्त्तव्यः पाक एव ।अथवा पक्षपर्य्यन्तं ततस्त्याज्यं मनीषिभिः
”इति ब्रह्मवैवर्त्तपुराणम्
*
पाककाले शूद्रायाग्निदाननिषेधो यथा, --“शूद्रायाग्निञ्च यो दद्यात् पाककाले विशेषतः ।शूद्रापक्वं भवेदन्नं ब्राह्मणः शूद्रतामियात्
”इति कर्म्मलोचनम्
*
एकोद्दिष्टश्राद्धे तस्य नित्यत्वं यथा, --“एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।अभावे पाकपात्राणां तदहःसमुपोषणम्
”इति श्राद्धतत्त्वम्
*
तस्य विधिर्यथा, --“पूर्व्वाशाभिमुखो भूत्वा उत्तराशामुखेन वा ।पचेदन्नञ्च मध्याह्ने सायाह्ने विवर्ज्जयेत्
अग्न्याशाभिमुखे पक्वममृतान्नं विजानता ।पूर्व्वामुखो धर्म्मकामः शोकहानिश्च दक्षिणे
श्रीकामश्चोत्तरमुखे पतिकामश्च पश्चिमे ।ऐशान्याभिमुखे पक्त्वा दरिद्रो जायते नरः
यदा तु आयसे पात्रे पक्वमश्नाति वै द्बिजः ।स पापिष्ठोऽपि भुङ्क्तेऽन्नं रौरवे परिपच्यते
ताम्रे पक्त्रा चक्षुर्हानिर्मणौ भवति वै क्षयम्
पितृभ्यां पक्वमन्नञ्च पितृव्येण यशस्विनि ! ।पुण्डरीकस्य यज्ञस्य लभते फलमीप्सितम्
वातुलेन तु यत् पक्वं भगिन्या कनिष्ठया ।असगोत्रेण यत् पक्वं शोणितं तदपि स्मृतम्
अभक्तेन यत् पक्वं स्त्रिया पक्वन्तथैव ।पक्वपात्रे यत् पक्वं तत् सर्व्वं निष्फलं भवेत्
उडुम्बरेण काष्ठेन कदम्बस्य दलेन ।शालेन करमर्द्देन उदरावर्त्तकेन
पक्वान्नं नैव भुञ्जीत भुक्त्वा रात्रिमुपावसेत् ।गर्हितान्नमवीरान्नं भुक्त्वा कृच्छ्रं समाचरेत् ।अप्रजा या तु वनिता नाश्नीयादेव तद्गृहे
शालकाष्ठस्य पक्वान्नं शिरीषकस्य चैव हि ।कलिचण्डातकस्यैव वज्रावारुणकस्य ।भेरण्डशाल्मलेर्वापि पक्वान्नं गर्हितं स्मृतस्
यदा मृण्मयपात्रे तु पक्वं वै सार्व्वकालिकम् ।मासे पक्षे तथाष्टौ तत्पाकं विसृजेत् गृही
धनुः पाके तथा सिंहे मिथुने वा वरानने ! ।यः कुर्य्याद्भोजनं देवि ! क्वच्छ्रेणैव विशुध्यति
एकदा तु जलं दद्याद् द्बिवारं प्रदापयेत् ।त्रिभागं पूरयेत् पात्रं पश्चात्तोयं दापयेत्
”इति मत्स्यसूक्ते ४२ पटलः
*
परिणतिः (यथा, मार्कण्डेये ७० ३४ ।“स्वकर्म्मफलपाकेन भर्त्तुस्तस्य महात्मनः ।वियोजिताहं तद्धेतुरयमासीन् निशाचरः
”पिबति स्तन्यादिकं इति पा पाने + “इण्-भीकापाशल्यतिमर्च्चिभ्यः कन् ।” उणां ।४३ इति कन् ।) शिशुः जरसा केशस्यशौक्ल्यम् स्थाल्यादि इति मेदिनी के, २९
पेचकः राष्ट्रादि भङ्गः भीतिः इति शब्द-रत्नावली
दैत्यः इति हेमचन्द्रः ८८
(यथा, भागवते ।“भो भो दानवदैतेया ! द्विमूर्द्धन् ! त्र्यक्ष ! शम्बर ! ।शतबाहो ! हयग्रीव ! नमुचे ! पाक ! इल्वल !
