| YouTube Channel

पशुपति (pazupati)

 
शब्दसागरः
English
पशुपति
m.
(-तिः)
1. A herdsman.
2. A name of ŚIVA.
E.
पशु living
creature, and पति the master, the creator, or preserver
or
पशु SĪVA'S attendant, and पति master
or according to one
legend, पशु an animal, which every deity acknowledged himself
to be before his lord and master ŚIVA, when they solicited
him to destroy the Asura TRIPURĀ.
Capeller Eng
English
पशुप॑ति
m.
lord of the animals,
E.
of
sev.
gods.
Yates
English
पशु-पति (तिः) 2.
m.
Shiva.
Spoken Sanskrit
English
पशुपति - pazupati -
m.
- name of a oliast
पशुपति - pazupati -
m.
- of ziva
पशुपति - pazupati -
m.
- name of god of fire
पशुपति - pazupati -
m.
- lord of animals
पशुपति - pazupati -
m.
- of a lexicographer
पशुपति - pazupati -
m.
- name of a oliast
Wilson
English
पशुपति
m.
(-तिः) A name of ŚIVA.
E.
पशु living creature, and पति the master, the creator, or
preserver
or पशु ŚIVA'S attendant, and पति master
or according to
one legend, पशु an animal, which every deity acknowledged himself to be
before his lord and master ŚIVA, when they solicited him to destroy the
Asura TRIPURA.
Monier Williams Cologne
English
पशु—प॑ति
m.
‘lord of animals’ (or ‘l° of a servant named Paśu’ or ‘l° of the soul’,
RTL.
89),
N.
of the later Rudra-Śiva or of a similar deity (often associated in the Veda with Bhava, Śarva, Ugra, Rudra, Mahā-deva, Īśāna and others who together with Bhīma are in later times regarded as manifestations of Rudra),
AV.
&c.
&c.
of Agni.
TS.
ŚBr.
of Śiva,
MBh.
&c.
(according to one legend every deity acknowledged himself to be a mere पशु or animal when entreating Śiva to destroy the Asura Tri-pura)
of a lexicographer
of a Scholiast
&c.
Apte Hindi
Hindi
पशुपतिः
पुं*
पशुः-पतिः -
शिव का विशेषण
पशुपतिः
पुं*
पशुः-पतिः -
"ग्वाला, पशुओं का स्वामी"
पशुपतिः
पुं*
पशुः-पतिः -
‘पाशुपत’ नामक दार्शनिक सिद्धान्त का प्रतिपादन करने वाला दर्शन शास्त्र
Shabdartha Kaustubha
Kannada
पशुपति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪರಶಿವ/ಪರಮಾತ್ಮ/ಮಹಾದೇವ
व्युत्पत्तिः - > पशूनां जीवानां पतिः
प्रयोगाः - > "पशुपतिरपि तान्यहानि कृच्छ्रात्"
उल्लेखाः - > कुमा० ६-९५
पशुपति
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪಶುವಿನ ಯಜಮಾನ/ಪಶುವಿನ ಒಡೆಯ
L R Vaidya
English
paSu-pati {% m. %} 1. a herdsman
2. an epithet of Śiva, Megh.i.36, 56, K.S.vi.95, Bh.V.iv.38
3. name of a philosopher who propounded the pāśupata system of philosophy.
भूतसङ्ख्या
Sanskrit
११, अक्षौहिणी, अज, ईश, ईशान, ईश्वर, गिरिश, गिरीश, गुणी, गौरीश, त्र्यम्बक, धूर्जटि, पशुपति, पिनाकिन्, भर्ग, भव, महस्, महादेव, महेश, महेश्वर, मृड, रुद्र, शङ्कर, शम्भु, शर्व, शशिभूषण, शितिकण्ठ, शिव, शूलिन्, श्रीकण्ठ, हर
Aufrecht Catalogus Catalogorum
English
पशुपति from Malaya, father of Nārāyaṇa (Śāṅkhāyana-
sūtrapaddhati). W. p. 29.
पशुपति
Kārakaparīkṣā gr. Report XVIII.
