| YouTube Channel

पवित्रारोपण (pavitrAropaNa)

 
शब्दसागरः
English
पवित्रारोपण
n.
(-णं)
1. Investiture with the Brāhminical cord.
2. In-
vesting the image of KRISHṆA with it, on the twelfth of the light
fortnight of Srāvana.
E.
पवित्र, and आरोपण placing.
Yates
English
पवित्रा_रोपण (णं) 1.
n.
Investiture.
Spoken Sanskrit
English
पवित्रारोपण pavitrAropaNa
n.
investiture with the Brahmanical cord
पवित्रारोपण pavitrAropaNa
n.
putting on the pavitra
पवित्रारोपण pavitrAropaNa
n.
investing the image of kRSNa or another deity with the sacred thread
Wilson
English
पवित्रारोपण
n.
(-णं)
1 Investiture with the Brahminical cord.
2 Investing the image of KṚṢṆA with it, on the twelfth of the light
fortnight of Śrāvaṇa.
E.
पवित्र, and आरोपण placing.
Monier Williams Cologne
English
पवित्रारोपण
n.
‘putting on the Pavitra’, investiture with the Brāhmanical cord, (esp. ) investing the image of Kṛṣṇa or another deity with the sacred thread,
N.
of a festival on the 12th day of the light half of Śrāvaṇa or Aṣāḍha,
Pañc.
Macdonell
English
पवित्रारोपण pavitra‿āropaṇa,
n.
investiture 🞄of Kṛṣṇaʼs effigy with the sacred cord, a 🞄certain festival
-ārohaṇa,
n.
id..
Apte Hindi
Hindi
पवित्रारोपणम्
नपुं*
पवित्र-आरोपणम् पू + इत्र
"यज्ञोपवीत धारण करने का संस्कार, उपनयन संस्कार"
L R Vaidya
English
pavitra-AropaRa {% n. %} investiture with the sacred cord.
पुराणम्
English
पवित्रारोपण / PAVITRĀROPAṆA. A pūjāvidhi (a mode of worship). If you perform a pavitrāropaṇa worship you will get the benefit of worshipping viṣṇu for a year. This worship is to be conducted in the months of āṣāḍha (July), śrāvaṇa (August) Prauṣṭhapada (September), Āśvina (October) and Kārttika (November) A sacred Pavitra (sacred thread or ring of kuśa grass) is to be prepared either in gold, silver, copper, cotton or silk. A specially purified cotton thread is also enough The Pavitra is to be made of three threads woven together. The Pavitra is to be made holy by reciting 108 times the gāyatrī mantra or even half of that number is enough. Reciting 108 times or more is considered to be uttama (best)
half of it is considered Madhyama (tolerable) and less than it is considered adhama (worst). The Pavitra should then be tied to maṇḍalas and the mantra to be recited at the time of tying it, is this:Oṁ Nārāyaṇāya vidmahe Vāsudevāya Dhīmahi
tanno Viṣṇuḥ pracodayāt. (Chapter 34, agni purāṇa).
शब्दकल्पद्रुमः
Sanskrit
पवित्रारोपणं,
क्ली,
(पवित्रस्य यज्ञोपवीतस्यआरोपणं प्रदानं यत्र ।) श्रीकृष्णसम्प्रदानकोप-वीतदानरूपोत्सवविशेषः यथा, --“श्रावणस्य सिते पक्षे द्बादश्यां वैष्णवैर्मुदा ।कर्त्तव्यः कृष्णदेवस्य पवित्रारोपणोत्सवः
”अथ तन्नित्यता बह्वृचपरिशिष्टे ।“स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञे षु दीक्षितः ।हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत्
विधिना शास्त्रदृष्टेन यो कुर्य्यात् पवित्रकम् ।हरन्ति राक्षसास्तस्य वर्षपूजादिकं फलम्
”योगसारे पवित्रोत्पत्त्युपाख्यानेन नागराजंपवित्रं प्रति श्रीरुद्रेण वरदानम् यथा, --“ये त्वां बहुमन्यन्ते यथा सम्भावितो मया ।जपहोमादिकं तेषां फलं त्वामेतु निश्चयात्
विष्णुरहस्ये ।न करोति विधानेन पवित्रारोपणन्तु यः ।तस्य साम्बत्सरी पूजा निष्फला मुनिसत्तम् !
