| YouTube Channel

पलाशः (palAzaH)

 
Apte Hindi
Hindi
पलाशः
पुं*
- पल + अश् + अण्
"एक वृक्ष, ढाक का पेड़"
Wordnet
Sanskrit
Synonyms:
पलाशः, किंशुकः, वातपोथः, वक्रपुष्पः
noun
पलाशवृक्षस्य रक्तपुष्पाणि।
"सः पलाशैः देवी सरस्वत्याः पूजनं करोति।"
Synonyms:
पलाशः, किंशुकः, पर्णः, वातपोथः, याज्ञिकः, त्रिपर्णः, वक्रपुष्पः, पूतद्रुः, ब्रह्मवृक्षकः, ब्रह्मोपनेता, काष्ठद्रुः, करकः
noun
वृक्षविशेषः यस्य पुष्पाणि रक्तानि सन्ति।
"अस्मिन् उद्याने नैके पलाशाः सन्ति।"
Synonyms:
असुरः, दैत्यः, दैतेयः, दनुजः, इन्द्रारिः, दानवः, शुक्रशिष्यः, दितिसुतः, पूर्वदेवः, सुरद्विट्, देवरिपुः, देवारिः, कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः, रात्रिचरः, कव्वूरः, निकषात्मजः, यातुधानः, पुण्यजनः, नैर्ऋतः, यातुः, रक्षः, सन्ध्याबलः, क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, नक्तञ्चरः, पलाशी, पलाशः, भूतः, नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीलालपः, नरधिष्मणः, खचरः
noun
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा देवानां ऋषीणां शत्रवः आसन्।
"पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।"
Synonyms:
हरित्, हरितः, हरिता, हरितरिणि, हरितम्, हरितवर्णः, हरिः, पलाशः, पलाशी, पलाशम्, पालाशः, पालाशी, पालाशम्, श्यामः, श्यामा, श्यामम्, भरितः, भरिता, भरितम्, श्यामवर्णः, श्यामवर्णा, श्यामवर्णम्, तालकाभः, तालकाभा, तालकाभम्
noun
वर्णविशेषः, शाद्वलवत् वर्णः।
"चित्रकारः शुकस्य पक्षौ हरितेन वर्णेन वर्णयति।"
वैजयन्तीकोषः
Sanskrit
Word: पलाशः
Root: पलाश
Gender: पुं
Number: all
अर्थः
Meaning(s):
Butea frondosa
Tamil Murukku
Shloka(s):
3|3|29|1 पलाशे क्रिंशुकः पर्णो वातपोथस्त्रिपर्णकः। (भूमिकाण्डः/वनाध्यायः)
3|3|29|2 आस्फोतो ब्रह्मवृक्षश्च हस्तिकर्णदले कृती॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|29|1 पलाशः (पलाश) (पुं) Butea frondosa
Tamil Murukku
3|3|29|1 किंशुकः (किंशुक) (पुं) Butea frondosa
Tamil Murukku
3|3|29|1 पर्णः (पर्ण) (पुं) Butea frondosa
Tamil Murukku
3|3|29|1 वातपोथः (वातपोथ) (पुं) Butea frondosa
Tamil Murukku
3|3|29|1 त्रिपर्णकः (त्रिपर्णक) (पुं) Butia frendosa
Tamil Murukku
3|3|29|2 आस्फोतः (आस्फोत) (पुं) Butea frondosa
Tamil Murukku
3|3|29|2 ब्रह्मवृक्षः (ब्रह्मवृक्ष) (पुं) Butea frondosa
Tamil Murukku
Related word(s):
परा_अपरासंबन्धः वृक्षः
Tamil
Tamil
பலாச’: : புரச மரம்.
अमरकोशः
Sanskrit
Word: पलाशः
Root: पलाश
Gender: पुं
Number: all
Meaning(s):
demon
cruel
green
red lac
cochineal
mango-ginger [Curcuma Zedoaria - Bot]
tree flame of the forest [Butea Frondosa - Bot.]
Shloka(s):
2|4|29|2 पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥ (वनौषधिवर्गः)
Synonym(s):
2|4|29|2 पलाशः (पलाश) (पुं) demon, cruel, green, red lac, cochineal, mango-ginger [Curcuma Zedoaria - Bot], tree flame of the forest [Butea Frondosa - Bot.]
2|4|29|2 किंशुकः (किंशुक) (पुं) flame of the forest tree [Butea Frondosa - Bot.], blossom of the forest tree [Butea monosperma - Bot.]