पशुपति
Pravarādhyāya. L. 2248.
पशुपति
Ratnamālā, on precious stones.
पशुपति son of Dhanaṃjaya, brother of Īśāna and Halā-
yudha:
Daśakarmadīpikā or Daśakarmapaddhati. Quoted
in Śuddhikaumudī, by Raghunandana Oxf. 292^a.
Śrāddhapaddhati. Mentioned in Halāyudha's Bra-
hmaṇasarvasva.
पशुपति
Piṅgalaṭīkā (on Prākṛtapiṅgala).
Schmidt Nachtrage zum Sanskrit Worterbuch
German
पशुपति m. °Aufseher über die Tiere am königlichen Hofe, S II, 187, 11. °Ochse, Dummkopf (nach J. J. Meyer), Kuṭṭanīm. 623. [Z.]
अभिधानचिन्तामणिः
Sanskrit
--source--
शंभुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः
कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभर्गौ १९५
मृत्युंजयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः
षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालदृगेकपादः १९६
मृडोऽट्टहासी घनवाहनोऽहिर्बुध्नो विरूपाक्षविषान्तकौ
महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली १९७
स्याव्द्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ
सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः १९८
पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः
पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् १९९
गजपूषपुरानङ्गकालान्धकमखासुहृत्
-wordlist-
शम्भु (पुं), शर्व (पुं), स्थाणु (पुं), ईशान (पुं), ईश (पुं), रुद्र (पुं), उड्डीश (पुं), वामदेव (पुं), वृषाङ्क (पुं), कण्ठेकाल (पुं), शङ्कर (पुं), नीलकण्ठ (पुं), श्रीकण्ठ (पुं), उग्र (पुं), धूर्जटि (पुं), भीम (पुं), भर्ग (पुं), मृत्युञ्जय (पुं), पञ्चमुख (पुं), अष्टमूर्ति (पुं), श्मशानवेश्मन् (पुं), गिरिश (पुं), गिरीश (पुं), षण्ढ (पुं), कपर्दिन् (पुं), ईश्वर (पुं), ऊर्ध्वलिङ्ग (पुं), एकदृश् (पुं), त्रिदृश् (पुं), भालदृश् (पुं), एकपाद् (पुं), मृड (पुं), अट्टहासिन् (पुं), घनवाहन (पुं), अहिर्बुध्न (पुं), विरूपाक्ष (पुं), विषान्तक (पुं), महाव्रतिन् (पुं), वह्निरेतस् (पुं), हिरण्यरेतस् (पुं), शिव (पुं), अस्थिधन्वन् (पुं), पुरुषास्थिमालिन् (पुं), व्योमकेश (पुं), शिपिविष्ट (पुं), भैरव (पुं), दिग्वासस् (पुं), कृत्तिवासस् (पुं), भव (पुं), नीललोहित (पुं), सर्वज्ञ (पुं), नाट्यप्रिय (पुं), खण्डपर्शु (पुं), महादेव (पुं), महानट (पुं), महेश्वर (पुं), हर (पुं), पशुपति (पुं), प्रमथपति (पुं), उमापति (पुं), पिङ्गजट (पुं), पिङ्गेक्षण (पुं), पिनाकभृत् (पुं), शूलभृत् (पुं), खट्वाङ्गभृत् (पुं), गङ्गाभृत् (पुं), अहिभृत् (पुं), इन्दुभृत् (पुं), कपालभृत् (पुं), गजासुहृद् (पुं), पूषासुहृद् (पुं), अनङ्गासुहृद् (पुं), कालासुहृद् (पुं), अन्धकासुहृद् (पुं), मखासुहृद् (पुं)
अभिधानरत्नमाला
Sanskrit
ईशान
ईशान, शशिशेखर, पशुपति, शूली, शिव, शङ्कर, शर्व, शम्भु, उमापति, गिरिश, श्रीकण्ठ, उग्र, हर, सर्वज्ञ, त्रिपुरान्तक, त्रिनयन, रुद्र, कपर्दिन्, भव, भूतेश, परमेश्वर, अन्धकरिपु, दक्षाध्वरध्वंसकृत्, स्थाणु, स्रष्टृ, धूर्जटि, वामदेव, कामध्वंसिन्, व्योमकेश, कपालिन्, नीलग्रीव, वह्निरेतस्, पिनाकिन्, भीम, भर्ग, कृत्तिवासस्, वृषाङ्क, अहिर्बुध्न, विरूपाक्ष, शिपिविष्ट, गणाधिप, गङ्गाधर, महादेव, मृड, नीललोहित
ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,
शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः
सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,
भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ११
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,
कामध्वंसी व्योमकेशः कपाली
नीलग्रीवो वह्निरेताः पिनाकी,
भीमो भर्गः कृत्तिवासा वृषाङ्कः १२
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः
गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः १३
verse 1.1.1.11
page 0003
Mahabharata
English
Paśupati = Śiva, q.v.
