| YouTube Channel

पष (paSa)

 
शब्दसागरः
English
पष r. 10th. cl. (पाषयति पषयति)
1. To bind, to tie.
2. To move.
3. To
oppose, to hinder.
4. To touch.
Wilson
English
पष r. 10th cl. (पाषयति पषयति)
1 To bind, to tie.
2 To move.
3 To oppose, to hinder.
4 To touch.
Kridanta Forms
Sanskrit
पष (प꣡ष꣡ अनुपसर्गात् गतौ - चुरादिः - सेट्)
ल्युट् = पषणम्
अनीयर् = पषणीयः - पषणीया
ण्वुल् = पषकः - पषिका
तुमुँन् = पषयितुम्
तव्य = पषयितव्यः - पषयितव्या
तृच् = पषयिता - पषयित्री
क्त्वा = पषयित्वा
ल्यप् = प्रपषय्य
क्तवतुँ = पषितवान् - पषितवती
क्त = पषितः - पषिता
शतृँ = पषयन् - पषयन्ती
शानच् = पषयमाणः - पषयमाणा
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पष्
मूलधातुः:
पष
धात्वर्थः:
गतौ
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पषयति
धातुप्रदीपः
Sanskrit
पष अनुपसर्गे
- पषयति उपसर्गत्तु प्रपषति 307
शब्दकल्पद्रुमः
Sanskrit
पष, बन्धे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, पाषयति तालव्यान्त एवाय-मिति बहवः दन्त्यान्त इति केत्रित् मूर्द्ध-न्यान्तपाठस्तु कस्यचिदनुरोधात् इति दुर्गा-दासः
पष, बाधे ग्रन्थे इति कविकल्पद्रुमः
(भ्वां-उभं-सकं-सेट् ।) ञ, पषति पषते बाधोविहतिः ग्रन्थो ग्रन्थनम् ग्रन्थनस्थानेस्पर्शनं केचित् पठन्ति इति दुर्गादासः
पष, त् अनुपसर्गाद्बन्धबाधयोः स्पर्शगत्योः ।इति कविकल्पद्रुमः
(अदन्तचुरां-परं-सकं-सेट् ।) मूर्द्धन्योपधः क, पषयति अनुप-सर्गादिति सोपसर्गस्य प्रयोगो निषिध्यते बाधोविहतिः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
पश(ष स) स्पर्शे, गतौ अनुपसर्गात् षन्धे वाधे अद०
चु०
उभ०
सक०
सेट् पश(ष)(स)यति ते अपपश(ष)(स)त्
धातुवृत्तिः
Sanskrit
पष (अर्थः) अनुपसर्गात्
गतावित्यत्रापि सम्बध्यते, ) (पषयति) सोपसर्गत्त्वात् (प्रपषति) इतिअच केचित् तालव्यान्तं पठन्तो वाग्रहणं चानुवर्त्यादन्तादेत्त्वं विकल्पयन्ति स्वाम्यनुसारिणः अत्रादन्तत्त्वविकल्पनमनन्तरत्त्वाद्युक्तं तालव्यान्तत्त्वं तु पुरुषकारोऽपि सहते, यदाह पषादिस्तु पष अनुपसर्गादित्यस्य भविष्यति 320
कृदन्तरूपमाला
Sanskrit
1 {@“पष गतौ”@} 2 ‘पषोऽनुपसर्गात्’ 3 इत्यस्य स्वरूपमर्थादिकं पूर्वस्मिन्नेव धातावुद्दिष्टमिति तत एव ज्ञेयम्।
‘पशोऽनुपसर्गात्’ इति क्षीरस्वामि- 4 संमतः पाठः।
पषकः-षिका, पिपषयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककलयतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(९८५)
02
=>
(१०-चुरादिः-१८६३। सक। सेट्। उभ। अदन्तः।)
03
=>
(ग। सू। चुरादौ)
04
=>
[पृष्ठम्०८५२+ २८]
05
=>
(१७६)