तस्माद्भक्तिसमायुक्तैर्नरैर्व्विष्णुपरायणैः ।वर्षे वर्षे तु कर्त्तव्यं पवित्रारोपणं हरेः
”अथ पवित्रारोपणमाहात्म्यम् ।तत्र बौधायनः ।“यावांस्तन्तुः पवित्रस्य तावत् स्वर्गे महीयते ।आयुरारोग्यमैश्वर्य्यं विपुलं तस्य वर्द्धते
महासंहितायाम् ।सम्बत्सरेण या पूजा कृता वै मन्त्रिणा द्बिज ! ।पवित्रदानात् पूर्णा स्यादित्याह भगवान् हरिः
विष्णुरहस्ये ।पवित्रारोपणं विष्णोर्भुवि मुक्तिप्रदायकम् ।स्त्रीपुंकीर्त्तिप्रदं पुण्यं सुखसम्पद्धनावहम्
पुण्यानान्तु तथा पुण्यं सर्व्वपापहरन्तु वै ।पवित्रारोपणं तस्मात् पवित्रं परमं स्मृतम्
सम्बत्सरे नरो भक्त्या समभ्यर्च्च्य जनार्द्दनम् ।यत् फलं समवाप्नोति पवित्रारोपणेन तत्
किञ्च ।पावयत्येनसो नित्यं त्रायते भवबन्धनात् ।पवित्रं तेन विख्यातं ब्राह्मं तेजोऽभिधीयते
विष्ण्वाख्यया तु विख्यातं तदा लोके विधीयते ।स एव सूत्ररूपेण यज्ञेशः कर्म्मणां प्रभुः
तदेव त्रिगुणीसूत्रं ततं नारायणाख्यया ।त्रिदेवात्मा त्रिवेदात्मा त्र्यक्षरः प्रणवः स्मृतः
अथ पवित्रारोपणविधिः ।“सौवर्णै राजतैस्ताम्रैः क्षौमैः सूत्रैस्तु पाद्मिकैः ।कार्पासैर्वा पवित्राणीष्यते काशैः कुशैरपि
तत्र कार्पासिकं सूत्रं ब्राह्मणीकर्त्तितं शुभम् ।आनीय त्रिगुणीकृत्य पुनस्त्रिगुणयेच्छुचिः
पञ्चगव्येन तत् प्रोक्ष्य प्रक्षाल्य शुचिनाम्बुना ।मूलेनाष्टोत्तरशतं मन्त्रेणाथाभिमन्त्रयेत्
त्रीणि सावृशतेनास्य तस्यार्द्धेनास्य चार्द्धतः ।जानूरुनाभिदघ्नानि पवित्राण्याचरेत् प्रभोः
षट्त्रिंशद्ग्रन्थयस्तेषामाद्ये कार्य्यास्तु मध्यमे ।चतुर्विंशतिरन्ते द्बादशग्रन्थयो बुधैः
अङ्गुष्ठपर्व्वमात्रन्तु कुर्य्याद्ग्रन्थिमथोत्तमे ।तदर्द्धं मध्यमे कुर्य्यात्तदर्द्बञ्च कनीयसि
ग्रन्थीन् कुर्व्वीत सर्व्वत्र सुवृत्तान् सुमनोहरान् ।न वै विषमसंख्याकान् ग्रन्थीन् कुर्व्वीत कुत्रचित्
अष्टोत्तरसहस्रेण तत्सूत्रस्य पवित्रकम् ।अष्टोत्तरशतं ग्रन्थिं वनमालाख्यमाचरेत्
आरभ्य मुकुटं या तु सूत्रैर्विरचिता शुभा ।आपादलम्बिनी माला वनमाला प्रकीर्त्तिता
कुर्य्याद्गन्धपवित्रञ्च सूत्रैर्द्बादशभिः शुभैः ।अरत्निप्रमितं तच्च द्वादशग्रन्थिकं कृती
पवित्राणि परीवारदेवतानां समाचरेत् ।सूत्रैस्तैरुडुसंख्याकैः कलासंख्यार्कसंख्यकैः
तेषु ग्रन्थीन् यथाशोभं बद्ध्वा वह्नेर्गुरोरपि ।सप्तविंशतिभिः सूत्रैः षड्विंशतिभिरात्मनः
यथासम्भवमन्येषां पवित्राणि कारयेत् ।सम्पादयेच्च सर्व्वाणि शोभनान्येव यत्नतः
तथा चोक्तम् ।विशोभसूत्रदानेन कर्त्तुः स्यादशुभं फलम् ।परित्रं परया भक्त्या तस्मात् कुर्व्वीत शोभनम्