शब्दकल्पद्रुमः
Sanskrit
पशुपतिः,
पुं,
(पशूनां स्थावरजङ्गमानां पतिः ।)शिवः इत्यमरः २२
(यथा, महाभारते १३ १७ १३४ ।“ऊर्द्ध्वगात्मा पशुपतिर्व्वातरंहा मनोजवः
”तस्य निरुक्तिर्यथा चिन्तामणिधृतवचने, --“ब्रह्माद्याः स्थावरान्ताश्च पशवः परिकीर्त्तिताः ।तेषां पतिर्महादेवः स्मृतः पशुपतिः श्रुतौ
”)अपरा निरुक्तिर्यथा, वराहपुराणे ।“अहञ्च सर्व्वविद्यानां पतिराद्यः सनातनः ।अहं वै पतिभावेन पशुमध्ये व्यवस्थितः ।अतः पशुपतिर्नाम त्वं लोके ख्यातिमेष्यसि
”अयं यजमानमूर्त्तिः यथा पशुपतये यज-मानमूर्त्तये नमः इत्यष्टमूर्त्तिपूजायां भविष्य-पुराणम्
(महादेवो हि नेपाले पीठस्थाने पशु-पतिरित्याख्यया विराजते यदुक्तं महालिङ्गे-श्वरतन्त्रे शिवस्य शतनामस्तोत्रे, --“नेपाले पशुपतिः केदारे परमेश्वरः
”)
वाचस्पत्यम्
Sanskrit
पशुपति
पु०
पशूनां जीवानां पतिः महेश्वरे शिवे१ पशुस्वामिनि यजुर्बेदीयकर्सकाण्डपद्धतिकारके हला-युध सहोदरे पण्डितभेदे शिवस्य तन्नामनिरुक्ति-र्यथा “अयञ्च सर्वविद्याना पतिराद्यः सनातनः अहं वैपतितो येन पशुमध्ये (जीवमध्ये) व्यवस्थितः अतःपशुपतिर्नाम त्वं लीके ख्यातिमेध्यसि” वराहपु० ।पशुपतिनोपदिष्टम् अण् पाशुपत शैत्रागमभेदे तत्र प्र-तिपाद्यविषयाश्च सर्वदर्शनसंग्रहे नकुलीशमतप्रदर्शनान-न्तरं दर्शिता यथा“तमिसं परमेश्वरः कर्सादिनिरपेक्षः कारणमिति पक्षंवैषम्यनैर्घृ ण्यदोषदूषितत्वात् प्रतिक्षिपन्तः के अन माहे-श्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्मादि-सापेक्षः परमेश्वरः कारणमिति पक्षं कक्षीकुर्वाणाः प्रक्षा-न्तरमुपक्षिपन्ति तत्र पशुपतिपाशभेदात् त्रयः पदार्थाइति तदुक्तं तन्त्रतत्त्वज्ञैः “त्रिपदार्थं चतुष्पादं महामन्त्रंजगद्गुरुः सूत्रेणैकेन संक्षिप्य प्राह विस्तरतः पुनः” इतिअस्यार्थः त्रयः पशुपतिपाशाः पदार्था यस्मिन् सन्ति तत्त्रि-पदाथ विद्याक्रियायोगचर्य्याख्याश्चत्वारः पादा यणिन्तच्चुतुश्चरणं महामन्त्रमिति तत्र पशूनामस्वतन्त्रत्वातपाशानामचैतन्यात् तद्विलक्षणस्य पत्युः प्रथममुद्देशः ।चेतनत्वसाधर्म्यात् पशूनां तदानन्तर्य्यम् अवशिष्टानांपाशानामन्ते विनिवेश इति क्रमनियमः दीक्षायाः प-रमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपायभूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेनपिना निष्पादयितुमशक्यत्वात् तदवबोधकस्य विद्यापा-दस्य प्राथम्यम् अनेकविधसाङ्गदीक्षाविधिप्रदर्शकस्यक्रियापादस्य तदनन्तर्य्यम् योगेन विना नाभिमत-प्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम् ।