| YouTube Channel

पवितव्यम् (pavitavyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पूङ् पवने”@} 2 पवनम् = शोधनम्।
‘श्नि पुनाति पुनीते स्ताम्, पवने पवते ङितः।’ 3 इति देवः।
पावकः-विका, पावकः-विका, 4 पिपविषकः-षिका, पोपूयकः-यिका
पविता-त्री, पावयिता-त्री, पिपविषिता-त्री, पोपूयिता-त्री
-- पावयन्-न्ती, पावयिष्यन्-न्ती-ती, -- -- पवमानः, पावयमानः, पिपविषमाणः, पोपूयमानः
5 पविष्यमाणः, पावयिष्यमाणः, पिपविषिष्यमाणः, पोपूयिष्यमाणः
पूः-पुवौ-पुवः
-- -- -- 6 पूतम्-पवितम्- 7 तः-तवान्, पावितः, पिपविषितः, पोपूयितः-तवान्
पवः, 8 पवमानः, 9 पवनः, 10 पवित्रम् 11, 12 पोता, पावः, 13 पिपविषुः- 14 पिपावयिषुः, पोपुवः
पवितव्यम्, पावयितव्यम्, पिपविषितव्यम्, पोपूयितव्यम्
15 प्रपवणीयम्-प्रपवनीयम्, 16 प्रपावणीयम्-प्रपावनीयम्, पिपविषणीयम्, पोपूयनीयम्
17 18 विपूयः 19 -पव्यम्, 20 अवश्यपाव्यम्, पाव्यम्, पिपविष्यम्, पोपूय्यम्
पूयमानः, पाव्यमानः, पिपविष्यमाणः, पोपूय्यमानः
21 पवः, 22 निष्पावः, 23 उत्पावः, 24 पोत्रम्, 25 वनपोत्रः, 26 पवित्रम्, पावः, पिपविषः, पोपूयः
पवितुम्, पावयितुम्, पिपविषितुम्, पोपूयितुम्
पूतिः, पावना, विपविषा, पिपावयिषा, पोपूया
पवनम्, पावनम्, पिपविषणम्, पोपूयनम्
पूत्वा-पवित्वा, 27 पावयित्वा, पिपविषित्वा, पोपूयित्वा
प्रपूय, प्रपाव्य, प्रपिपविष्य, प्रपोपूय्य
पावम् पूत्वा -पवित्वा पावम् २, पावयित्वा २, पिपविषम् २, पिपविषित्वा २, पोपूयम्
पोपूयित्वा २। 28
प्रासङ्गिक्यः
01
=>
(१०३३)
02
=>
(१-भ्वादिः-९६६। अक। सेट्। आत्म।)
03
=>
(श्लो। २७)
04
=>
[[३। सन्नन्ते, उगन्तत्वेनेण्निषेधे प्राप्ते, ‘स्मिपूङ्रञ्ज्वशां सनि’ (७-२-७४) इति नित्य- मिट्। ‘ओः पुयण्ज्यपरे’ (७-४-८०) इत्यभ्यासस्य इकारः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[पृष्ठम्०८७६+ २६]
06
=>
[[१। ‘पूङश्च’ (७-२-५१) इति निष्ठाया इड्विकल्पः। ‘पूङ्ः क्त्वा च’ (१-२-२२) इति निष्ठायाः कित्त्वनिषेधाद् गुणावादेशौ। एवं क्त्वायामपि रूपद्वयस्योपपत्तिर्ज्ञेया।]]
07
=>
[[आ। ‘पवितोऽनुगुणैर्वातैः शीतैः पूत्वा पयोनिधौ।’ भ। का। ९-३९।]]
08
=>
[[२। कर्तरि, ‘पूङ्यजोः शानन्’ (३-२-१२८) इति शानन्प्रत्ययः। शपि, ‘आने मुक्’ (७-२-८२) इति मुगागमः।]]
09
=>
[[३। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युप्रत्यये, अनादेशे रूपम्। पवनः = वायुः।]]
10
=>
[[४। ‘कर्तरि चर्षिदेवतयोः’ (३-२-१८६) इति कर्तरि ऋषौ, देवतायां वा अभिधेये सति इत्रप्रत्ययः। ऋषिः = अग्निः। ‘अग्निः पवित्रम्, मा पुनातु, (आप। श्रौ। सू। १२-१९-६) ‘वायुः सोमः सूर्य इन्द्रः पवित्रम्, ते मा पुनन्तु।’ (आप। श्रौतसूत्रे १२-९-६) इत्यादिषु यथा। ऋषौ करणे, देवतायाम् कर्तरि चायं प्रत्ययो ज्ञेयः।]]