रञ्जयित्वाथ काश्मीरागुरुगोरोचनादिना ।वस्त्रेणाच्छाद्य पटले स्थापयेत्तानि वैणये
”इति पवित्रयिनिर्म्माणम्
*
“कृत्वा कृत्यं दशग्याञ्च पवित्रारोपणाय हि ।कृष्णं विज्ञाप्य तत्राद्रिं यथा प्राग्लिखितं नयेत्
एकादश्यां प्रभाते नित्यकृत्यं समाप्य हि ।देवालवमुपस्कृत्य मण्डलं रचयेत् शुभम्
कृत्वा कृष्णस्य नित्यार्च्चां पवित्रारोपणाथकाम् ।पूजां विशेषतः कृत्वा कृष्णं विज्ञापयेदिदम्
क्रियालोपविघातार्थं यत्त्वया विहितं प्रभो ! ।मयैतत् क्रियते देव ! भवत्तुष्ट्यै पवित्रकम्
मे विघ्नो भवत्वत्र कुरु नाथ ! दयां मयि ।सर्व्वथा सर्व्वदा विष्णो ! मम त्वं परमा गतिः
देवस्य सर्व्वतो न्यस्येद्दन्तकाष्ठं जलं कुशान् ।मृत्तिकाञ्च हरिद्राञ्च कुङ्कुमं रोचनानि
उपानहौ सितं छत्त्रं चामरं व्यजनं तथा ।यवा ब्रीह्यादिघान्यानि यथास्थानं पृथक् पृथक्
कुम्भं शुद्धाम्बुनापूर्य्य सर्व्वतोभद्रमण्डले ।देवाग्रतो निधायास्मिन् परित्राण्यधिवासयेत्
”अथ पवित्राधिवासनम् ।“भगवत्पुरतस्तानि पटलस्थानि पूजयन् ।आदावावाहयेन्मूलयुजा तन्मनुना बुधः
तन्मन्त्रश्चायम् ।ओँ सांवत्सरस्य यागस्य परित्रीकरणाय भोः ।विष्णुलोकात् परित्राद्य आगच्छेह नमोऽस्तु ते
तेष्वावाह्य यथास्थानं ब्रह्माद्या देवतास्ततः ।तत्तन्मन्त्रैः सन्निधाप्याक्षतगन्धादिनार्च्चयेत्
तत्र तत्र ता देवताश्चोक्ताः ।ब्रह्मविष्णुमहादेवास्त्रिसूत्रीदेवताः स्मृताः ।प्रणवः सोमवह्नी ब्रह्मा नागः शशी रविः
शिवश्च विश्वदेवाश्च नवसूत्र्यधिदेवताः ।क्रिया पौरुषी वीरा चतुर्थी चापराजिता
जया विजया चैव मुक्तिदा सदाशिवा ।मनोमयी तु नवमी दशमी सर्व्वतोमुखी ।ग्रन्थीनां देवतास्त्वेतास्तास्तत्र विनिवेशयेत्
तन्मन्त्राश्चैते ।ओँ सर्व्वाभरणचित्राङ्ग ! सर्व्वदेवनमस्कृत ! ।लावण्यरूपविश्वात्मन् ! ज्येष्ठसूत्रं समाश्रय
ओँ सर्व्वलक्ष्मीकर ! श्रीश ! सर्व्वज्ञानरसात्मक ! ।निवृत्तरूपविश्वात्मन् ! मध्यसूत्रं समाश्रय
ओँ अतिवेगमरुद्योने ! पुरुषात्मन् ! दिवस्पते ! ।कनीयो हे प्रभो ! देव ! तेजसा सूत्रमाश्रय
यत्र मन्त्रो वर्त्तेत तत्तन्नामैव तत्र ।नमोऽन्तं सचतुर्थीकमूह्यः प्राग्लिखनान्मनुः
*
अथ कृष्णकराम्भोजे पट्टसूत्रेण निर्म्मितम् ।वितस्तिमात्रं बध्नीयात् डोरकं मङ्गलात्मकम्
तत्र मन्त्रः ।ओँ संवत्सरकृतार्च्चायाः सम्पूर्णफलदायि यत् ।पवित्रीकरणायैतत् कौतुकं धरते नमः
ततो गन्धपवित्रञ्च गृहीत्वा धूपितं बुधः ।भगवन्तं नमस्कृत्य भक्त्या संप्रार्थयेदिदम्
आमन्त्रितोऽसि देवेश ! सार्द्धं देवगणेश्वरैः ।मन्त्रेशैर्लोकपालैश्च सहितः परिवारकैः
आगच्छ भगवन्नीश ! विधिसंपूर्त्तिकारक ! ।प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव !
