| YouTube Channel

पवित्रारोहणं (pavitrArohaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
पवित्रारोहणं,
क्ली,
(पवित्रस्य यज्ञोपवीतस्यआरोहणं सम्प्रदानं यत्र ।) पवित्रारोपणम् ।यथा, --“आषाढशुक्लपक्षस्य याष्टमी श्रावणस्य ।पवित्रारोहणं कुर्य्याद्देव्याः प्रीतिकरं परम्
दुर्गातन्त्रेण मन्त्रेण दुर्गाबीजेन भैरव ! ।वैष्णवीतन्त्रमन्त्रेण पवित्रारोहणञ्चरेत्
विशेषात् श्रावणादेव देव्याः कुर्य्यात् पवित्रकम् ।सर्व्वेषामपि देवानां पवित्रारोहणञ्चरेत्
आषाढे श्रावणे वापि संवत्सरफलप्रदम् ।प्रतिपद्धनदस्योक्ता पवित्रारोहणे तिथिः
श्रिया देव्या द्वितीया तु तिथीनामुत्तमा तिथिः
तृतीया भवभाविन्याश्चतुर्थी तत्सुतस्य
पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य ।सप्तमी भास्करस्योक्ता दुर्गायाश्च तथाष्टमी
मातणां नवमी प्रोक्ता वासुकेर्दशमी स्मृता ।एकादशी ऋषीणाञ्च द्वादशी चक्रपाणिनः
त्रयोदशी त्वनङ्गस्य मम चैव चतुर्द्दशी ।ब्रह्मणो दिक्पतीनाञ्च पौर्णमासी तिथिर्मता
पवित्रारोहणं यो वै देवानां समाचरेत् ।तस्य सांवत्सरीपूजाफलं हरति केशवः
तस्माद्यत्नेन कर्त्तव्यं पवित्रारोहणं परम् ।कृते बहुफलप्राप्तिस्तत्पूजा सफला भवेत्
पवित्रं येन सूत्रेण यथा कार्य्यं विजानता ।तत् शृणुष्व प्रमाणञ्च रचनासु भैरव !
प्रथमं दर्भसूत्रञ्च पद्मसूत्रं ततः परम् ।ततः क्षौमं सुपुण्यं स्यात् कार्पासकमतः परम्
पट्टसूत्रं तथान्येन पवित्राणि कारयेत् ।पवित्राणि विचित्राणि कर्त्तव्याणि प्रयत्नतः
गन्धमाल्यैः सुरभिभिरर्च्चितानि यथोदितम्
कन्या कर्त्तयेत् सूत्रं प्रमदा वा पतिव्रता
विधवा शाधुशीला दुःशीला हि कर्त्तयेत् ।यत् सूचिभिन्नं दग्धञ्च भस्मधूमाभिगुण्ठितम्
तद्वर्ज्जयेत यत्नेन सूत्रमस्मिन् पवित्रके ।उपयुक्तञ्चाखुदष्टं मद्यरक्तादिदूषितम्
मलिनं नीलरक्तञ्च यत्नेन परिवर्ज्जयेत् ।सूत्रैः पवित्रं कुर्व्वीत कनिष्ठोत्तममध्यमम्
कनिष्ठकं पवित्रन्तु सप्तविंशतितन्तुभिः ।मर्त्यलोके यशःकीर्त्तिसुखसौभाग्यवर्द्धनम्
चतुःपञ्चाशता प्रोक्तं तन्तूनां मध्यमं परम् ।दिव्यभोगावहं पुण्यं स्वर्गसौख्यप्रदायकम्
उत्तमञ्चैव तन्तूनामष्टोत्तरशतेन वै ।तद्दत्त्वा तु महादेव्यै शिवसायुज्यमाप्नुयात्
उत्तमं वासुदेवाय दद्याद्यदि पवित्रकम् ।तदा याति हरेर्लोकं साधको नात्र संशयः
अष्टोत्तरसहस्रन्तु रत्नमालेति गीयते ।पवित्रन्तु महादेव्या भुक्तिमुक्तिप्रदायकम्
रत्नमालान्तु यो दद्यान्महादेव्यै पवित्रकम् ।कल्पकोटिसहस्राणि स्वर्गे स्थित्वा शिवो भवेत्
एतत्तु नागहाराख्यं शङ्करस्य पवित्रकम् ।अष्टोत्तरसहस्रेण तन्तूनां सुमनोहरम्
यः प्रयच्छति मह्यन्तु यावान् तन्तुसञ्चयः ।तावत्कल्पसहस्राणि मम लोके प्रमोदते
अष्टोत्तरसहस्रेण वनमाला हरेः स्मृता ।तन्तूनां तस्य दानेन विष्णुसायुज्यमाप्नुयात्
यत् कनिष्ठं पवित्रन्तु नाभिमात्रं भवेत्तु तत् ।द्वादशग्रन्थिसंयुक्तमात्ममानेन योजयेत्
ऊरुप्रमाणं मध्यं स्यात् ग्रन्थीनां तत्र योजयेत् ।चतुर्विंशतिमप्यस्य मालामात्मन एव
पवित्रमुत्तमं प्रोक्तं जानुमात्रञ्च भैरव ! ।षट्त्रिंशत्तन्तुग्रन्थीनां योजयेदात्ममानतः
शतमष्टोत्तरं कार्य्यं ग्रन्थीनां स्वविधानतः ।नागहाराह्वयं तद्वदर्थेषु विधानतः
पवित्रं क्रियते येन सूत्रेण ग्रन्थयः पुनः ।तदन्यवर्णसूत्रेण कर्त्तव्या लक्षणान्विताः
ग्रन्थिन्तु सप्तभिः कुर्य्याद्वेष्टनैस्तु कनिष्ठके ।द्विगुणैर्मध्यमे कुर्य्यात्त्रिगुणैरुत्तमे तथा
अधिवास्य पवित्राणि पूर्व्वस्मिन्दिवसे पुनः ।मन्त्रन्यासं पवित्रेषु कुर्य्यात्तत्र परेऽहनि
दुर्गाबीजेन मन्त्रेण मन्त्रन्यासं द्बिजश्चरेत् ।वैष्णवीतन्त्रमन्त्रेण कुर्य्युरन्ये भैरव !