”पिबतीति पा + “इण्भीकापेति ।” उणां३ ४३ इति कन् ।) पानकर्त्तरि त्रि
कृदन्तरूपमाला
Sanskrit
1 {@“डु पचष् पाके”@} 2 पाचकः-चिका, पाचकः-चिका, 3 पिपक्षकः-क्षिका, 4 पापचकः-चिका
5 पक्ता-त्री, पाचयिता-त्री, पिपक्षिता-त्री, पापचिता-त्री
पचन्-न्ती, पाचयन्-न्ती, पिपक्षन्-न्ती
-- 6 प्रणिपक्ष्यन्-प्रनिपक्ष्यन्-7-न्ती-ती, पाचयिष्यन्-न्ती-ती, पिपक्षिष्यन्-न्ती-ती
8 पचमानः, पाचयमानः, पिपक्षमाणः, पापच्यमानः
पक्ष्यमाणः, पाचयिष्यमाणः, पिपक्षिष्यमाणः, पापचिष्यमाणः
9 ओदनपक्-पचौ-पचः
-- -- 10 पक्वम्-पक्वः-पक्ववान्, 11 प्रपक्वानि 12, पाचितः, पिपक्षितः, पापचितः-तवान्
13 पचः, 14 श्वपचः, 15 दूरेपाकः-अक्षेपाकः, फलेपाकः-क्षणेपाकः-का, 16 दूरेपाकुः- फलेपाकुः, 17 पचनः, 18 श्वपाकः-मांसपाकः ओदनपाचः, कपोतपाकः, पिण्डपाकः, मूलपाकः-उलूकपाकः, 19 प्रस्थंपचः- 20 खारिम्पचः-द्रोणंपचः, 21 मितम्पचः 22 - 23 नखम्पचः, 24 अल्पम्पचः, 25 26 27 उत्पचिष्णुः, 28 पचेलिमाः 29 30, 31 किम्पचानः, 32 पेचिवान्, पाचः, पिपक्षुः, पापचः
पक्तव्यम्, पाचयितव्यम्, पिपक्षितव्यम्, पापचितव्यम्
पचनीयम्, पाचनीयम्, पिपक्षणीयम्, पापचनीयम्
33 पाक्यम् 34, 35 कृष्टपच्यम्, 36 कृष्टपाक्यम्, 37 अवश्यपाक्यम्, पाच्यम्, पिपक्ष्यम्, पापच्यम्
ईषत्पचः-दुष्पचः-सुपचः
-- -- पच्यमानः, पाच्यमानः, पिपक्ष्यमाणः, पापच्यमानः
38 पाकः, 39 मांसपाकः-मांस्पाकः, 40 पक्त्रिमम्, 41 पाचः, पिपक्षः, पापचः
42 पक्तुम्, पाचयितुम्, पिपक्षितुम्, पापचितुम्
43 पचा, 44 पक्तिः, 45 पाचिका, पाचना, पिपक्षा, पापचा
पचनम्, 46 मांसपचनम्-मांस्पचनम्, पाचनम्, पिपक्षणम्, पापचनम्
पक्त्वा, पाचयित्वा, पिपक्षित्वा, पापचित्वा
विपच्य, प्रपाच्य, प्रपिपक्ष्य, प्रपापच्य
पाचम् २, पक्त्वा २, पाचम् २, पाचयित्वा २, पिपक्षम् २, पिपक्षित्वा २, पापचम्
पापचित्वा २।
प्रासङ्गिक्यः
01
=>
(९५७)
02
=>
(१-भ्वादिः-९९६। सक। अनि। उभ।)
03
=>
[[४। सन्नन्ताण्ण्वुलि, ‘चोः कुः’ (८-२-३०) इति कुत्वे, षत्वे रूपम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[५। यङन्ते सर्वत्र, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्यासदीर्घः।]]
05
=>
[[६। तृजादिषु सर्वत्र ‘चोः कुः’ (८-२-३०) इति कुत्वं ज्ञेयम्।]]
06
=>
[[७। ‘लृट् शेषे च’ (३-३-१३) इति लृडत्र भविष्यति काले
\n\n ‘पक्ष्यामीति व्रजति’ इत्यर्थः। ‘शेषे विभाषा--’ (८-४-१८) इति नेर्णत्वविकल्पः।]]
