पलितं (palitaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiripened (ग्रे)
शब्दकल्पद्रुमः
Sanskritपलितं, (पलि + भावे क्तः । यद्वा, फलन-मिति । फल + “फलेरितजादेश्च पः ।” उणां ।५ । ३४ । इति इतच् फस्य पत्वम् ।) जरसाकेशादौ शौक्ल्यम् । केशपाकः । इत्यमरः । २ ।६ । ४१ ॥
(यथा, मनुः । ६ । २ ।“गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः ।अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥
”)तस्य निदानं यथाह माधवकरः ।“क्रोधशोकश्रमकृतः शरीरोष्मा शिरोगतः ।पित्तञ्च केशान् पचति पलितं तेन जायते ॥
”तच्चिकित्सा यथा, --“लौहचूर्णस्य कर्षन्तु दशार्द्धञ्चूतमज्जतः ।धात्रीफलद्बयं पथ्ये द्बे तथैकं विभीतकम् ॥
पिष्ट्वा लोहमये भाण्डे स्थापयेन्निशि वासयेत् ।लेपोऽयमचिराद्धन्ति पलितं नेह संशयः ॥
दशार्द्धं पञ्चकर्षाणि ।काशमर्य्या मूलमादौ सहचरकुसुमं केतकस्यापिमूलंलौहं चर्णं सभृङ्गं त्रिफलपलयुतं तैलमेभिःपचेयुः ।कृत्वा लोहस्य भाण्डे क्षितितलनिहितं स्थापये-न्मासमेकंकेशाः काशप्रकाशा अपि मधुपनिभा अस्ययोगाद्भवन्ति ॥
त्रिफला नीलिकापत्रं भृङ्गराजोऽयसो रजः ।अवीमूत्रेण संपिष्टं लेपात् कृष्णीकरं परम् ॥
”इति भावप्रकाशे मध्यखण्डे क्षुद्ररीगाधिकारे ॥
शैलजम् । तापः । कर्द्दमः । इति मेदिनी । ते, १२२ ॥
(पल गतौ + “लोष्टपलितौ ।” उणां । ३ ।९२ । इति क्तप्रत्ययेन निपातनात् सिद्धम् ।)केशपाशः । इति हेमचन्द्रः उज्ज्वलदत्तश्च ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
