| YouTube Channel

पवनालः (pavanAlaH)

 
शब्दकल्पद्रुमः
Sanskrit
पवनालः,
पुं,
(पवनाय निष्पावाय अलति पर्य्याप्नो-तीति अल पर्य्याप्तौ + अच् ।) धान्यविशेषः ।देधान इति पोनरी इति भाषा तत्पर्य्यायः ।देवधान्यम् चूर्णाह्वः जुहुलः जुललः ५बीजपुष्पः पुष्पगन्धः अस्य गुणाः ।हितत्वम् स्वादुत्वम् लोहितत्वम् श्लेष्म-पित्तनाशित्वम् अवृष्यत्वम् तुवरत्वम् ।रूक्षत्वम् क्लेदकारित्वम् लघुत्वञ्च इतिभावप्रकाशः