पशितव्यम् (pazitavyam)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“पश गतिनाशनयोः”@} 2 धातुपाठेऽपठितोऽप्ययं धातुः ‘जपजभदहदशभञ्जपशां च’ 3 इत्यत्रोपादानात् सौत्रोऽयमस्तीति प्रतीयते।
अर्थनिर्देशस्य कुत्रापि स्पष्टतया 4 अप्रतीतावपि, दशपाद्युणादिवृत्तौ 5 ‘पशिः सौत्रो धातुर्नाशने’ इति दर्शनात् नाशनार्थकत्वमस्येति ज्ञायते।
“पसधातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति माधवः, तालव्यान्त इति काशिका” इति बालमनोरमायाम्, तथा, अष्टाध्यायीप्रकाशिकायाम् 6 ‘जपजभ--’ 7 इत्यत्र ‘पम्पश्यते, पम्पशीति गत्यर्थकोऽयं धातुः।’ इत्युदा- हृतत्वाच्च गतावप्ययं प्रयुज्यते इति ज्ञेयम्।
शब्विकरणस्यौत्सर्गिकत्वात्, क्षीरतरङ्गिण्याम् ‘पशोऽनुपसर्गात्’ 8 इत्यत्र “गतावित्येव, अर्थानिर्देशात्।
‘अनार्षोऽयम्’ इति चन्द्रः।
‘भ्वादेश्चुरादेश्चानुपसर्गस्य पशेः णिच्यदन्तत्वविधिः--’ इत्येके।
पशयति।
उपसर्गान्नास्ति प्रपशति।” इत्युक्तत्वाच्च धातोरस्य भ्वादौ पाठः, गत्यर्थकत्वं चेति ज्ञायते।
प्रकृतसूत्रे 9 ‘पस’ इति दन्त्यान्तत्वेन केचित् पठन्ति।
गतौ सकर्मकः, नाशने त्वकर्मकः।
अनिट्कारिकासु धातोरस्योपादानाभावेन सेट्त्वं, ‘शेषात् कर्तरि परस्मैपदम्’ 10 इति परस्मैपदत्वं चेति यथायथमूह्यम्।
पाशकः-शिका, पाशकः-शिका, पिपशिषकः-षिका, 11 पम्पशकः-पंपशकः-शिका
पशिता-त्री, पाशयिता-त्री, पिपशिषिता-त्री, पम्पशिता-त्री
पशन्-न्ती, पाशयन्-न्ती, पिपशिषन्-न्ती
-- पशिष्यन्-न्ती-ती, पाशयिष्यन्-न्ती-ती, पिपशिषिष्यन्-न्ती-ती
-- -- पाशयमानः, पाशयिष्यमाणः, -- पम्पश्यमानः, पम्पशिष्यमाणः
12 पट्-पड्-पशौ-पशः
-- -- -- पशितम्-तः-तवान्, पाशितः, पिपशिषितः, पम्पशितः-तवान्
पशः, पाशः, पिपशिषुः, पम्पशः
पशितव्यम्, पाशयितव्यम्, पिपशिषितव्यम्, पम्पशितव्यम्
पशनीयम्, पाशनीयम्, पिपशिषणीयम्, पम्पशनीयम्
पाश्यम्, पाश्यम्, पिपशिष्यम्, पम्पश्यम्
ईषत्पशः-दुष्पशः-सुपशः
-- -- 13 पश्यमानः, पाश्यमानः, पिपशिष्यमाणः, पम्पश्यमानः
14 पाशः, पाशः, पिपशिषः, पम्पशः
पशितुम्, पाशयितुम्, पिपशिषितुम्, पम्पशितुम्
15 पष्टिः, पाशना, पिपशिषा, पम्पशा
पशनम्, पाशनम्, पिपशिषणम्, पम्पशनम्
पशित्वा, पाशयित्वा, पिपशिषित्वा, पम्पशित्वा
प्रपश्य, प्रपाश्य, प्रपिपशिष्य, प्रपम्पश्य
पाशम् २, पशित्वा २, पाशम् २, पाशयित्वा २, पिपशिषम् २, पिपशिषित्वा २, पम्पशम् २
पम्पशित्वा २
16 पशुः, 17 कुप्रत्यये रूपम्।
पश्यतेऽसौ-अल्पेनापि वायुना इति पांशुः = रेणुः।
अत्र दशपाद्युणादिवृत्तौ ‘पशि’ इतीदित् धातुः सौत्रत्वे- नोपात्तः।
परं तु प्रकृत 18 सूत्रे अनिदितमेव धातुं प्रतीमः।
अत्र 19 पाठो निरीक्ष्यः।]] पांशुः।
01 (९८३)
02 (१-भ्वादिः-सक। अक। सेट्। पर।)
03 (७-४-८६)
04 [पृष्ठम्०८५०+ २९]
05 (१-११२)
06 (देवप्रकाशपातञ्जलकृतायाम्)
07 (७-४-८६)
08 (ग। सू। चुरादौ)
09 (७-४-८६)
10 (१-३-७८)
11 [[१। यङन्ताण्ण्वुलि, ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासस्य नुगागमः। ‘स च पदान्तवद् वाच्यः’ (वा। ७-४-८५) इति पदान्तवद्भावे सति, ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
12 [[२। क्विपि, ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे जश्त्वे च रूपम्।]]
13 [पृष्ठम्०८५१+ २६]
14 [[१। पश्यतेऽनेनेति करणे, संज्ञायाम् ‘हलश्च’ (३-३-१२१) इति घञ्। पाशः = आयुधविशेषः।]]
15 [[२। क्तिनि, षत्वे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वे च रूपम्।]]
16 [[३। ‘उणादयो बहुलम्’ (३-३-१) इति उप्रत्यये रूपम्। पशुः = चतुष्पाज्जातिः।]]
17 [[४। औणादिके [द। उ। १-११२]
18 (७-४-८६)
19 [द। उ। १-११२]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