11
=>
[अग्निः, देवता वा]
12
=>
[[५। ‘तृन्’ (३-२-१३५) इति तच्छीलादिषु कर्तृषु तृन्प्रत्ययः। बाहुलकात् इडागमाभावः।]]
13
=>
[[B। ‘जगत् पिपविषुर्वायुः कल्पान्त इव दुर्धरः।।’ भ। का। ९-५३।]]
14
=>
[[६। ण्यन्तात् सनि, उप्रत्यये रूपम्। अत्रापि ‘ओः पुयण्ज्यपरे’ (७-४-८०) इति अभ्यासस्येकारः। तत्प्रदर्शनार्थमेवात्र रूपमेकं निदर्शितम्।]]
15
=>
[[७। ‘न भाभूपू--’ (८-४-३४) इत्यत्र ‘पू’ इत्यनेन पूञ एव ग्रहणम्, तु पूङः इति काशिकादिषु दृश्यते। तेनात्र णत्वं भवत्येव। क्षीरस्वामी तु अविशेषेण पूङोऽपि प्रकृतसूत्रे ग्रहणं मन्यमानः प्रपवनीयम् इति णत्वाभाव- घटितं रूपमुदाजहार।]]
16
=>
[[८। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति णत्वनिषेधोऽपि नास्य धातोरिति पक्षे रूपमेवम्। क्षीरस्वामिमते तु पूर्ववदत्रापि णत्वनिषेधः।]]
17
=>
[पृष्ठम्०८७७+ २४]
18
=>
[[१। ‘विपूयविनीयजित्या मुञ्जकल्कहलिषु’ (३-१-११७) इत्यनेन मुञ्जेऽभिधेये विपूर्वका- दस्मात् क्यपि रूपमेवम्। अन्यत्रार्थे तु ‘अचो यत् (३-१-९७) इति यति, अवादेशे पव्यम् इति रूपम्।]]
19
=>
[[आ। ‘वसानां वल्कले शुद्धे विपूयैः कृतमेखलाम्।’ भ। का। ६-६१।]]
20
=>
[[२। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्। आवादेशः। अवश्यमो मकारस्य ‘लुम्पेदवश्यमः कृत्ये’ (काशिका। ६-३-१०९) इति लोपः।]]
21
=>
[[३। ‘ॠदोरप्’ (३-३-५७) इति भावेऽप्प्रत्ययः। घञपवादः।]]
22
=>
[[४। ‘निरभ्योः पूल्वोः’ (३-३-२८) इति निष्पूर्वकादस्मात् घञ्। निष्पावः = धान्य- विशेषः। ‘परिमाणाख्यायां सर्वेभ्यः’ (३-३-२०) इति घञ्यपि रूपमेवमेव। तदानीं निष्पावः = परिमाणविशेषः।]]
23
=>
[[५। ‘उदि श्रयतियौतिपूद्रुवः’ (३-३-४९) इति घञ्।]]
24
=>
[[६। ‘हलसूकरयोः पुवः’ (३-२-१८३) इति करणे ष्ट्रन्प्रत्यये रूपम्। पोत्रम् = सूकरस्य, हलस्य वा मुखम्।]]
25
=>
[[B। ‘भूदार एव वनपोत्रवतामतानीत् भूदारशब्दमसहिष्णुरिवान्तमेषाम्।।’ च। भा। १। २०।]]
26
=>
[[७। ‘पुवः संज्ञायाम्’ (३-२-१८५) इति करणे इत्रप्रत्ययः। पवित्रम् = दर्भः, चक्रायुधं च।]]
27
=>
[[C। ‘सूतोऽपि गङ्गासलिलैः पवित्वा सहाश्वमात्मानमनल्पमन्युः।’ भ। का। ३। १८।]]
28
=>
[पृष्ठम्०८७८+ ३०]
1 {@“पूञ् पवने”@} 2 प्वादिः, ल्वादिश्च।
3 क्र्यादिषु क्षीरस्वामिना “दिवादौ--पूयते…।” इत्याद्युक्तम्।
पूधातुः भ्वादौ, क्र्यादिषु पठ्यते
दिवादौ।
क्षीरस्वामिनाऽपि दिवादिषु पूधातुः कुत्रापि पठितः।
