| YouTube Channel

पवनविजयः (pavanavijayaH)

 
शब्दकल्पद्रुमः
Sanskrit
पवनविजयः,
पुं,
(पवनं श्वासवायुंविजयतेऽनेन ।वि + जि + करणे अप् यद्वा, पवनस्य विजयोयत्र ।) शुभाशुभसूचकश्वासवायुजयोपायकग्रन्थ-विशेषः यथा --सूत उवाच ।“हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् ।कुजो वह्नी रविः पृथ्वी शौरिरापः प्रकीर्त्तिताः
वायुसंस्थास्थितो राहुर्दक्षरन्ध्रावभासकः ।गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः
वामनाड्यास्तु मध्यस्थान् कारयेदात्मनस्तथा ।यदाचार इडायुक्तस्तदा कर्म्म समाचरेत्
स्थानसेवां तथा ध्यानं बाणिज्यं राजदर्शनम् ।अन्यानि शुभकर्म्माणि कारयेत प्रयत्नतः
दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैंहिकः ।इनश्चैव तथाप्येव पापानामुदयो भवेत्
शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् ।देहमध्ये स्थिता नाड्यो बहुरूपाः सुविस्तराः
नाभेरधस्ताद्यः कन्दो अङ्कुरास्तत्र निर्गताः ।द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः
चक्रवच्च स्थितास्तास्तु सर्व्वाः प्राणहराः स्मृताः ।तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः
वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा ।मध्यमा भवेदग्निः फलती कालरूपिणी
वामा ह्यमृतरूपा जगदाप्यायने स्थिता ।दक्षिणा रौद्रभागेन जगच्छोषयते सदा
द्वयोर्वाहे तु मृत्युः स्यात् सर्व्वकार्य्यविनाशिनी ।निर्गमे भवेद्बामा प्रवेशे दक्षिणा स्मृता
कारयेत् क्रूरकर्म्माणि प्राणे पिङ्गलसंस्थिते ।इडाचारे तथा सौम्यं चन्द्रसूर्य्यगतस्तथा
यात्रायां सर्व्वकार्य्येषु विषापहरणे इडा ।भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका
उच्चाटमारणाद्येषु कर्म्मस्वेतेषु पिङ्गला ।मैथुने चैव संग्रामे भोजने सिद्धिदायिका
शोभनेषु कार्येषु यात्रायां विषकर्म्मणि ।शान्तिमुक्त्यर्थसिद्धौ इडा योज्या नराधिपैः
द्बाभ्याञ्चैव प्रवाहे क्रूरसौम्यविवर्ज्जने ।विष्रुवतीन्तु जानीयात् संस्मरेत्तु विचक्षणः
सौम्यादिशुभकार्य्येषु लाभादिजयजीविते ।गमनागमने चैव वामा सर्व्वत्र पूजिता ।युद्धादिभोजने घाते स्त्रीणाञ्चैव तु सङ्गमे ।प्रशस्ता दक्षिणा नाडी प्रवेशे क्षुद्रकर्म्मणि
शुभाशुभानि कार्य्याणि लाभालाभौ जयाजयौ ।जीवाजीवाय यत् पृच्छेन्न सिध्यति मध्यमा
वामाचारेऽथवा दक्षे प्रत्यये यत्र नायकः ।तत्रस्थः पृच्छते यस्तु तत्र सिद्विर्न संशयः
वैच्छन्दो वामदेवस्तु यदा वहति चात्मनि ।तत्र भागे स्थितः पृच्छेत् सिद्धिर्भवति निष्फला
वामे वा दक्षिणे वापि यत्र संक्रमते शिरा ।घोरे घोराणि कर्म्माणि सौम्ये वै मध्यमानि
प्रस्थिते भागतो हंसे द्वाभ्यां वै सर्व्ववाहिनि ।तदा मृत्युं विजानीयाद्योगी योगविशारदः
यत्र यत्र स्थितः पृच्छेद्बामदक्षिणसंमुखः ।तत्र तत्र समं दिश्याद्वातस्योदयनं सदा
अग्रतो वामिका श्रेष्ठा पृष्ठतो दक्षिणा शुभा ।वामेन वामिका प्रोक्ता दक्षिणे दक्षिणा शुभा
जीवो जीवति जीवेन यच्छून्यं तत् स्वरो भवेत् ।यत्किञ्चित् कार्य्यमुद्दिष्टं जयादिशुभलक्षणम्
तत् सर्व्वं पूर्णनाड्यान्तु जायते निर्व्विकल्पकम् ।अन्यनाड्यादिपर्य्यन्तपक्षत्रयमुदाहृतम्
यावत् षष्ठीन्तु पृच्छायां पूर्णायां प्रथमो जयेत् ।रिक्तायान्तु द्वितीयन्तु कथयेत्तदशङ्कितः
वामाचारः समं वायुर्जायते कर्म्मसिद्धिदम् ।प्रवृत्ते दक्षिणे मार्गे विषमे विषमाक्षरम्
अन्यत्र वामवाहे तु नाम वै विषमाक्षरम् ।तदासौ जयमाप्नोति योधः संग्राममध्यतः
दक्षवातप्रवाहे तु यदि नाम समाक्षरम् ।जायते नात्र सन्देहो नाडीमध्ये तु लक्षयेत्
पिङ्गलान्तर्गते प्राणे समानीयाहवञ्जयेत् ।यावन्नाड्योदयं चारस्तां दिशं यावदाजयेत् ।न जातु जयते सोऽपि नात्र कार्य्या विचारणा
अथ संग्राममध्ये तु यत्र नाडी सदा वहेत् ।सा दिशा जयमाप्नोति शून्ये भङ्गं विनिर्द्दिशेत्
जातचारे जयं विद्यान्मृतके मृतमादिशेत् ।जयं पराजयञ्चैव यो जानाति पण्डितः
वामे वा दक्षिणे वापि यत्र सञ्चरते शिरा ।कृत्वा तत्पदमादौ तु यात्रां नयति शोभनाम्
शशिसूर्य्यप्रवाहे तु सति युद्धं समाचरेत् ।तत्रस्थः पृच्छते यस्तु साधुर्जयति ध्रुवम्
यां दिशं वहते वायुस्तां दिशं यावदाजयेत् ।जयते नात्र सन्देह इन्द्रो यद्यग्रतः स्थितः
मेषाद्या दश या नाड्यो दक्षिणा वामसंस्थिताः ।चरस्थिरद्विमार्गे तास्तादृशे तादृशः क्रमात्
निर्गमे निर्गमं याति संग्रहे संग्रहं विदुः ।पृच्छकस्य वचः श्रुत्वा घण्टाकारेण लक्षयेत्
वामे वा दक्षिणे वापि पञ्चतत्त्वस्थितः शिवे ।ऊर्द्ध्वेऽग्निरध आपश्च तिर्य्यक्संस्थः प्रभञ्जनः ।मध्ये तु पृथिवी ज्ञेया नभः सर्व्वत्र सर्व्वदा
ऊर्ड्घे मृत्युरधः शान्तिस्तिर्य्यक् चोद्घाटयेत् सुधीः ।मध्ये ह्यस्तं विजानीयान्मोक्षः सर्व्वत्र सर्व्वगे
”इति गारुडे पवनविजयादि ६७ अध्यायः