2|4|29|2 पर्णः (पर्ण) (पुं) of a people, water cabbage [Pistia Stratiotes - Bot.], flame of the forest [Butea Frondosa - Bot.], leaf of Asa Foetida [Ferula Asa Foetida - Bot.]
2|4|29|2 वातपोथः (वातपोथ) (पुं) tree flame of the forest [Butea Frondosa - Bot.]
Related word(s):
परा_अपरासंबन्धः वृक्षः
जातिः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
पलाशः,
पुं,
(पलाशानि पर्णानि सन्त्यस्य “अर्शआदिभ्योऽच ।” १२७ इत्यच् ।) स्वनाम-ख्यातवृक्षः तु ब्रह्मणः स्वरूपः यथा, --सूत उवाच ।“अश्वत्थरूपो भगवान् विष्णुरेव संशयः ।रुद्ररूपो वटस्तद्वत् पलाशो ब्रह्मरूपधृक्
दर्शनस्पर्शसेवासु ते वै पापहराः स्मृताः ।दुःखापद्व्याधिदुष्टानां विनाशकारिणो ध्रुवम्
ऋषय ऊचुः ।कथं वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः ।एतत् कथय सर्व्वज्ञ ! संशयोऽत्र महान् हि नः
सूत उवाच ।पार्व्वतीशिवयोर्देवैः सुरतं कुर्व्वतोः किल ।अग्निं ब्राह्मणवेशेन प्रेष्य विघ्नं कृतं पुरा
ततस्तु पार्व्वती क्रुद्धा शशाप त्रिदिवौकसः ।रेतःसेकसुखभ्रंशकम्पमाना तदा रुषा
पार्व्वत्युवाच ।क्रिमिकीटादयोऽप्येते जानन्ति सुरतेः सुखम् ।तस्मान्ममसुखभ्रंशाद्यूयं वृक्षत्वमाप्स्यथ
सूत उवाच ।एवं सा पार्व्वती देवी अशपत् क्रुद्धमानसा ।तस्माद्वृक्षत्वमापन्ना ब्रह्मविष्णुमहेश्वराः
”इति पाद्मोत्तरखण्डे १६० अध्यायः
तत्पर्य्यायः किंशुकः पर्णः वातपोथः ।इत्यमरः २९
याज्ञिकः त्रिपर्णः ६वक्रपुष्पः पूतद्रुः ब्रह्मवृक्षकः ब्रह्मोप-नेता १० काष्ठद्रुः ११ अस्य गुणाः कषा-यत्वम् उष्णत्वम् क्रिमिदोषविनाशित्वञ्च
तद्-बीजगुणः पामकण्डूतिदद्रुत्वग्दोषनाशित्वम्
तत्पुष्पगुणः उष्णत्वम् कण्डूकुष्ठनाशित्वञ्च
तत्पुष्पं चतुर्विधं यथा, राजनिर्घण्टे ।“रक्तः पीतः सितो नीलः कुसुमैस्तु विभाव्यते ।किंशुकैर्गुणसाम्योऽपि सितो विज्ञानदः स्मृतः
”“पलाशः किंशुकः पर्णो याज्ञिको रक्तपुष्पकः ।क्षारश्रेष्ठो वातपोथो ब्रह्मवृक्षः समिद्वरः
पलाशो दीपनो वृष्यः सरोष्णो व्रणगुल्मजित् ।कषायः कटुकस्तिक्तः स्निग्धो गुदजरोगजित्
भग्नसन्धानकृद्दोषग्रहण्यर्शःक्रिमीन् हरेत् ।तत्पुष्पं स्वादु पाके तु कटु तिक्तं कषायकम्
वातलं कफपित्तास्रकृच्छ्रजिद्ग्राहि शीतलम् ।तृड्दाहशमनं वातरक्तकुष्ठहरं परम्
फलं लघूष्णं मेहार्शःक्रिमिवातकफापहम् ।विपाके कटुकं रूक्षं कुष्ठगुल्मोदरप्रणुत्
”इति भावप्रकाशः
पलाशभेदा यथा, --“तद्भेदे स्यात् किंशुलुकः किञ्चलो हस्तिकर्णकः
”इति शब्दरत्नावली
(पलाशस्य फलपुष्पादौ क्ली
) शटी (पलंमांशं अश्नातीति पल + अश् + अण् यद्वा, पले मांसे आशा यस्य ।) राक्षसः इतिमेदिनी शे, २४
हरितः मगधदेशः इतिशब्दरत्नावली
पलाशः, त्रि, (पलवद्धरिद्बर्णेन अश्यते व्याप्यतेइति अश + घञ् ।) हरिद्वर्णविशिष्टः इतिमेदिनी शे, २४
निर्द्दयः इति धरणिः