विहिताचरणनिषिद्धवर्जनरूपां चर्य्यां विना योगोऽपिन निर्वहतीति तत्पतिपादकस्य चर्य्यापादस्य चरमत्व-मिति विवेकः तत्र पतिपदार्थः शिवोऽभिमतः मुक्ता-त्मनां विद्येश्वरादीनाञ्च यद्यपि शिवत्वमस्ति तथापिपरमेश्वरपारतन्त्र्यात् स्वातन्त्र्यं नास्ति ततश्च तदुप-करणभुवनादीनां भावानां सन्निवेशविशिष्टत्वेन कार्य्यत्व-मवगम्यते तेन कार्य्यत्वेनैर्षा बुद्धिमत्पूर्वकत्वमनु-मीयत इत्यनुमानवशात् परमेश्वरप्रसिद्धिरुपपद्यते ।ननु देहस्यैव तावत्कार्यत्वमसिद्धं हि क्वचित् केनचित् कदाचित् देहः क्रियमाणो दृष्टचरः सत्यं त-थापि केनचित् क्रियमाणत्वं देहस्य दृष्टमिति कर्भृ-दर्शनापह्नवो युज्यते तस्यानुमेयत्वेनाप्युपपत्तेः दे-हादिकं कार्य्यं भवितुमर्हति सन्निवेशविशिष्टत्वात्विनश्वरत्वाद्वा घटादिवत् तेन कार्य्यत्वेन बुद्धिमत्-पूर्वकत्वमनुमातुं सुकरमेव विमतं सकर्तृकं कार्य्य-त्वात् घटवत् यदुक्तसाधनं तदुक्तसाध्यं यदेवं नतदेवं यथात्मादि परमेश्वरानुमानप्रामाण्यसाधनानुमा-नमन्यत्राकारीत्युपरम्यते “अज्ञो जन्तुरनीशोऽयमात्मनःसुखदुःखयोः ईश्वरष्रेरितो गच्छेत् स्वर्गं वा श्वभ्र-मेव वा” इति न्यावेन प्राणिकृतकर्मापेक्षया परमेश्वरस्यकर्तृत्वोपपत्तेः स्वातन्त्र्यविहतिरिति वाच्यंकरणापेक्षया कर्तुः स्वातन्त्र्यविहितेरनुपलम्भात् कोषा-ध्यक्षापेक्षस्य राज्ञः प्रसादादिना दानवत् यथोक्तं सि-द्धगुरुभिः “स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता ।कर्तुः स्वातन्त्र्यमेतद्धि कर्माद्यनपेक्षया” इति तथा चतत्तत्कर्माशयबशाद्भोगतत्साधनतदुपादानादिविशेषज्ञः त-तश्च कर्त्ता अनुमानादिसिद्ध इति सिद्धम् तदिदमुक्तंतत्रमवद्भिर्वृहस्पतिभिः “इह भोग्यगोगसाधनतदुपादा-नाद्दि यो विजानाति तमृतेमूतन्नहीदं पुंस्कर्मा शय-विपाकज्ञमिति” अन्यत्रापि “विवादाध्यासितं सर्वं बुद्धि-मत्पूर्वकर्तृकम् कार्य्यत्वादावयोः सिद्धं कार्य्यं कुम्भा-दिकं यथा” इति सर्वात्मकत्वादेवास्य सर्वज्ञत्वं सिद्धम्अज्ञस्य करणासम्भवात् उक्तञ्च श्रीमन्मृगेन्द्रैः “सर्वज्ञःसर्वकर्तृत्वात् साधनाङ्गफलैः सह यो यज्जानाति कुरुतेस तदेवेति सुस्थितम्” इति अस्तु तर्हि स्वतन्त्र इ-श्वरः कर्त्ता तु तावदशरीरः घटादिकार्य्यस्य शरीर-वता