| YouTube Channel

पश (paza)

 
शब्दसागरः
English
पश (ष-स) r. 1st cl. (पशति-ते) r. 10th cl. (पाशयति-ते पशयति-ते)
1. To
bind, to fetter.
2. To knot or tie.
3. To go, to move.
4. To
hinder or obstruct.
5. To touch. बाधे भ्वा, पक्षे अद० बन्धे-चु-उभ-सक-सेट्.
Wilson
English
पश r. 1st cl. (पशति-ते) r. 10th cl. (पाशयति पशयति)
1 To bind, to fetter.
2 To knot or tie.
3 To go, to move.
4 To hinder or obstruct.
5 To touch.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
पश्
मूलधातुः:
पश
धात्वर्थः:
बन्धने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
पाशयति-ते
धातुप्रदीपः
Sanskrit
पशँ पश बन्धने
- पाशयति पाशाद् विमोचयति विपाशयतीति चोक्तम् पश बन्धन इति युजादावेके पठन्ति-पाशयति पशति 180
पशँ पश बन्धने
- पाशयति पशति 295
शब्दकल्पद्रुमः
Sanskrit
पश, बन्धे इति कविकल्पद्रुमः
(चुरां-परं-सकं-सेट् ।) क, पाशयति इति दुर्गादासः
पश, बाधे ग्रन्थे इति कविकल्पद्रुमः
(भ्वां-उभं-सकं-सेट् ।) ञ, पशति, पशते बाधोविहतिः ग्रन्थो ग्रन्थनम् ग्रन्थस्थाने स्पर्शनंपठन्ति केचित् इति दुर्गादासः
पश, त् अनुपसर्गाद्बन्धबाधयोः स्पर्शगत्योः ।इति कविकल्पद्रुमः
(अदन्तचुरां-परं-सकं-सेट् ।) तालव्योपधः पशयति अनुपसर्गा-दिति सोपसर्गस्य प्रयोगो निषिध्यते बाधो-विहतिः इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
पश(ष--स) बाधे विहतौ
भ्वा०
उभ०
सक०
सेट् पश(ष)-(स)ति ते अपशी(षो)(सी)त् अपाशी(षी)(सी)त् अप-शि(षि)(सि)ष्ट पपाश(ष)(स)पेशे(षे)(से) दन्त्यान्त्य-स्यैव अभ्यासस्य सम्” यङ्यङ्लुकोः सि० कौ० पम्प-स्यति--पम्पसीति तालव्यान्त्यस्य तथेत्यन्ये
पश(ष स) स्पर्शे, गतौ अनुपसर्गात् षन्धे वाधे अद०
चु०
उभ०
सक०
सेट् पश(ष)(स)यति ते अपपश(ष)(स)त्
पश(ष--स) बन्धे चुरा०
उभ०
सक०
सेट् पाश(ष)सयति तेअपीपश(ष)(स)
क्षीरतरङ्गिणी
Sanskrit
पशँ पश बन्धने
- पाशयति भ्वादौ पशति, पशते उभयत्रापि मूर्धन्यान्त इति दुर्गः 186
पश अनुपसर्गात्
गतावित्येव, अर्थानिर्देशात् अनार्षोऽयमिति चन्द्रः भ्वादेश्चुरादेश्चानुपसर्गस्य पशेर्णिच्यदन्तत्वविधिरित्येके- पशयति उपसर्गान्नास्ति प्रपशति पशोऽनुपसर्गाद् वादन्त इत्येके-पशयति, पाशयति मूर्धन्यान्तोऽयमिति नन्दी 306
धातुवृत्तिः
Sanskrit
पशँ पश (अर्थः) बन्धने
( पाशयति ) 184
कृदन्तरूपमाला
Sanskrit
1 {@“पश गतिनाशनयोः”@} 2 धातुपाठेऽपठितोऽप्ययं धातुः ‘जपजभदहदशभञ्जपशां च’ 3 इत्यत्रोपादानात् सौत्रोऽयमस्तीति प्रतीयते।
अर्थनिर्देशस्य कुत्रापि स्पष्टतया 4 अप्रतीतावपि, दशपाद्युणादिवृत्तौ 5 ‘पशिः सौत्रो धातुर्नाशने’ इति दर्शनात् नाशनार्थकत्वमस्येति ज्ञायते।
“पसधातुर्दन्त्यान्तः सौत्रो गत्यर्थ इति माधवः, तालव्यान्त इति काशिका” इति बालमनोरमायाम्, तथा, अष्टाध्यायीप्रकाशिकायाम् 6 ‘जपजभ--’ 7 इत्यत्र ‘पम्पश्यते, पम्पशीति गत्यर्थकोऽयं धातुः।’ इत्युदा- हृतत्वाच्च गतावप्ययं प्रयुज्यते इति ज्ञेयम्।
शब्विकरणस्यौत्सर्गिकत्वात्, क्षीरतरङ्गिण्याम् ‘पशोऽनुपसर्गात्’ 8 इत्यत्र “गतावित्येव, अर्थानिर्देशात्।
‘अनार्षोऽयम्’ इति चन्द्रः।
‘भ्वादेश्चुरादेश्चानुपसर्गस्य पशेः णिच्यदन्तत्वविधिः--’ इत्येके।
पशयति।
उपसर्गान्नास्ति प्रपशति।” इत्युक्तत्वाच्च धातोरस्य भ्वादौ पाठः, गत्यर्थकत्वं चेति ज्ञायते।