तस्मात् क्षीरस्वामिवाक्यं क्र्यादिगतं किंनिबन्धन- मिति जानीमः।]] ‘श्नि पुनाति पुनीते स्ताम्, पवने पवते ङितः।’ 4 इति देवः।
पावकः-विका, पावकः-विका, 5 पुपूषकः-षिका, पोपूयकः-यिका
पविता-त्री, पावयिता-त्री, पुपूषिता-त्री, पोपूयिता-त्री
6 पुनन् 7 -पुनाति, पावयन्-न्ती, 8 पुपूषन्-न्ती
-- पविष्यन्-न्ती-ती, पावयिष्यन्-न्ती-ती, पुपूषिष्यन्-न्ती-ती
-- पुनानः, पावयमानः, पुपूषमाणः, पोपूयमानः
पविष्यमाणः, पावयिष्यमाणः, पुपूषिष्यमाणः, पोपूयिष्यमाणः
9 10 खलपूः-खलप्वौ-खलप्वः
-- -- -- 11 पूतम्-तः-तवान्- 12 पूनः-पूनवान् 13, पावितः, पुपूषितः, पोपूयितः-तवान्
पवः- 14 पवनः, 15 पुपविवान्, 16 पवित्रम् 17, 18 पोता, पावः, 19 पावनः 20, पुपूषुः, 21 पिपावयिषुः, पोपुवः
पवितव्यम्, पावयितव्यम्, पुपूषितव्यम्, पोपूयितव्यम्
22 प्रपवनीयम्, 23 प्रपावनीयम्, पुपूषणीयम्, पोपूयनीयम्
24 विपूयः, पव्यम्- 25 अवश्यपाव्यम्, पाव्यम्, पुपूष्यम्, पोपूय्यम्
पूयमानः, पाव्यमानः, पुपूष्यमाणः, पोपूय्यमानः
पावः, 26 निष्पावः, 27 निष्पावः, 28 उत्पावः, 29 30 पोत्रम्-पोत्रः, 31 पवित्रम्
पावः, पुपूषः, पोपूयः
पवितुम्, पावयितुम्, पुपूषितुम्, पोपूयितुम्
पूतिः, 32 पविः, पावना, पुपूषा-पिपावयिषा, पोपूया
पवनम्, पावनम्, पुपूषणम्, पोपूयनम्
पूत्वा, पावयित्वा, पुपूषित्वा, पोपूयित्वा
प्रपूय, प्रपाव्य, प्रपुपूष्य, प्रपोपूय्य
पावम् २, पूत्वा २, पावम् २, पावयित्वा, पुपूषम् २, पुपूषित्वा २, पोपूयम्
पोपूयित्वा २। 33 इति गक्प्रत्ययः।
पूगः = संघातः।]] पूगः, 34 तन्प्रत्यये रूपम्।
पुनाति इति पोतः = अग्निः, पुत्रः समुद्रयानं वा।
बाहुलकादिडागमो न।]] पोतः, 35 इति यत्प्रत्यये णुडागमे, उपधाया ह्रस्वे रूपमेवम्।
ह्रस्वविधानसामर्थ्यात् गुणो न।]] पुण्यम्, 36 इति त्रप्रत्यये, धातोर्ह्रस्वे रूपमेवम्।]] पुत्रः।
प्रासङ्गिक्यः
01
=>
(१०३५)
02
=>
(९-क्र्यादिः-१४८२। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(श्लो। २७)
05
=>
[[३। ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्निषेधः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवं सन्नन्ते सर्वत्र प्रक्रिया बोध्या।]]
06
=>
[[४। शतरि ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाऽभ्यस्तयो- रातः’ (६-४-११२) इत्याकारलोपः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति ह्रस्वे रूपमेवम्। एवं शानजन्तेऽपि प्रक्रिया ज्ञेया।]]
07
=>
[[B। ‘द्वारं पुनन् पदतलेन लूनवैरी स्तीर्णाननं मदजलेन करीतुकामम्।’ धा। का। ३। ६।]]
08
=>
[[C। ‘त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान् पुपूषता।’ शि। व। १४। ७।]]