कुलालादिना क्रियमाणत्वदर्शनात् शरीरवत्त्वेचास्मादादिवदीश्वरः क्लेशयुक्तीऽसर्वज्ञः परिमितशक्तिंप्राप्नुयादिति चेन्मैवं मंस्थाः अशरीरस्याप्यात्मनः स्वश-रीरस्पन्दादौ कर्तृत्वदर्शनादभ्युपगम्यापि ब्रूमहे शरीर-वत्त्वेऽपि भगवतो प्रागुक्तदोषानुषङ्गः परमेश्वरस्यहि मलकर्मादिपाशजालासम्भवेन प्राकृतं शरीरं नभवति किन्तु शाक्तं शक्तिरूपैरीशानादिभिः पञ्चभिर्म-न्त्रैर्मस्तकादिकल्पनायामीशानमस्तकस्तत्पुरुषवक्त्रोऽघोर-हृदयोबामदेवगुह्यः सद्योजातपादः ईश्वर इति प्रसि-द्ध्या यथाक्रमानुग्रहतिरोभावादानलक्षणस्थितिलक्षणो-द्भवलक्षणकृत्यपञ्चककारणं स्वेच्छानिमितं तच्छरीरं नचास्मच्छरीरसदृशम् तदुक्तं श्रीन्मृगेन्द्रे “मलाद्य-सम्भवाच्छक्तं वपुर्नैतादृशं प्रभोः” इति अन्थवापि“तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयो गिभिः ईश तत्-पुरुषाघोरवामाद्यैर्मस्तकादिमत्” इति ननु पञ्च-वक्त्रस्त्रिपञ्चदृगित्यादिना आगमेषु परमेश्वरस्य मुख्यतएव शरीरेन्द्रियादियोगः श्रूयत इति चेत्सत्यं निरा-कारे ध्यानपूजाद्यसम्भवेन भक्तानुग्रहकरणाय तत्तदाकारग्रहणाविरोधात् तदुक्त श्रीमत्पौष्करे “साध-कस्य तु रक्षार्थं तस्य रूपमिदं स्मृतम्” इति अन्थत्रापि“आकारवांस्त्वं नियमादुपास्यो वस्त्वनाकारमुपैतिबुद्धिः” इति कृत्यपञ्चकं प्रपञ्चितं भोजराजेन “व-ञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावाः तद्वदनु-ग्रहकरणं प्रोक्तं सततोदितस्यास्य” इति एतच्च कृत्य-पञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकं कृच्छ्राध्वविषयेत्वनन्तादिद्वारेणेति विवेकः तदुक्तं श्रीमत्करणे “शु-द्धेऽध्वनि शिवः कर्त्ता प्रोक्तोऽनन्तोहितो प्रभोः” इति ।एवञ्च शिवशब्देन शिवत्वयोगिनां मन्त्रेश्वरमहेश्वर-मुक्तात्मशिबानां सवाचकानां शिवत्वप्राप्तिसाधनेन दो-क्षादिनोपायकलापन सह षतिपदार्थेन संग्रहः कृत इतिबोद्धव्यम् तदित्यं पतिपदार्थो निरूपितः सम्प्रतिपशुपदार्थो निरूप्यते अणुक्षेत्रज्ञादिपदवेदनीयो जी-वात्मा पशुः तु चार्वाकादिवद्देहादिरूपः “नान्य-दृष्टं स्मरत्यन्यः” इति न्यायेन प्रतिसन्धानानुपपत्तेः ।नापि नैयायिकादिवत् प्रकाश्यः अनवस्थाप्रसङ्गात् ।तदुक्तम् “आत्मा यदि भवेन्मेयस्तस्य माता भवेत् परः ।पर आत्मा तदानीं स्यात् परो यदि दृश्यते” इति ।