प्रतिग्रन्थि स्वयं कुर्य्यान्मन्त्रन्यासं विचक्षणः
अङ्गुष्ठाग्रेण जप्यन्तु मालायामिह भैरव ! ।यावन्ता ग्रन्थयश्चात्र तावन्त्येव संन्यसेत् ।मन्त्राणि तस्य तेन स्यात् देवाङ्गोपनियाजनम्
दुर्गातन्त्रेण मन्त्रेण तत्त्वन्यासन्तु कारयेत् ।एकत्र न्यस्य सकलं यज्ञपात्रे पवित्रकम्
तस्मिन्निधाय पुष्पाणि गन्धादि सुशोभनम्
तत्त्वन्यासं ततः कुर्य्यादङ्गुल्यग्रेण भैरव !
विष्णोस्तु मूलमन्त्रेण तत्त्वन्यासन्तु कारयेत् ।इदं विष्णुरिति प्रोक्तं मन्त्रन्यासे द्विजस्य हि
शूद्राणां मन्त्रविन्यासे मन्त्रो वै द्बादशाक्षरः ।प्रासादेन तु मन्त्रेण मन्त्रन्यासो मम स्मृतः
अनेन मन्त्रम्यासन्तु दानञ्चानेन कारयेत् ।कुङ्कुमोशीरखर्ज्जूरैश्चन्दनादिविलेपनैः
पवित्राणि विलिप्याथ तत्त्वन्यासन्तु योजयेत् ।सम्पूज्य विधिवद्देवीं मण्डले प्रयतो नरः
वैष्णवीतन्त्रमन्त्रेण दुर्गामन्त्रेण भैरव ! ।दुर्गाबीजेन दद्यात्तु देव्या मूर्द्ध्नि पवित्रकम्
यस्य देवस्य या पूजा तस्य तस्यैव मण्डलम् ।यस्य यस्य तु यो मन्त्रो यथाध्यानादिपूजनम्
तं देवं तेन भावेन पूजयित्वा प्रयत्नतः ।तस्यैव बीजमन्त्राभ्यां मूर्द्ध्नि दद्यात् पवित्रकम्
पवित्रं समये दद्याद्देवेभ्यश्च पवित्रकम् ।सर्व्वेषामेव वेदानां सम्पूर्णार्थञ्च भैरव !
अग्निर्ब्रह्मा भवानी गजवक्त्रो महोरगः ।स्कन्दो भानुर्मातृगणो दिक्पालाश्च नव ग्रहाः
एषां घटेषु प्रत्येकं पूजयित्वा यथाविधि ।मूर्द्ध्नि पवित्रमेकैकं दद्यादेभ्यः समाहितः
पञ्चगव्यचरुं कृत्वा देव्यै दत्त्वाहुतित्रयम् ।तेनैव वह्नये दत्त्वा शम्भवे यथाविधि
आज्यैरष्टोत्तरशतं तिलैराज्यैस्तथैव ।अष्टोत्तरशतं दद्यान्महादेव्यै साधकः
एवमेवं विधानेन विष्ण्वादीनाञ्च वैष्णवः ।पवित्रारोपणं कुर्य्याद्धर्म्मकामार्थसिद्धये
नैवेद्यैर्विविधैः पेयैर्वटपिष्टकमोदकैः ।कुष्माण्डैर्नारिकेलैश्च खज्जूरैः पनसैस्तथा
आम्रदाडिमकर्कारुद्राक्षादिविविधैः फलैः ।भक्ष्यभोज्यादिभिः सर्व्वैर्मद्यैर्मांसैस्तथोदनैः
गन्धैः पुष्पैस्तथा धूपैर्दीपैश्च सुमनोहरैः ।वासोभिर्भूषणैश्चैव भवानीं साधको यजेत्
नटनर्त्तकसंघैश्च वेश्याभिरपि भैरव ! ।नृत्यगीतैः समुदितो जागरं कारयेन्निशि
भोजयेद्ब्राह्मणांश्चापि ज्ञातीनपि द्विजोत्तमैः ।पवित्रारोहणे वृत्ते दक्षिणामुपदापयेत्
हिरण्यं गां तिलं वासो घृतं वा शाकमेव वा ।इमं मन्त्रं ततः पश्चात् साधकः समुदीरयेत्
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ।इयं सांवत्सरी पूजा तवास्तु परमेश्वरि !
ततो विसर्ज्जयेद्देवीं पूर्व्वभिः प्रतिपत्तिभिः ।एवं कृते पवित्राणां दाने देव्या यथाविधि
संवत्सरस्य या पूजा सम्पूर्णा वत्स ! जायते ।कल्पकोटिशतं यावद्देवीगेहे वसेन्नरः ।अत्रापि सुखसौभाग्यसमृद्धिरतुला भवेत्
”इति कालिकापुराणे ५८ अध्यायः
गरुडपुराणे ४२ ४३ अध्याययोरप्येतद्द्रष्ट-व्यम्