07
=>
[व्रजति]
08
=>
[पृष्ठम्०८३२+ २८]
09
=>
[[१। ओदनं पचतीति ओदनपक्। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। ‘अनुनासिकस्य क्विझलोः--’ (६-४-१६) इत्यत्र काशिकायामुदाहृतमेवम्।]]
10
=>
[[२। ‘पचो वः’ (८-२-५२) इति निष्ठातकारस्य वकारः। वकारस्यासिद्धत्वात् झल्पर- त्वम्। तेन, ‘चोः कुः’ (८-२-३०) इति कुत्वं भवतीति ज्ञेयम्।]]
11
=>
[[३। ‘प्रपक्वानि’ इत्यत्र ‘कुमति च’ (८-४-१३) इति प्राप्तं णत्वम्, ‘युवादीनां प्रतिषेधः’ (वा। ८-४-११) इत्यनेन भवति।]]
12
=>
[फलानि]
13
=>
[[४। ‘नन्दिग्रहिपचादिभ्यः--’ (३-१-१३४) इति, अच्प्रत्ययः।]]
14
=>
[[५। पचादिषु (३-१-१३४) पाठादत्र कर्मण्यणं बाधित्वा कर्तरि, अच्प्रत्ययः।]]
15
=>
[[६। अत्र सर्वत्र, पचादिषु पाठादचि, वृद्धौ, तथा न्यङ्क्वादिषु (७-३-५३) पाठात् कुत्वे रूपम्।]]
16
=>
[[७। न्यङ्क्वादिषु (७-३-५३) पाठात् कुत्वम्, पचादिष्वेव पाठादुप्रत्ययश्च।]]
17
=>
[[८। नन्द्यादिषु (३-१-१३४) पाठात् कर्तरि ल्युप्रत्ययः इति केचित्।]]
18
=>
[[९। ‘अणपीष्यते’ इति क्षीरतरङ्गिण्यामुक्तम्। तदानीमत्र कुत्वं न्यङ्क्वादित्वात ज्ञेयम्। वस्तुतस्तु ‘कर्मण्यण्’ (३-२-१) इत्यत्र भाष्ये ‘ओदनपाचः’ इति प्रयुक्तत्वात् अण्विषये कुत्वं नेति ज्ञायते।]]
19
=>
[[१०। ‘परिमाणे पचः’ (३-२-३३) इति खश्प्रत्यये मुमि रूपमेवम्। एवं परिमाण- वाचकेषु सर्वेष्वपि उपपदेषु खश् ज्ञेयः।]]
20
=>
[[आ। ‘खारिम्पचामत्र विपक्वमन्नं विष्वण्य सुष्वाप रक्षिवर्गः।।’ वा। वि। ३। ४।]]
21
=>
[[११। ‘मितनखे च’ (३-२-३४) इति खशि मुमागमः।]]
22
=>
[[B। ‘अमितम्पचमीशानं सर्वभोगीणमुत्तमम्।’ भ। का। ६। ९७।]]
23
=>
[[C। ‘नखम्पचोष्णं नलिनेक्षणानामुरोजमेवातितरामुपास्ते।।’ च। भारते। ४। ५६।]]
24
=>
[[१२। ‘मितनखेच’ ‘(३-२-३४) इत्यत्र मितशब्देन मितपर्यायाणामपि ग्रहणमिति मते ‘अल्पम्पचः’ इत्यत्र खशि मुमागमो ज्ञेयः।]]
25
=>
[[ड्। ‘ऐव विद्वन् पितुः कामात् पान्तावल्पंपचान् मुनीन्।।’ भ। का। ६। ९७।]]
26
=>
[पृष्ठम्०८३३+ २९]
27
=>
[[१। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पच--’ (३-२-१३६) इत्यादिना तच्छीलादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
28
=>
[[२। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति केलिमर्प्रत्यये रूपम्। कर्मकर्तर्ये- वायं प्रत्यय इति वृत्तिकारादयः। अविशेषात् भावकर्मणोरेवेति दीक्षि- तादयः।]]