न जैनवदव्यापकः नापि बौद्धवत् क्षणिक देशकाला-म्यामनवच्छिन्नत्वात् तदुक्तम् “अनवच्छिन्नसद्भावंवस्तु यद्देशकालतः तन्नित्यं बिभु चेच्छन्तीत्यात्मनीविभुनित्यता” इति बाप्यद्वैतवादिनामिवैकः, भोग-प्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य सम्भवात् नापि सा-ङ्ख्यानामिवाकर्त्ता पाशजालापोहने नित्यनिरतिशय-दृक्क्रियादिरूपचैतन्यात्मकशिवत्वश्रवणात् तदुक्तं “पा-शान्ते शिवताश्रुतेः” इति “चैनन्य दृक्क्रियारूपं तद-स्यात्मनि सर्बदा सर्वतश्च यता मुक्तौ श्रूयते सर्वतोमुखम्” तत्त्वप्रकाशेऽपि “मुक्तात्मानोऽपि शिवाः किञ्चैतेसत्प्रसादतो मुक्ताः सोऽनादिमुक्त एको विज्ञेयः पञ्च-मन्त्रतनुः” इति पशुस्त्रिविधः विज्ञानाकलप्रलयाक-लसकलभेदात् तत्र प्रथमो विज्ञानयोगसन्न्यासैर्भोगेन वाकर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्याभावात्केवलमलमात्रयुक्तो विज्ञानाकल इति व्यवदिश्यते द्विती-यस्तु प्रलयेन कलादेरुपसंहारात् मलकर्मयुक्तः प्रलया-कल इति व्यवह्रियते तृतीयस्तु मलमायाकर्मात्मकवन्ध-त्रयसहितः सकल इति संलप्यते तत्र प्रथमो द्विप्र-कारो भवति समाप्ताकलुषासमाप्तकलुषभेदात् तत्राद्यान्कालुष्यपरिपाकवतः पुरुषधीरेयान् अधिकारयोग्या-ननुगृह्यानन्तादिविद्येश्वराष्टपदं प्रापयति तद्विद्येश्वरा-ष्टकं निर्दिष्टं बहुदैवत्ये “अनन्तश्चैव सूक्ष्मश्च तथैवच शिवोत्तमः एकनेत्रस्तथैवैकरुद्रश्चापि त्रिमूर्त्तिकः ।श्रीकण्ठश्च शिखण्डी प्रोक्ता विद्येश्वरा इमे” अन्त्यान्सप्तकोटिसङ्ख्यातान् मन्त्राननुग्रहकरणान् विधत्तेतदुक्तं तत्त्वप्रंकाशे “पशवस्त्रिविधाः प्रोक्ता विज्ञानप्र-लयाकलौ सकलः मलयुक्तस्तत्राद्यो सलकर्मयुती द्वि-तीयः स्यात् मलमायाकर्मयुतः सकलस्तेषु द्विधा भ-वेदाद्यः आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयःस्यात् आद्याननुगृह्य शिवो विद्येशत्वे नियोजय-त्यष्टौ मन्त्रांश्च करोत्यपरान् ते चोक्ताः कोटयः सप्त”इति सोमशन्भुनाप्यभिद्वितम् “विज्ञानाकलनामैकोद्वितीयः पलयाकलः तृतीयः सकलः शास्त्रेऽनुग्रा-ह्यस्त्रिविधो मतः तत्राद्यो मलमात्रेण युक्तोऽन्योमलकर्मभिः कलादिभूमिपर्य्यन्ततत्त्वैस्तु सकली युतः”इति पलयाकलोऽपि द्विविधः पक्वपाशद्वयः तद्विल-क्षणश्च तत्र प्रथमो मोक्षं प्राप्नोति द्वितीयस्तु पुर्य्यष्ट-कयुतः कर्मवशान्नानाविधजन्मभाग् भवति तदप्युक्तंतत्त्वप्रकाशे “प्रलयाकलेषु येषामपक्वमलकर्मणी व्रज-न्त्येते पुर्य्यष्टकदेहयुता योनिषु निखिलासु कर्मव-शात्” इति