ततश्च ।विष्णुतेजोद्भवं रम्यं सर्व्वपातकनाशनम् ।सर्व्वकामप्रदं देव तवाङ्के धारयम्यहम्
अनेन मनुना विद्वान् मूलसंपुटितेन हि ।दद्यात् गन्धपवित्रं तच्छ्रीकृष्णचरणाब्जयोः
नीराज्य देवं स्तुत्वा दत्त्वा पुष्पाञ्जलिं ततः ।तत्पवित्राणि तत्कुम्भमप्यस्त्रमनुनाथवा
नृसिंहमनुना रक्षेत् कवचेनावगुण्ठयेत् ।गीतनृत्यादिना कुर्य्याद्बिधिवज्जागरं निशि
”अथ पवित्रार्पणम् ।“प्रातःकृत्यानि निर्व्वृत्य नित्यपूजां विधाय ।विशेषतोऽर्च्चयेद्देवं पवित्राणि पूजयेत्
महावादित्रघोषेण नामसंकीर्त्तनोत्सवैः ।मूलसंपुटितेनैव पवित्राण्यर्पयेत् क्रमात्
वक्ष्यमाणेन मन्त्रेण भक्त्या कृष्णाय वैष्णवः ।पूजां कृत्वा परीवारदेवानां तान्यथार्पयेत्
अर्पणमन्त्रः ।कृष्ण ! कृष्ण ! नमस्तुभ्यं गृहाणेदं पवित्रकम् ।पवित्रकरणार्थाय वर्षपूजाफलप्रदम्
पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम् ।शुद्धो भवाम्यहं देव ! त्वत्प्रसादाज्जनार्द्दन !
महापूजां ततः कृत्वा स्तुत्वा नत्वार्थयेत् प्रभुम् ।वनमालां यथा देव ! कौस्तुभं सततं हृदि
तद्वत् पवित्रतन्तूंश्च पूजाञ्च हृदये वह ।जानताजानता वापि कृतं यत्तवार्च्चनम्
केनचिद्विघ्नदोषेण परिपूर्णन्तदस्तु मे
अथाग्निं विधिनाभ्यर्च्च्य पवित्रं तस्य चार्पयेत् ।कृष्णे निवेदयेन्मन्त्रहीन इत्यादिना कृतम्
गुरुञ्च शक्त्या संपूज्य पवित्रं गुरवेऽर्पयेत् ।वैष्णवेभ्यः पवित्राणि दत्त्वैकं धारयेत् स्वयम्
संपूज्य वैष्णवान् विप्रान् शक्त्या सम्भोज्य बन्धुभिः ।समं महाप्रसादान्नं सुखं भुञ्जीत वैष्णवः
”अथ पवित्रविसर्ज्जनविधिः तन्त्रे ।“मासं पक्षमहोरात्रं त्रिरात्रं धारयेत्तथा ।देवं तं सूत्रसन्दर्भं देशकालानुसारतः
प्रत्यहं स्नानकर्म्मादि सूत्राण्युत्तार्य्य कारयेत् ।अभिषिच्याथ तोयेन पुनर्देवे निवेदयेत्
तथान्ते देवमभ्यर्च्च्य विशेषात् पुष्पचन्दनैः ।नैवेद्यं विविधं दत्त्वा ततः सूत्रं विसर्ज्जयेत्
ओँ सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम ।व्रजेदानीं पवित्र ! त्वं विष्णुलोकं विसर्ज्जितम्
यावद्देवे पवित्राणि तावत्तिष्ठेत् समाहितः ।ब्रह्मचारी हविष्याशी देवपूजापरायणः
तत्फलञ्चोक्तं बौधायनेन ।एवं यः कुरुते विद्वान् वर्षे वर्षे संशयः ।स याति परमं स्थानं यत्र देवो नृकेशरी
”अथ तत्र मुख्यगौणकालनिर्णयः ।“मुख्यकालस्य चैवास्य विघ्नतोपगमे सति ।भाद्रादावपि कर्त्तव्यं पवित्रारोपणं प्रभोः