29
=>
[[आ। ‘स वारनारीकुचसञ्चितोवमं ददर्श मालूरफलं पचेलिमम्।।’ नैषधे १। ९४।]]
30
=>
[शालयः]
31
=>
[[३। किम्शब्दे उपपदे, ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति चानशि, बाहुलकात् मुमागमाभाव इति अमरव्याख्यायां भानुजीदीक्षितः।]]
32
=>
[[४। कर्तरि लिटः क्वसौ, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे, ‘अत एक- हल्मध्येऽनादेशादेर्लिटि’ (६-४-१२०) इत्येत्वाभ्यासलोपयो रूपम्।]]
33
=>
[[५। निष्ठायामस्य धातोरनिट्त्वेन ण्यति, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इत्यनेन कुत्वम्।]]
34
=>
[[B। ‘पितॄणां कुरुषे कार्यमपाक्यैः स्वादुभिः फलैः।।’ भ। का। ६। ६४।]]
35
=>
[[६। ‘राजसूयसूर्यमृषोद्यरुच्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इत्यनेन यत्प्रत्यये कर्म- कर्तरि कृष्टपच्यः इति निपात्यते। कृष्टे ये स्वयमेव पच्यन्ते केचन व्रीहि- विशेषाः ते कृष्टपच्याः। अन्यत्र कृष्टपाक्यः इत्येव।]]
36
=>
[[C। ‘अकृष्टपच्याः पश्यन्तौ ततो दाशरथी लताः।’ भ। का। ६। ५९।]]
37
=>
[[७। ‘ण्य आवश्यके’ (७-३-६५) इति निषेधाद् आवश्यकार्थे तु ण्यत्प्रत्यये कुत्वं भवति।]]
38
=>
[[८। घञि, ‘चजोः कु--’ (७-३-५२) इति कुत्वम्।]]
39
=>
[[९। मांसस्य पाकः मांसपाकः मांस्पाको वा। ‘मांसस्य पचि ल्युड्घञोः’ (वा। ६-३-१०९) इति वचनात् पचतेर्घञि मांसशब्दस्योपपदस्यान्त्यलोपो वा भवति।]]
40
=>
[[१०। ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘तेन’ इत्यधिकारे, निर्वृत्तार्थे ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति नित्यं मप्प्रत्यये रूपम्।]]
41
=>
[[ड्। ‘विपक्त्रिमज्ञानगतिर्मनस्वी मान्यो मुनिः स्वां पुरमृष्यशृङ्गः।।’ भ। का। १। १०।]]
42
=>
[पृष्ठम्०८३४+ २८]
43
=>
[[१। षित्त्वाद् ‘षिद्भिदादिभ्यः--’ (३-३-१०४) इत्यङ् भवति।]]
44
=>
[[२। ‘स्थागापापचो भावे’ (३-३-९५) इति वचनात् पक्षे क्तिन्नपि भावे भवति।]]
45
=>
[[३। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति ऋणे ण्वुच्। ‘शायिकाऽद्य तव प्रापदर्हसि क्षीरपायिकाम्। पाचिका मे त्वया देया प्रोत्पन्ना मेऽन्नभोजिका।।’ इति प्र। सर्वस्वे।]]
46
=>
[[४। ‘मांसस्य पचि युड्घञोः’ (काशिका ६-१-१४४) इति मांसशब्दस्थाकारस्य लोपः ल्युट्प्रत्यये परतः। तेन मांस्पचनम् इत्यपि साधु। ‘मांस्पचन्या उखायाः’ इति प्रयोगोऽत्रानुसन्धेयः (भाष्य०, काशिका० ६-१-६३)।]]