पुर्य्यष्टकमपि तत्रैव निर्दिष्टम् “म्यात्पुर्य्यष्टकमन्तःकरणं धीकर्म करणानि” इति विवृतं चा-घोरशिवाचार्य्येण “पुर्य्यष्टकं नाम प्रतिपुरुषनियतःसर्गादारभ्य कल्पान्तं मोक्षान्तं वा स्थितः पृथिव्यादि-कलापर्य्यन्तस्त्रिंशत्तत्त्वात्मकः सृक्ष्मी देहः तथा चोक्तंतत्त्वसंग्रहे “वसुधाद्यस्तत्त्वगणः प्रतिपुन्नियतः कला-न्तोऽयम् पर्य्येति कर्मवशाद्भुवनजदेहेष्वयञ्च सर्वेषु”इति तथा चायमर्थः सममद्यत अन्तःकरणशब्देनमनोवुद्ब्यहङ्कारचित्तवाचिना अन्यान्यपि पुंसो भोग-क्रियायामन्तरङ्गाणि कलाकालनियतिविद्यारागप्रकृति-गुणाख्यानि सप्त तत्त्वानि उपलक्ष्यन्ते धीकर्मशब्देन ज्ञे-यानि पञ्चभूतानि तत्कारणानि तन्मात्राणि विव-क्ष्यन्ते करणशब्देन ज्ञानकर्मेन्द्रियदशकं संगृह्यते ।ननु श्रीमत्कालोत्तरे “शब्दः स्पर्शस्तथा रूपं रसोगन्धश्च पञ्चकम् बुद्धिर्मनस्त्वहङ्कारः पुर्य्यष्टकमुदाहृत-मिति” श्रूयते तत्कथमन्थथा कथ्यते अद्धा अतएव चतत्रभवता रामकण्ठेन तत्सूत्रं शक्तत्वपरतया व्याख्या-यीत्यलमतिप्रपञ्चेन तथापि कथं पुनरस्य पुर्य्यष्टकत्वंभूततन्मात्रबुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसज्ञैः पञ्चभिर्वर्गे-स्तत्करणेन प्रधानेन कलादिपञ्चकात्मना वर्गेण चार-ब्धत्वादियविरोधः तत्र पुर्य्यष्टकयुतान् विशिष्टपुण्यस-म्पन्नान् कांश्चिदनुगृह्य भुवनपतित्वमात्रं महेश्वरोऽनन्तःप्रयच्छति तदुक्तम् “कांयिदनुगृह्य वितरति भुवगपतित्वंमहश्वरस्तेषामिति” सकलोऽपि द्विविधः पककलापा-पक्वकलुषभेदात् तत्राद्यः परमेश्वरस्तत्परिपाकपरिपाटशतदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतं मन्त्रे-श्वरपद प्रापयति तदुक्तम् “ज्ञेया भवन्ति सकलाःकलादियोगादहर्मुखे काले शतमष्टादश तेपां करुतेख्ययमेव मन्त्रेशान् तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्-समाष्टवीरेशाः श्रीण्ठशतरुद्राः शतमित्यष्टादणा-भ्यधिकम्” इति तपरिपाकाधिक्यनिरोधेन शक्त्यु-पसहारेण दीक्षाकरणेन मोक्षपदो भवत्याचार्य्यमूर्त्तिमास्थाय परमेश्वरः तदप्युक्तम् “परिपक्वमलानेतानुत्सादनशक्तिपातेन योजयति परे तत्त्वे दीक्षया-चार्य्यमूर्त्तिस्थः” इति श्रीमृगेन्द्रेऽपि “पूर्वं व्यत्यासितस्याणोः पाशजीलमपोहति” इति व्याकृतञ्च ना-रायणकण्ठेन “तत्सर्वं तत एवावधार्यम् अस्माभिस्तुबिस्तरभिया प्रस्तूयते अपक्वकलुषान् बद्धानणून्भोगभाजो विधचे परमेश्वरः कर्मवशात् तदप्युक्तम्“बद्धान् शेपानपरान् विनियुङ्क्ते भोगभुक्तये पुंसः ।