| YouTube Channel

पश्चिमरात्र (pazcimarAtra)

 
Shabdartha Kaustubha
Kannada
पश्चिमरात्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರಾತ್ರಿಯ ಉತ್ತರ ಭಾಗ/ರಾತ್ರಿಯ ಉತ್ತರಾರ್ಧ
निष्पत्तिः - > एकदेशसमासः
व्युत्पत्तिः - > पश्चिमं रात्रेः
प्रयोगाः - > "तेन "उपारताः पश्चिमरात्रगोचरम्" इति सिद्धम्"
उल्लेखाः - > सि० कौ०
L R Vaidya
English
paScima-rAtra {% m. %} the latter part of the night, e.g. उपारताः पश्चिमरात्रगोचरात् Kir.iv.10. (The reading of Mall. however, is पश्चिमरात्रि.)
वाचस्पत्यम्
Sanskrit
पश्चिमरात्र
पु०
पश्चिमं रात्रेः एकदेशिसमा० अच्समा० ।रात्रे शेषभागे “पूर्वापरोत्तरमेकदेशिमैकाधिकरणे” पा०“सर्वोऽप्येकदेशोऽह्रा समस्यते सङ्ख्यायिसायेति ज्ञाप्र-कात् मध्याह्नः सायाह्नः केचित्तु सर्वकदेशः कालेनसमस्यते नत्वह्नेव ज्ञापकस्य सामान्यापेक्षत्वात् तेनमध्यरात्रः “उपारताः पश्चिमरात्रगोचरादित्यादि सिद्ध-मित्याहुः” सि० कौ० मल्लिनाथेन तु “उपरताः पश्चि-मरात्रिगोचरादिति” पठित्वा समासान्तं निराचष्टे यथापश्चिमा चाऽसौ रात्रिश्चेति विग्रहः अपररात्र इत्यर्थः ।पूर्वा दिक् पश्चिमं नभ इत्यादिवत् एकदेशिशब्दस्यैकदेशशब्द-सामानाधिकरण्यादेकदेशे पर्य्यवसानं, तु पश्चिमं रात्रेरित्येकदेशिसमासः तद्विधायके पूर्वापरादिसूत्रे प-श्चिमशब्दाग्रहणादतएव “अहः सर्वैकदेशेत्यादिना नसमासान्तोऽपि तस्यापि पूर्वापरादिसूत्रोक्तसमासविषय-त्वादिति प्रकाशवर्षस्त्वेकदेशिसमासमेवाश्रित्य समासा-न्तमाह तन्मूलं मृग्यम्”