09
=>
[पृष्ठम्०८७९+ २९]
10
=>
[[१। खलं पुनातीति खलपूः। क्विपि रूपमेवम्। द्विवचनादौ, ‘ओः सुपि’ (६-४-८३) इति यण्।]]
11
=>
[[२। ‘श्र्युकः क्किति’ (७-२-११) इति निष्ठायामिण्निषेधः। एवं क्तिनि, क्त्वायाम्, ल्यपि चेण्निषेधो ज्ञेयः।]]
12
=>
[[३। ल्वादित्वेन नित्यं निष्ठानत्वे प्राप्ते, ‘पूञो विनाशे’ (वा। ८-२-४४) इत्यर्थविशेषे निष्ठानत्वम्। पूनाः यवाः। विनष्टाः इत्यर्थः।]]
13
=>
(यवः)
14
=>
[[४। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युप्रत्ययः।]]
15
=>
[[५। लिटः क्वसौ, द्विर्वचने, इडागमे, उत्तरखण्डे गुणे, ‘न शसददवादिगुणानाम्’ (६-४-१२६) इति एत्वाभ्यासलोपः।]]
16
=>
[[६। ‘कर्तरि चर्षिदेवतयोः’ (३-२-१८६) इति कर्तरि, करणे इत्रप्रत्ययः।]]
17
=>
(अग्निः, देवता वा)
18
=>
[[७। ‘तृन्’ (३-२-१३५) इति कर्तरि तच्छीलादिषु तृन्प्रत्ययः। बाहुलकादिडागमो न।]]
19
=>
[[८। ण्यन्तादस्मात् नन्द्यादित्वात् कर्तरि ल्युप्रत्ययः।]]
20
=>
[[आ। ‘दक्षिणीयमवगम्य पङ्क्तिशः पड्क्तिपावनमथ द्विजव्रजम्।’ शि। व। १४। ३३।]]
21
=>
[[९। ण्यन्तादस्मात् सनि, उप्रत्यये, ‘ओः पुयण्--’ (७-४-८०) इत्यभ्यासस्येकारः।]]
22
=>
[[१०। ‘न भाभूपूकमि--’ (८-४-३४) इति णत्वनिषेधः।]]
23
=>
[[११। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति णत्वनिषेधः।]]
24
=>
[[१२। ‘विपूयविनीयजित्या मुञ्जकल्कहलिषु’ (३-१-११७) इति मुञ्जेऽभिधेये क्यपि रूपमेवम्।]]
25
=>
[[B। ‘अवश्यपाव्यं पवसे कच्चित् त्वं देवभाक् हविः।’ भ। का। ६। ६५।]]
26
=>
[[१३। ‘निरभ्योः पूल्वोः’ (३-३-२८) इति निष्पूर्वकादस्मात् घञ्प्रत्ययः। निष्पावः = धान्यविशेषः।]]
27
=>
[[१४। ‘परिमाणाख्यायां सर्वेभ्यः (३-३-२०) इति घञ्। निष्पावः = शूर्पः। निष्पूयते = शोध्यते तुषाद्यपनयनेन यस्तण्डुलादिः सः निष्पावः। शूर्पस्यापि प्राक्काले परिमाणवाचकत्वात् प्रत्ययोत्पत्तिरिति ज्ञेयम्।’]]
28
=>
[[१५। ‘उदि श्रयतियौतिपूद्रुवः’ (३-३-४९) इति भावे घञ्।]]
29
=>
[पृष्ठम्०८८०+ २५]
30
=>
[[१। ‘हलसूकरयोः पुवः’ (३-२-१८३) इति करणे ष्ट्रन्प्रत्यये रूपम्।]]
31
=>
[[२। ‘पुवः संज्ञायाम्’ (३-२-१८५) इति करणे इत्रप्रत्ययः। पवित्रम् = दर्भः, चक्रं च।]]
32
=>
[[३। ‘इणजादिभ्यः’ (वा। ३-३-९४) इति भावे इण्प्रत्ययः। बाहुलकात् वृद्धिर्न। गुणस्तु भवत्येव। पविः = वज्रम्। अजादिः = अजधातुप्रकारः।]]
33
=>
[[४। ‘छापूञ्--’ [द। उ। ३-६९]
34
=>
[[५। औणादिके [द। उ। ६-७]
35
=>
[[६। ‘पूञो यण्णुट् ह्रस्वश्च’ [द। उ। ८-१६]
36
=>
[[७। ‘पूञो ह्रस्वश्च’ [द। उ। ८-८७]