तत्कर्मणामनुगमादित्येवं कीर्त्तिताः पशवः” इति अथपाशपदार्थः कथ्यते पाशश्चतुर्विधः मलकर्ममायारोध-शक्तिभेदात् ननु “शैवागमेषु मुख्यं पतिषशुपाशाइति क्रमात्त्रितयम् तत्र पतिः शिव उक्तः पशवो ह्य-णवोऽर्थपञ्चकं पाशाः” इति पाशः पञ्चविधः कथ्यते तत्-कथं चतुर्विध इति गण्यते उच्यते विन्दोर्मायात्मनःशिवतत्त्वपदवेदनीयस्य शिवपदप्राप्तिलक्षणपरममुक्त्यपे-क्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदप्राप्तिहेतु-त्वेनापरसुक्तित्वात् पाशत्वेनानुपादानमित्यबिरीधः ।अतएवोक्तं तत्त्वप्रकाशे “पाशाश्चर्विधाः स्युः” इति ।श्रीमन्मृगोन्द्रेऽपि “प्रावृतीशौ बलं कर्म मायाकार्य्यञ्च-तुर्विधम् पाशजालं सआसेन पर्मनाम्नैव कीर्त्तितम्”इति अस्यार्थः प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनोवृक्क्रिये इति प्रावृतिः स्वाभाविक्यशुचिर्मलः ईष्टेस्वातन्त्र्येणेति टशः तदुक्तम् “एको ह्यनेकशक्तिदृक्-किययोश्छादको नलः पुंमः तुपतुण्डुलवज् ज्ञेयास्ता-म्राश्रितकालिकावद्वेनि” बलं रोधशक्तिः अस्याःशिवशक्तेः पाशाधिष्ठानेन पुरुषनिरोधायकत्वादुपचारेणपाशत्रम् तदुक्तम् “तासामहं वरा शक्तिः सर्वानुग्रा-हिका शिवा धर्मासुवर्त्तनादेव पाश इत्युपचर्य्यते”इति क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकंवीजाङ्कुरवत् प्रपाहरूपेणानादि यथोक्तं श्रीमत्-किरणे “यथानादिर्मलस्तस्य कर्माल्पकमनादिकम् ।यद्यनादि ससिद्धं वैचित्र्यं केन हेतुना” इति मा-त्यस्यां शक्त्यात्मना प्रलये सर्वं जगत्, सृष्टौ व्यक्तिंयातीति माया यथोक्तं श्रीमत्सौरभेये “शक्तिरू-पेण कार्य्याणि तल्लीनानि महाक्षये विकृतौ व्यक्ति-आयाति सा कार्येण कलादिना” इति यद्यप्यप्त वहुवक्तव्यमस्ति तथापि ग्रन्थभूयस्वभयादुपरम्यते तदित्थंपतिपशुपाशपदार्थास्त्रयः प्रदर्शिताः “पतिविद्येतथाऽविद्या पशुः पाशश्च कारणम् तन्निवृत्तावितिप्रोक्ताः पदार्थाः षट्समासतः” इत्यादिना प्रकारान्तरंज्ञानरत्नावल्यादौ प्रसिद्धम् सर्वं तत एवावगन्तव्यमितिसर्वं समञ्जसम्” ।४ ओषधौ प्रजापतिना रुद्रादिनामकरणप्रसङ्गे शत०ब्रा० १२ “तमव्रवीत् पशुपतिरसीति तद्यदस्यतन्नामाकरोदोषधयस्तद्रूपमभवन्नोषधयो वै पशुपतिस्त-शाद्यदा पशव ओषधीर्लभ तेऽथ पतीयन्ति”
Capeller
German
पशुप॑ति
m.
Herr der Tiere
Götterbeiname.