प्रकृतसूत्रे 9 ‘पस’ इति दन्त्यान्तत्वेन केचित् पठन्ति।
गतौ सकर्मकः, नाशने त्वकर्मकः।
अनिट्कारिकासु धातोरस्योपादानाभावेन सेट्त्वं, ‘शेषात् कर्तरि परस्मैपदम्’ 10 इति परस्मैपदत्वं चेति यथायथमूह्यम्।
पाशकः-शिका, पाशकः-शिका, पिपशिषकः-षिका, 11 पम्पशकः-पंपशकः-शिका
पशिता-त्री, पाशयिता-त्री, पिपशिषिता-त्री, पम्पशिता-त्री
पशन्-न्ती, पाशयन्-न्ती, पिपशिषन्-न्ती
-- पशिष्यन्-न्ती-ती, पाशयिष्यन्-न्ती-ती, पिपशिषिष्यन्-न्ती-ती
-- -- पाशयमानः, पाशयिष्यमाणः, -- पम्पश्यमानः, पम्पशिष्यमाणः
12 पट्-पड्-पशौ-पशः
-- -- -- पशितम्-तः-तवान्, पाशितः, पिपशिषितः, पम्पशितः-तवान्
पशः, पाशः, पिपशिषुः, पम्पशः
पशितव्यम्, पाशयितव्यम्, पिपशिषितव्यम्, पम्पशितव्यम्
पशनीयम्, पाशनीयम्, पिपशिषणीयम्, पम्पशनीयम्
पाश्यम्, पाश्यम्, पिपशिष्यम्, पम्पश्यम्
ईषत्पशः-दुष्पशः-सुपशः
-- -- 13 पश्यमानः, पाश्यमानः, पिपशिष्यमाणः, पम्पश्यमानः
14 पाशः, पाशः, पिपशिषः, पम्पशः
पशितुम्, पाशयितुम्, पिपशिषितुम्, पम्पशितुम्
15 पष्टिः, पाशना, पिपशिषा, पम्पशा
पशनम्, पाशनम्, पिपशिषणम्, पम्पशनम्
पशित्वा, पाशयित्वा, पिपशिषित्वा, पम्पशित्वा
प्रपश्य, प्रपाश्य, प्रपिपशिष्य, प्रपम्पश्य
पाशम् २, पशित्वा २, पाशम् २, पाशयित्वा २, पिपशिषम् २, पिपशिषित्वा २, पम्पशम्
पम्पशित्वा
16 पशुः, 17 कुप्रत्यये रूपम्।
पश्यतेऽसौ-अल्पेनापि वायुना इति पांशुः = रेणुः।
अत्र दशपाद्युणादिवृत्तौ ‘पशि’ इतीदित् धातुः सौत्रत्वे- नोपात्तः।
परं तु प्रकृत 18 सूत्रे अनिदितमेव धातुं प्रतीमः।
अत्र 19 पाठो निरीक्ष्यः।]] पांशुः।
प्रासङ्गिक्यः
01
=>
(९८३)
02
=>
(१-भ्वादिः-सक। अक। सेट्। पर।)
03
=>
(७-४-८६)
04
=>
[पृष्ठम्०८५०+ २९]
05
=>
(१-११२)
06
=>
(देवप्रकाशपातञ्जलकृतायाम्)
07
=>
(७-४-८६)
08
=>
(ग। सू। चुरादौ)
09
=>
(७-४-८६)
10
=>
(१-३-७८)
11
=>
[[१। यङन्ताण्ण्वुलि, ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासस्य नुगागमः। ‘स पदान्तवद् वाच्यः’ (वा। ७-४-८५) इति पदान्तवद्भावे सति, ‘वा पदान्तस्य’ (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
12
=>
[[२। क्विपि, ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यादिना षत्वे जश्त्वे रूपम्।]]
13
=>
[पृष्ठम्०८५१+ २६]
14
=>
[[१। पश्यतेऽनेनेति करणे, संज्ञायाम् ‘हलश्च’ (३-३-१२१) इति घञ्। पाशः = आयुधविशेषः।]]
15
=>
[[२। क्तिनि, षत्वे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वे रूपम्।]]
16
=>
[[३। ‘उणादयो बहुलम्’ (३-३-१) इति उप्रत्यये रूपम्। पशुः = चतुष्पाज्जातिः।]]
17
=>
[[४। औणादिके [द। उ। १-११२]
18
=>
(७-४-८६)
19
=>
[द। उ। १-११२]
1 {@“पश बन्धने”@} 2 3 ‘पष बन्धने’ इति पुरुषकारसंमतः पाठः।
यदाह-- “पाषण्डादिस्तु ‘पष अनुपसर्गात्’ इत्यस्य कथादेर्भविष्यति।
‘पष बन्धने’ इत्यस्यैव वा युजादेः।’ 4” इति।]] पाशकः-शिका, पिपाशयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकजासयतिवत् 5 ज्ञेयानि।
अस्य धातोर्णिज्विकल्पो नास्तीति विशेषः।
6 पाशितवान्।
प्रासङ्गिक्यः
01
=>
(९८४)
02
=>
(१०-चुरादिः-१७२०। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(श्लो। १६७ दैवव्याख्याने)
05
=>
(५९६)
06
=>
[[आ। ‘मल्लो जिजम्भिषुरसूदितवीर्यमीशं मुष्ट्या जजास बहु पाशितवांश्च दोष्णा।।’ धा। का। ३। ३८।]]