तथा विष्णुरहस्ये ।श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे ।द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम्
सिंहस्थे वा रवौ कार्य्यं कन्यायाञ्च गतेऽथवा ।तस्यामेव तिथौ सम्यक् तुलासंस्थे कथञ्चन
मन्त्रतन्त्रप्रकाशे ।कर्क्कटञ्च गते सूर्य्ये तथा सिंहगतेऽपि वा ।द्वादश्यां शुक्लपक्षस्य हरेर्द्दद्यात् पवित्रकम्
अथ चेद्विघ्नपातेन मुख्यकालो लभ्यते ।कन्यागतेऽपि कुर्व्वीत यावन्नोत्तिष्ठते हरिः
”इति हरिभक्तिविलासः
वाचस्पत्यम्
Sanskrit
पवित्रारोप(ह)ण
न०
त० विष्णुप्रभृतिदेवसम्प्रदाबवेयज्ञोपवीतदाने देवभेदेन तिथिभेदादौ तद्दानप्रकारश्चहेमा० व्र० विष्णुरहस्ये उक्तो यथा“तस्माद्भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः वर्षे वर्षेप्रकर्त्तव्यं परित्रारोपणं हरेः श्रावणस्य सिते पक्षेकर्कटस्थे दिवाकरे द्वादश्यां वासुदेवस्य पवित्रारोपणंस्मृतम् सिंहस्थे वा रवौ कार्य्यं कन्थायान्तु गतेऽथवा तस्यामेव तिथौ सम्यक् तुलास्थे कथञ्चन ।विष्णोरुद्रस्य सूर्य्यस्य विरिञ्चेः षण्मुखस्य देव्याग-णाधिनाथस्य मातॄणां धनदस्य पवित्रारोपणंकार्य्यमन्येषाञ्च यथाविधि अकृत्वा फलहानिः स्यात्संवत्सरकृतार्चनात् सर्वेषान्तु महत् पुण्यं पवित्रा-रोपणे कृते तिथयस्तत्त्वविन्यासाः पृथगुक्तास्तपी-धन! प्रतिपद्वनदस्योक्ता पवित्रारोपणे तिथिः श्रियादेव्या द्वितीया तु तिथीनामुत्तमा तिथिः तृतीया तुभवान्यास्तु चतुर्थी तत्सुतस्य तु पञ्चमी नागराजस्यषष्ठी प्रोक्ता गुहस्य सप्तमी भास्करे प्रोक्ता दुर्गाया-श्चाष्टमी स्मृता मातॄणां नवमी प्रोक्ता दशमी वासुकेःस्मृता एकादशी ऋषीणान्तु द्वादशी चक्रपाणिनः ।त्रयोदशी ह्यनङ्गस्य शिवस्योक्ता चतुर्दशी मम देवमुनि-श्रेष्ठ! पौर्णमासी तिथिः स्मृता यथोक्ताः शुक्लपक्षेतु तिथयः श्रावणस्य सर्वेषामेव देवानां तथा कार्य्यंयथाविधि प्रथमं दर्भसूत्रन्तु पद्मसूत्रं ततःपरम् ।ततः क्षौमं सुपुण्यं स्यात् पट्टसूत्रं ततः परम् शुचिकार्पाससूत्रेण निर्मितं वा शुभाशुमम् शुचिर्भूत्वाशुचौ देशे कारयीत प्रयत्नतः तद्विधानोपयुक्तन्तु य-थोक्तफलदायकम् कन्था कर्त्तयते सूत्रं नारी वाथपतिव्रता विधवा साधुशीला वा सूत्रमेतत्तु कर्त्त-येत् केशयुक्तं क्षतं दग्धं मद्यरक्तादिदूषितम् म-लिनं नीलरक्तं वा प्रयत्नेन विवर्जयेत् यथोक्तं सूत्र-मादाय त्रिगुणं त्रिः प्रयोजयेत् पवित्रं तेन कुर्वीतकनिष्ठोत्तममध्यमम् कनिष्ठं तन्तुमिर्ज्ञेयं सप्तविंश-तिमिः शुभम् मर्त्त्यलोके तु तत्कीर्त्तिसुखायुर्द्धन-पुत्रदम चतुःपञ्चाशता ज्ञेयं तन्त नां मध्यमं परम् ।दिव्यभोगावहं पुण्यं स्वर्गाबाससुखप्रदम् उत्तमंचैव तन्तूनां शतमष्टोत्तरं शतम् दत्त्वा तद्वासदेवायविष्णुलोकं भजेन्नरः अष्टोत्तरसहस्रं तु तन्तूनां परि-संख्यया वनमाला स्मृता विष्णोर्दत्ता भक्तिप्रदा हिसा कनिष्ठं नाभिमात्रं स्यादूरुमात्रन्तु मध्यमम् ।पवित्रं चीत्तमं प्रोक्तं जामुमात्रं प्रमाणतः वनमालाप्रमाणेन प्रतिमायाः प्रणीयते नराणां जन्मससारदुःखमृत्युप्रणाशिनी कनिष्ठे द्वादशैवोक्ता मध्यमेद्विगुणाः स्मृताः त्रिगुणास्तूत्तमे प्रोक्ता ग्रन्थयस्तुपवित्रके शतमष्टोत्तरं कार्य्यं ग्रन्थीनां तु विधा-जतः मुनीन्द वनमालायां विष्ण्पूजनतत्पर! ।अधिवासनसूत्रे तु ग्रन्थयो द्वादश मृताः तत्त्वन्यासविधानं तु श्रूयतां गुह्यकोत्तम” इत्युपक्रमे तत्त्वन्यासस्तत उक्तः “पवित्रं तेन विख्यातं ब्रह्मतेजो हि गी-यते विष्ण्वाख्यया तु विख्यातं तदा लोके निग-द्यते तदेव सूत्ररूपेण यज्ञेशः कर्मणः प्रभुः ।तदेव त्रिगुणीभूतं नारायणसमाख्यया त्रिवेदात्मात्रिदेवात्मा त्र्यक्षरः प्रणवः स्मृतः ते पर्वतात्समु-द्भूता वराहार्द्धाङ्गमाश्रिताः संघातेन तन्तूनांनवात्मा परिकीर्त्तितः तन्तूनां प्रथमो देवो वासुदेवोजगद्गुरुः हलायुधो द्वितीयस्तु प्रद्युम्नश्च तृतीयकः ।अपरे त्वनिरुद्धस्तु ततो नारायणः प्रमुः ब्रह्माविष्णु-त्वथा नॄणां वरारोहे समाश्रिताः अधिदैवेन रूपेणअध्यात्म्ये निबोध मे मनोबुद्धिरहङ्कारस्तन्मात्राणितथैव जीवश्चेति नवैतच्च अध्यात्म्येसुव्यवस्थितम् ।द्यौरन्तरिक्षं पृथिवी भूर्भुवःस्वस्तथैव अकारश्चा-प्युकारश्च मकारश्चाधिभूतकम् अग्नित्रयं तथा कर्मत्रयञ्च सदनत्रयम् ज्ञेयं पवित्रे तद्विद्वानधिदैवमु-दाहरेत्” शिवपवित्रलक्षणम् “एकादशाथ वासूत्रैस्त्रिंशता वाष्टयुक्तया पञ्चशता वा कर्त्तव्यंतुल्यग्रन्थ्यन्तराजकम् द्वादशाङ्गुलमानानि व्यायामाष्टा-ङ्गुलानि लिङ्गविस्तारमानानि चतुरङ्गष्ठिकानिवा तथैव पिण्डिकास्पर्शे चतुर्थं सार्वदैवतम् ।साङ्गावतारकं कार्य्यं पवित्रमतिसुन्दरम्” पवित्रा-रोहणमप्यत्र “आषाढशुक्लपक्षस्य याष्टमी श्रावणस्यच पवित्रारोहण कुर्य्यात् दवप्रीतिकरं परम्”कालिकापु० ५८ अ०